मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २११

3
नागरखण्डः · 211

राज्ञो दारिद्र्यदोषस्य कुष्ठव्याधेश्च कारणम्

विश्वामित्र उवाच

राज्ञो दारिद्र्यदोषस्य कुष्ठव्याधेश्च कारणम् ॥

कथयित्वा पुनः प्राह नारदो मुनिसत्तमः

॥१॥

नारद उवाच

एतत्ते सर्वमाख्यातं राजन्कुष्ठस्य कारणम् ॥

दारिद्र्यस्य च यत्सम्यग्ज्ञात्वा दिव्येन चक्षुषा

॥२॥

अधुना संप्रवक्ष्यामि यथा तव पराभवः ॥

शत्रुभ्यः संप्रजातोऽत्र द्विजानामपमानतः

॥३॥

आनर्ताधिपतिर्योऽत्र कश्चिद्राज्येऽभिषिच्यते ॥

स पूर्वं गच्छति ग्रामं नागराणां प्रभक्तितः

॥४॥

त्वया तत्कल्पितं राजन्नैव दत्तं प्रमादतः ॥

पराभूता द्विजास्ते च याचमाना मुहुर्मुहुः

॥५॥

तथा कोपवशाद्यानि शासनानि द्विजन्मनाम् ॥

लोपितानि त्वयान्यानि पितृपैतामहानि च

॥६॥

तेन तेऽत्र पराभूतिः संजाता शत्रुसंभवा ॥

एवं ज्ञात्वा द्विजेद्राणां शास नानि प्रयच्छ भोः

॥७॥

गृहीतानि च यान्येव तेषां मोक्षं समाचर ॥

तच्छ्रुत्वा पार्थिवः सोऽथ शंखतीर्थे प्रभक्तितः

॥८॥

स्नात्वा विप्रान्समा हूय मध्यगेन समन्वितान् ॥

शंखादित्यस्य पुरतः प्रक्षाल्य चरणौ नृप

॥९॥

ददौ च शासनशतं प्रक्षाल्य चरणांस्ततः ॥

षड्विंशत्यधिकं राजा नागराणां महात्मनाम्

॥१०॥

एतस्मिन्नंतरे तत्र शत्रवो ये च संस्थिताः ॥

सर्वे मृत्युं समापन्ना ब्राह्मणानां प्रसादतः

॥११॥

विश्वामित्र उवाच

एतत्ते सर्वमाख्यातं शंखतीर्थसमुद्भवम् ॥

प्रभावं पार्थिवश्रेष्ठ किं भूयः श्रोतुमिच्छसि

॥१२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थमाहात्म्यवर्णनंनामैकादशोत्तरद्विशततमोऽध्यायः ॥ २११ ॥