मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९३

3
नागरखण्डः · 193

गायत्रीवरप्रदानः

ऋषय ऊचुः

एवं गतायां सावित्र्यां सकोपायां च सूतज ॥

किं कृतं तत्र गायत्र्या ब्रह्माद्यैश्चापि किं सुरैः

॥१॥

एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः ॥

कथं शापान्विता देवाः संस्थितास्तत्र मण्डपे

॥२॥

सूत उवाच

गतायामथ सावित्र्यां शापं दत्त्वा द्विजोत्तमाः ॥

गायत्री सहसोत्थाय वाक्यमेतदुदैरयत्

॥३॥

सावित्र्या यद्वचः प्रोक्तं तन्न शक्यं कथंचन ॥

अन्यथा कर्तुमेवाथ सर्वैरपि सुरासुरैः

॥४॥

महासती महाभागा सावित्री सा पतिव्रता ॥

पूज्या च सर्वदेवानां ज्येष्ठा श्रेष्ठा च सद्गणैः

॥५॥

परं स्त्रीणां स्वभावोऽयं सर्वासां सुरसत्तमाः ॥

अपि सह्यो वज्रपातः सपत्न्या न पुनः कथा

॥६॥

मत्कृते येऽत्र शपिता सावित्र्या ब्राह्मणाः सुराः ॥

तेषामहं करिष्यामि शक्त्या साधारणां स्वयम्

॥७॥

अपूज्योऽयं विधिः प्रोक्तस्तया मंत्रपुरःसरः ॥

सर्वेषामेव वर्णानां विप्रादीनां सुरो त्तमाः

॥८॥

ब्रह्मस्थानेषु सर्वेषु समये धरणीतले ॥

न ब्रह्मणा विना किंचित्कृत्यं सिद्धिमुपैष्यति

॥९॥

कृष्णार्चने च यत्पुण्यं यत्पुण्यं लिंग पूजने ॥

तत्फलं कोटिगुणितं सदा वै ब्रह्मदर्शनात् ॥

भविष्यति न सन्देहो विशेषात्सर्वपर्वसु

॥१०॥

त्वं च विष्णो तया प्रोक्तो मर्त्यजन्म यदाऽप्स्यसि ॥

तत्रापि परभृत्यत्वं परेषां ते भविष्यति

॥११॥

तत्कृत्वा रूपद्वितयं तत्र जन्म त्वमाप्स्यसि ॥

यत्तया कथितो वंशो ममायं गोपसंज्ञितः ॥

तत्र त्वं पावनार्थाय चिरं वृद्धिमवाप्स्यसि

॥१२॥

एकः कृष्णाभिधानस्तु द्वितीयोऽर्जुनसंज्ञितः ॥

तस्यात्मनोऽर्जुनाख्यस्य सारथ्यं त्वं करिष्यसि

॥१३॥

तेनाकृत्येऽपि रक्तास्ते गोपा यास्यंति श्लाघ्यताम् ॥

सर्वेषामेव लोकानां देवानां च विशेषतः

॥१४॥

यत्रयत्र च वत्स्यंति मद्वं शप्रभवानराः ॥

तत्रतत्र श्रियो वासो वनेऽपि प्रभविष्यति

॥१५॥

भोभोः शक्र भवानुक्तो यत्तया कोपयुक्तया ॥

पराजयं रिपोः प्राप्य कारा गारे पतिष्यति

॥१६॥

तन्मुक्तिं ते स्वयं ब्रह्मा मद्वाक्येन करिष्यति

॥१७॥

ततः प्रविष्टः संग्रामे न पराजयमाप्स्यसि ॥

त्वं वह्ने सर्वभक्षश्च यत्प्रोक्तो रुष्टया तया

॥१८॥

तदमेध्यमपि प्रायः स्पृष्टं तेऽर्च्चिर्भिरग्रतः ॥

मेध्यतां यास्यति क्षिप्रं ततः पूजामवाप्त्यसि

॥१९॥

स्वाहा नाम च भार्या या देवान्सन्तर्पयिष्यति ॥

स्वधा चाऽपि पितॄन्सर्वान्मम वाक्यादसंशयम्

॥२॥

यद्रुद्र प्रियया सार्धं वियोगः कथितस्तया ॥

तस्याः श्रेष्ठ तरा चान्या तव भार्या भविष्यति ॥

गौरीनामेति विख्याता हिमाचलसुता शुभा

॥२१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीवरप्रदानोनाम त्रिनवत्युत्तरशततमोऽध्यायः ॥ १९३ ॥