मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७०

3
नागरखण्डः · 270

पापपिंडप्रदानविधानवर्णनम्

आनर्त उवाच

मूर्खत्वाद्वा प्रमादाद्वा कामाद्बालस्यतोऽपि वा ॥

यो नरः कुरुते पापं प्रायश्चित्तं करोति न

॥१॥

तस्य पापक्षयकरं पुण्यं ब्रूहि द्विजोत्तम ॥

येन मुक्तिर्भवेत्सद्यो यदि तुष्टोऽसि मे प्रभो

॥२॥

लोभमोहपरो योऽसौ पापपिंडं महामुने ॥

प्रददाति विधिं ब्रूहि येन यच्छाम्यहं द्रुतम्

॥३॥

भर्तृयज्ञ उवाच

दद्यात्स्वपिंडं सौवर्णं पंचविंशत्पलात्मकम्

॥४॥

विधायापरपक्षे तु स्नापयित्वा विधानतः ॥

मंडपाद्यं च प्राक्कृत्वा स्नात्वा धौतांबरः शुचिः

॥५॥

तदा स्वरूपं पृथ्व्यादि पूजयेत्पापकृन्नरः ॥

तथा स मुच्यते पापात्तत्कृताद्धि न संशयः

॥६॥

चतुर्विंशतितत्त्वानि पृथिव्यादीनि यानि च ॥

तेषां नामभिस्तत्पिंडं पूजयेतन्नराधिपः

॥७॥

ॐ पृथिव्यै नमः ॥

ॐ अद्भ्यो नमः ॥

ॐ तेजसे नमः ॥

ॐ वायवे नमः ॥

ॐ आकाशाय नमः ॥

ॐ घ्राणाय नमः ॥

ॐ जिह्वायै नमः ॥

ॐ चक्षुषे नमः ॥

ॐ त्वचे नमः ॥

ॐ श्रोत्राय नमः ॥

ॐ गन्धाय नमः ॥

ॐ रसाय नमः ॥

ॐ रूपाय नमः ॥

ॐ स्पर्शाय नमः ॥

ॐ शब्दाय नमः ॥

ॐ वाचे नमः ॥

ॐ पाणिभ्यां नमः ॥

ॐ पादाभ्यां नमः ॥

ॐ पायवे नमः ॥

ॐ उपस्थाय नमः ॥

ॐ मनसे नमः ॥

ॐ बुद्ध्यै नमः ॥

ॐ चित्ताय नमः ॥

ॐ अहंकाराय नमः।

ॐ क्षेत्रात्मने नमः ॥

ॐ परमात्मने नमः ॥

धूपं धूरसि मंत्रेण अग्निर्ज्योतीति दीपकम् ॥

युवा सुवासेति च ततो वासांसि परिधापयेत्

॥८॥

ततो ब्राह्मणमानीय वेदवेदांगपारगम् ॥

प्रक्षाल्य चरणौ तस्य वासांसि परिधापयेत्

॥९॥

केयूरैः कंकणैश्चैव अंगुलीयकभूषणैः

॥१०॥

भूषयित्वा तनुं तस्य ततो मूर्तिं समानयेत् ॥

मंत्रेणानेन राजेंद्र ब्राह्मणाय निवेदयेत्

॥११॥

एष आत्मा मया दत्तस्तव हेममयो द्विज ॥

यत्किंचिद्विहितं पापं पूर्वं भूयात्तवाखिलम्

॥१२॥

इति दानमंत्रः ॥

ततस्तु ब्राह्मणो राजन्मंत्रमेतं समुच्चरेत्

॥१३॥

यत्किंचिद्विहितं पापं त्वया पूर्वंमया हि तत् ॥

गृहीतं मूर्तिरूपं तत्ततस्त्वं पापवर्जितः ॥

इति प्रतिग्रहमंत्रः

॥१४॥

एवं दत्त्वा विधानेन ततो विप्रं विसर्जयेत् ॥

एवं कृते ततो राजंस्तस्मै दत्त्वाथ दक्षिणाम्

॥१५॥

यथा तुष्टिं समभ्येति ततः पापं नयत्यसौ ॥

तस्मिन्कृते महाराज प्रत्ययस्तत्क्षणाद्भवेत्

॥१६॥

शरीरं लघुतामेति तेजोवृद्धिश्च जायते ॥

स्वप्ने च वीक्षते रात्रौ संतुष्टमनसः स्थितान्

॥१७॥

नरान्स्त्रियः सितैर्वस्त्रैः श्वेतमाल्यानुलेपनैः ॥

श्वेतान्गोवृषभानश्वांस्तीर्थानि विविधानि च

॥१८॥

एतत्ते सर्वमाख्यातं पापपिंडस्य दापनम् ॥

श्रवणादपि राजेंद्र यस्य पापैः प्रमुच्यते

॥१९॥

अन्यत्रापि महादानं पापपिण्डो हरेन्नृप ॥

एकजन्मकृतं पापं निजकायेन निर्मितम् ॥

कपालेश्वरदेवस्य सहस्रगुणितं हरेत्

॥२१॥

पूर्ववच्चैव कर्तव्यो वेदिमंडपयोर्विधिः ॥

परं होमः प्रकर्तव्यो गायत्र्या केवलं नृप

॥२२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कपालेश्वरक्षेत्रमाहात्म्यप्रसंगेन पापपिंडप्रदानविधानवर्णनंनाम सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७० ॥