मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ६६

3
नागरखण्डः · 66

जमदग्निवधवर्णनम्

सूत उवाच

तथा तत्रास्ति विख्यातं रामह्रद इति स्मृतम् ॥

यत्र ते पितरस्तेन रुधिरेण प्रतर्पिताः

॥१॥

तत्र भाद्रपदे मासि योऽमावास्यामवाप्य च ॥

पितॄन्संतर्पयेद्भक्त्या सोऽश्वमेधफलं लभेत्

॥२॥

ऋषय ऊचुः

अत्याश्चर्यमिदं सूत यद्ब्रवीषि महामते ॥

यत्तेन पितरस्तत्र रुधिरेण प्रतर्पिताः

॥३॥

पितृणां तर्पणार्थाय मेध्याः संकीर्तिता बुधैः ॥

पदार्था रुधिरं प्रोक्तं राक्षसानां प्रतर्पणे

॥४॥

श्रुतिस्मृतिविरुद्धं च कर्म सद्भिर्विगर्हितम् ॥

जामदग्न्येन तच्चीर्णं कस्मात्सूत वदस्व नः

॥५॥

सूत उवाच

तेन कोपवशात्कर्म प्रतिज्ञां परिरक्षता ॥

तत्कृतं तर्पिता येन पितरो रुधिरेण ते

॥६॥

पिता तस्य पुरा विप्रा जमदग्निर्निपातितः ॥

क्षत्रियेण स्वधर्मस्थो विना दोषं द्विजोत्तमाः

॥७॥

ततः कोपपरीतेन तेन प्रोक्तं महात्मना ॥

रक्तेन क्षत्रियोत्थेन संतर्प्याः पितरो मया

॥८॥

एतस्मात्कारणात्तेन रुधिरेण महात्मना ॥

पितरस्तर्पिता सम्यक्तिलमिश्रेण भक्तितः

॥९॥

ऋषय ऊचुः

जमदग्निर्हतः कस्मात्क्षत्रियेण महामुनिः ॥

किंनामा स च भूपालो विस्तराद्वद सूत तत्

॥१०॥

सूत उवाच

ऋचीकतनयः पूर्वं जमदग्निरिति स्मृतः ॥

हाटकेश्वरजे क्षेत्रे तत्रासीद्दग्धकल्मषः

॥११॥

चत्वारस्तस्य पुत्राश्च बभूवुर्गुणसंयुताः ॥

जघन्योऽपि गुणज्येष्ठस्तेषां रामो बभूव ह

॥१२॥

कदाचिद्वसतस्तस्य जमदग्नेर्महावने ॥

पुत्रेषु कन्दमूलार्थं निर्गतेषु वनाद्बहिः

॥१३॥

एतस्मिन्नंतरे प्राप्तो हैहयाधिपतिर्बली ॥

सहस्रार्जुन इत्येव विख्यातो यो महीतले

॥१४॥

मृगलिप्सुर्वने तस्मिन्भ्रममाण इतस्ततः ॥

श्रमार्तो वृषराशिस्थे भास्करे दिनमध्यगे

॥१५॥

ततस्तमाश्रमं दृष्ट्वा नानाद्रुम समाकुलम् ॥

चतुरंगेन सैन्येन सहितः प्रविवेश ह

॥६॥

अथापश्यत्स तत्रस्थं जमदग्निं महामुनिम् ॥

उपविष्टं कृतस्नानं देवार्चनपरायणम्

॥७॥

अथ तं पार्थिवं दृष्ट्वा स मुनिस्तुष्टिसंयुतः ॥

अर्घं दत्त्वा यथान्यायं स्वागतेनाभिनंद्य च

॥१८॥

सोऽपि तं प्रणिपत्योच्चैर्विनयेन समन्वितः ॥

प्रतिसंभाषयामास कुशलं पर्यपृच्छत

॥१९॥

राजोवाच

कच्चित्ते कुशलं विप्र पुत्रशिष्यान्वितस्य च ॥

साग्निहोत्र कलत्रस्य परिवारयुतस्य च

॥२०॥

अद्य मे सफलं जन्म जीवितं सफलं च मे ॥

यत्त्वं तपोनिधिर्दृष्टः सर्वलोकनमस्कृतः

॥२१॥

एवमुक्त्वा स राजर्षिर्विश्रम्य सुचिरं ततः ॥

पीत्वापस्तमुवाचेदं प्रणिपत्य महामुनिम्

॥२२॥

अनुज्ञां देहि मे ब्रह्मन्प्रयास्यामि निजं गृहम् ॥

मम कृत्यं समादेश्यं येन ते स्यात्प्रयोजनम्

॥२३॥

जमदग्निरुवाच

देवतार्चनवेलायां त्वं मे गृहमुपागतः ॥

मनोरथ इव ध्यातः सर्वदेवमयोऽतिथिः

॥२४॥

तस्मान्मेऽस्ति परा प्रीतिर्भक्तिश्च नृपसत्तम ॥

तत्कुरुष्व मया दत्तं स्वहस्तेनैव भोजनम्

॥२५॥

राजा वा ब्राह्मणो वाथ शूद्रो वाप्यंत्यजोऽपि वा ॥

वैश्वदेवान्तसंप्राप्तः सोऽतिथिः स्वर्गसंक्रमः

॥२६॥

राजोवाच

ममैते सैनिका ब्रह्मञ्छतशोऽथ सहस्रशः ॥

तैरभुक्तैः कथं भोक्तुं युज्यते मम कीर्तय

॥२७॥

जमदग्निरुवाच

सर्वेषां सैनिकानां ते संप्रदास्यामि भोजनम् ॥

नात्र चिंता त्वया कार्या मुनिर्निष्किंचनो ह्यहम्

॥२८॥

यैषा पश्यति राजेंद्र धेनुर्बद्धा ममांतिके ॥

एषा सूते मनोभीष्टं प्रार्थिता सर्वदैव हि ॥

सूत उवाच ॥

ततश्च कौतुकाविष्टः स नृपो द्विजसत्तमाः ॥

बाढमित्येव संप्रोच्य तस्मिन्नेवाश्रमे स्थितः

॥३०॥

ततः संतर्प्य देवांश्च पितॄंश्च तदनंतरम् ॥

पूजयित्वा हविर्वाहं ब्राह्मणांश्च ततः परम्

॥३१॥

उपविष्टस्ततः सार्धं सर्वैर्भृत्यैर्बुभुक्षितैः ॥

श्रमार्तैर्विस्मयाविष्टैः कृते तस्य द्विजोत्तमाः

॥३२॥

ततः स प्रार्थयामास तां धेनुं मुनिसत्तमः ॥

यो यत्प्रार्थयते देहि भोज्यार्थं तस्य तच्छुभे

॥३३॥

ततः सा सुषुवे धेनुरन्नमुच्चावचं शुभम् ॥

पक्वान्नं च विशेषेण चित्ताह्लादकरं परम्

॥३४॥

ततः खाद्यं च चव्यं च लेह्यं चोष्यं तथैव च ॥

व्यंजनानि विचित्राणि कषायकटुकानि च ॥

अम्लानि मधुराण्येव तिक्तानि गुणवंति च

॥३५॥

एवं प्राप्य परां तृप्तिं तया धेन्वा स भूपतिः ॥

सेवकैः सबलैः सार्ध मन्नैरमृतसंभवैः

॥३६॥

ततो भुक्त्यवसाने तु प्रार्थयामास भूपतिः ॥

तां धेनुं विस्मयाविष्टो जमदग्निं महामुनिम्

॥३७॥

कामधेनुरियं ब्रह्मन्नार्हारण्यनिवासिनाम् ॥

मुनीनां शान्तचित्तानां तस्माद्यच्छ मम स्वयम्

॥३८॥

येनाऽकरान्करोम्यद्य लोकांस्तस्याः प्रभावतः ॥

साधयामि च दुर्गस्थाञ्छत्रून्भूरिबलान्वितान्

॥३९॥

एवं कृते तव श्रेयो भविष्यति च सद्यशः ॥

इह लोके परे चैव तस्मात्कुरु मयोदितम्

॥४०॥

जमदग्निरुवाच

होमधेनुरियं राजन्ममैका प्राणसंमता ॥

अदेया सर्वदा पूज्या तस्मान्नार्हसि याचितुम्

॥४१॥

राजोवाच

अहं शतसहस्रं ते यच्छाम्यस्याः कृते द्विज ॥

धेनूनामपरं वित्तं यावन्मात्रं प्रवांछसि

॥४२॥

जमदग्निरुवाच

अविक्रेया महाराज सामान्यापि हि गौः स्मृता ॥

किं पुनर्होमधेनुर्या प्रभावैरीदृशैर्युता

॥४३॥

विमोहाद्ब्राह्मणो यो गां विक्रीणाति धनेच्छया ॥

विक्रीणाति न सन्देहः स निजां जननीमिह

॥४४॥

सुरां पीत्वा द्विजं हत्वा द्विजानां निष्कृतिः स्मृता ॥

धेनुविक्रयकर्तॄणां प्रायश्चित्तं न विद्यते

॥४५॥

राजोवाच

यदि यच्छसि नो विप्र साम्ना धेनुमिमां मम ॥

बलादपि हरिष्यामि तस्मात्साम्ना प्रदीयताम्

॥४६॥

सूत उवाच

तच्छ्रुत्वा कोपसंयुक्तो जमदग्निर्द्विजोत्तमाः ॥

अस्त्रमस्त्रमिति प्रोच्य समुत्तस्थौ सभातलात्

॥४७॥

ततस्ते सेवकास्तस्य नृपतेश्चित्तवेदिनः ॥

अप्राप्तशस्त्रं तं विप्रं निजघ्नुर्निशितायुधैः

॥४८॥

तस्यैवं वध्यमानस्य जमदग्नेर्महात्मनः ॥

रेणुकाख्या प्रिया भार्या पपातोपरि दुःखिता

॥४९॥

साऽपि नानाविधैस्तीक्ष्णैः खण्डिता वरवर्णिनी ॥

आयुःशेषतया प्राणैर्न कथंचिद्वियोजिता

॥५०॥

एवं हत्वा स विप्रेन्द्रं जमदग्निं महीपतिः ॥

तां धेनुं कालयामास यत्र माहिष्मती पुरी

॥५१॥

अथ सा काल्यमाना च धेनुः कोपसमन्विता ॥

जमदग्निं हतं दृष्ट्वा ररम्भ करुणं मुहुः

॥५२॥

तस्याः संरम्भमाणाया वक्त्रमार्गेण निर्गताः ॥

पुलिन्दा दारुणा मेदाः शतशोऽथ सहस्रशः

॥५३॥

नानाशस्त्रधराः सर्वे यमदूता इवापराः ॥

प्रोचुस्तां सादरं धेनुमाज्ञां देहि द्रुतं हि नः

॥५४॥

साऽब्रवीद्धन्यतामेतद्धैहयाधिपतेर्बलम् ॥

अथ तैः कोपसंयुक्तैर्दारुणैर्म्लेच्छजातिभिः ॥

विनाशयितुमारब्धं शितैः शस्त्रैर्निरर्गलम् ॥

१ न कश्चित्पुरुषस्तेषां सम्मुखोऽप्यभवद्रणे ॥

किं पुनः सहसा योद्धुं भयेन महतान्वितः

॥५६॥

अथ भग्नं बलं दृष्ट्वा वध्यमानं समंततः ॥

पुलिन्दैर्दारुणाकारैः प्रोचुस्तं मन्त्रिणो नृपम्

॥५७॥

तेजोहानिः परा तेऽद्य जाता ब्रह्मवधाद्विभो ॥

तस्माद्धेनुं परित्यज्य गम्यतां निजमंदिरम्

॥५८॥

यावन्नागच्छते तस्य रामोनाम सुतो बली ॥

नो चेत्तेन हतोऽत्रैव सबलो वधमेष्यसि

॥५९॥

नैषा शक्या बलान्नेतुं कामधेनुर्महोदया ॥

शक्तिरूपा करोत्येवं या सृष्टिं स्वयमेव हि

॥६०॥

ततः स पार्थिवो भीतस्तेषां वाक्याद्विशेषतः ॥

जगाम हित्वा तां धेनुं स्वस्थानं हतसेवकः

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जमदग्निवधवर्णनंनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥