मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१६

3
नागरखण्डः · 216

श्राद्धोत्पत्तिवर्णनम्

आनर्त उवाच

अन्येऽपि विविधाः कालाः सन्ति पुण्यतमा द्विज ॥

कस्माच्चेंदुक्षये श्राद्धं विशेषा त्समुदाहृतम्

॥१॥

एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने

॥२॥

भर्तृयज्ञ उवाच

सत्यमेतन्महाराज श्राद्धार्हाः संति भूरिशः ॥

कालाः पितृगणानां च तृप्तिदास्तुष्टिदाश्च ये

॥३॥

मन्वाद्या वा युगाद्याश्च तेषां संक्रांतयोऽपराः ॥

व्यतीपातो गजच्छाया ग्रहणं सोम सूर्ययोः

॥४॥

एतेषु युज्यते श्राद्धं प्रकर्तुं पितृतृप्तये ॥

तथा तीर्थे विशेषेण पुण्य आयतने शुभे

॥५॥

श्राद्धार्हैर्ब्राह्मणैः प्राप्तैर्द्रव्यैर्वा पितृवल्लभैः ॥

अपर्वण्यपि कर्तव्यं सदा श्राद्धं विचक्षणैः

॥६॥

सोमक्षये विशेषेण शृणुष्वैकमना नृप ॥

अमा नाम रवे रश्मिसहस्रप्रमुखः स्थितः

॥७॥

यस्य स्वतेजसा सूर्यः प्रोक्तस्त्रैलोक्यदीपकः ॥

तस्मिन्वसति येनेन्दुरमावस्या ततः स्मृता

॥८॥

अक्षया धर्मकृत्ये सा पितृकृत्ये विशेषतः ॥

अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा

॥९॥

रश्मिपा उपहूताश्च तथैवायंतुनाः परे ॥

तथा श्राद्धभुजश्चान्ये स्मृता नान्दीमुखा नृप

॥१०॥

एते पितृगणाः ख्याता नव देवसमुद्भवाः ॥

आदित्या वसवो रुद्रा नासत्यावश्विनावपि

॥११॥

सन्तर्पयन्ति ते चैतान्मुक्त्वा नान्दीमुखान्पितॄन् ॥

ब्रह्मणा ते समादिष्टाः पितरो नृपसत्तम

॥१२॥

तान्संतर्प्य ततः सृष्टिं कुरुते पद्मसंभवः

॥१३॥

पितरो अन्येऽपि मर्त्या निवसन्ति त्रिविष्टपे ॥

द्विविधास्ते प्रदृश्यंते सुखिनोऽसुखिनः परे

॥१४॥

येभ्यः श्राद्धानि यच्छंति मर्त्य लोके स्ववंशजाः ॥

ते सर्वे तत्र संहृष्टा देववन्मुदिताः स्थिताः

॥१५॥

येषां यच्छन्ति ते नैव किंचित्किञ्चित्स्ववंशजाः ॥

क्षुत्पिपासाकुला स्ते च दृश्यन्ते बहुदुःखिताः

॥१६॥

कस्यचित्त्वथ कालस्य पितरः सुरपूजिताः ॥

अग्निष्वात्तादयः सर्वे त्रिदशेन्द्रमुपस्थिताः

॥१७॥

भक्त्या दृष्टा महाराज सहस्राक्षेण पूजिताः ॥

तथान्यैर्विबुधैः सर्वैः प्रस्थिताः स्वे निकेतने

॥१८॥

पितृलोकं महाराज दुर्लभं त्रिदशैरपि ॥

तान्दृष्ट्वा प्रस्थितान्राजन्पितरो मर्त्यसंभवाः

॥१९॥

क्षुत्पिपासार्दिता ये च त ऊचुर्दैन्यमाश्रिताः ॥

स्तुत्वाऽथ सुस्तवैर्दिव्यैः पितृसूक्तैश्च पार्थिव

॥२०॥

वेदोक्तैरपरैश्चैव पितृतुष्टिकरैः परैः ॥

ततः प्रोचुश्च संहृष्टाः पितरस्तान्सुरोद्भवाः

॥२१॥

प्रसन्नाः स्मो वयं सर्वे युष्माकं शंसितव्रताः ॥

तस्माद्ब्रूत वयं येन यच्छामो वो हृदि स्थितम्

॥२२॥

पितर ऊचुः

वयं हि पितरः ख्याता मनुष्याणामिहागताः ॥

स्वर्गे स्वकर्मणा नित्यं निवसाम सुरैः सह

॥२३॥

विमानेषु विचित्रेषु संस्थिताः सर्वतोदिशम् ॥

वांछितेषु च लोकेषु यामो ध्वजपताकिषु

॥२४॥

हंसबर्हिण जुष्टेषु संसेव्येष्वप्सरोगणैः ॥

गन्धर्वैर्गीयमानाश्च स्तूयमानाश्च गुह्यकैः

॥२५॥

परं सन्तिष्ठमानानामस्माकं त्रिदशैः सह ॥

अत्यर्थं जायते तीव्रा क्षुत्पिपासा सुदारुणा

॥२६॥

यस्या मन्यामहे चित्ते वह्निमध्यगता वयम् ॥

भक्षयामः किमेतान्हि पक्षिणो विविधानपि ॥

हंसादीन्मधुरालापान्किं वा चाप्सरसां गणान्

॥२७॥

यदि कश्चित्क्षुधाविष्टः कञ्चिदादाय पक्षिणम् ॥

गुप्तो गृह्णाति भक्षार्थं हन्तुं शक्तोऽपि सोऽपि न

॥२८॥

अजराश्चामराश्चैव स्वर्गे ये स्वर्गगाः खगाः ॥

तथा मनोरमा वृक्षा नन्दनादि वनेषु च

॥२९॥

फलिता ये प्रदृश्यंते प्राप्यांश्चापि मनोरमाः ॥

तत्फलानि वयं सर्वे गृह्णीमः पितरो यदि

॥३०॥

न त्रुटंत्यपि यत्नेन समाकृष्टानि तान्यपि ॥

एतल्लेखापगातोयं तृषार्त्ता यदि यत्नतः ॥

प्रपिबामो न हस्तेषु तच्च तोयं पुनः स्पृशेत्

॥३१॥

भुंजानश्च न कोऽप्यत्र दृश्यतेऽत्र पिबन्नपि ॥

तस्मात्त्रिविष्टपावासो ह्यस्माकं घोरदारुणः

॥३२॥

एते सुरगणाः सर्वे ये चान्ये गुह्यकादयः ॥

दृश्यंतेऽत्र विमानस्था सर्वे संहृष्टमानसाः

॥३३॥

क्षुत्पिपासापरित्यक्ता नानाभोगसमाश्रयाः ॥

कदाचिच्च वयं सर्वे भवामस्तादृशा इव

॥३४॥

क्षुत्पिपासापरित्यक्ताः सतोषं परमं गताः ॥

तत्किं कारणमेतद्यत्क्षुत्पि पासा प्रजायते

॥३५॥

आकस्मिकी च बाधा नः कदाचिन्न प्रणश्यति ॥

तथा कुरुत भद्रं वो यथा तुष्टिः प्रजायते

॥३६॥

शाश्वती नो यथाऽन्येषां देवानां स्वर्गवासिनाम् ॥

यूयं हि पितरो यस्माद्देवानां भावितात्मनाम्

॥३७॥

वयं चैव मनुष्याणां तेन वः शरणं गताः ॥

पितर ऊचुः ॥

अस्माकमपि चैवैषा कष्टावस्था प्रजायते

॥३८॥

शक्राद्या विबुधा व्यग्राः श्राद्धं यच्छंति नो यदा ॥

ततश्चागत्य तान्सर्वे देवान्संप्रार्थयामहे

॥३९॥

ततस्तृप्तिं प्रगच्छामस्तैर्देवैस्तर्पिता वयम् ॥

युष्माकं वंशजा ये च प्रयच्छंति समाहिताः

॥४०॥

कथं न तृप्तिमायातास्ते सर्वे तैः प्रतर्पिताः ॥

यत्र प्रमादिभिर्वंश्यैर्न तर्प्यंते कथंचन

॥४१॥

क्षुत्पिपासाकुलाः सर्वे ते तदा स्युर्न संशयः ॥

किं पुनर्नरकस्था ये धर्मराजनिवेशने

॥४२॥

एतद्धि कारणं प्रोक्तं युष्माकं च कथंचन ॥

क्षुत्पिपासोद्भवं रौद्रं युष्माभिर्यदुदीरितम्

॥४३॥

तदस्माकं विभागं चेद्यूयं यच्छत सत्तमाः ॥

सर्वे कव्यस्य दत्तस्य तत्कुर्मो वै हितं शुभम्

॥४४॥

ब्रह्माणं प्रार्थयित्वा च स्वयं गत्वा तदंतिकम् ॥

बाढमित्येव तैरुक्ते तत आदाय तानपि

॥४५॥

दिव्याः पितृगणाः प्राप्ता विधेः सदनमुत्तमम् ॥

नांदीमुखान्पुरस्कृत्य पितॄन्यांस्तर्पयेद्विधिः

॥४६॥

सृष्टिकाले तु संप्राप्ते वृद्धिकामः सुरेश्वरः ॥

अथ तैः सह ते सर्वे स्तुत्वा तं कमलासनम् ॥

प्रणिपत्य स्थिताः सर्वे पितरो विनयान्विताः

॥४७॥

पितॄंस्तान्विनयोपेतान्प्रणिपातपुरःसरान् ॥

विधिः प्रोवाच राजेंद्र सांत्वयञ्श्लक्ष्णया गिरा

॥४८॥

ब्रह्मोवाच

किमर्थं पितरः सर्वे समायाता ममांतिकम् ॥

देवतानां मया सार्धं संपूज्याः सर्वदा स्थिताः

॥४९॥

तथान्येऽपि च दृश्यंते युष्माभिः सह संगताः ॥

य एते मानवा काराः स्वल्पतेजोन्विताः स्थिताः

॥५०॥

पितर ऊचुः

पितरो मानवा ह्येते स्वर्गं प्राप्ताः स्वकर्मभिः ॥

देवानां मध्यसंस्थाश्च पीड्यंते क्षुत्पिपासया

॥५१॥

यदा यच्छंति नो वंश्याः कव्यं चैव प्रमादतः ॥

तदा गच्छंति नो तृप्तिं यानैर्यांति यथा सुराः

॥५२॥

तदैतैः प्रार्थनाऽस्माकं कृता शाश्वततृप्तये ॥

न च शक्ता वयं दातुं तेन त्वां समुपस्थिताः

॥५३॥

यथा स्युर्देवता व्यग्रास्तदाऽस्माकमपि प्रभो।

कव्यं विना भवेदेषा दशा कष्टा सुरेश्वर

॥५४॥

तस्मात्कुरु प्रसादं नः समेमेतैः सुरेश्वर ॥

यथा स्याच्छाश्वती तृप्तिः स्वस्थानस्थायिनामपि

॥५५॥

एतेऽस्माकं प्रदास्यंति कव्यं यन्निजवंशजैः ॥

प्रदत्तं तेन संप्राप्ता वयं देव त्वदन्तिकम्

॥५६॥

देवानां चैव यत्कव्यं तन्नास्माकं प्रतृ प्तये ॥

यतः क्रियाविहीनं तन्न तेषां विद्यते क्रिया

॥५७॥

पितॄनुद्दिश्य यत्कव्यं ब्राह्मणेभ्यः प्रदीयते ॥

स्नातैर्धौतांबरैर्मर्त्यैस्तद्भवेत्तृप्तिदं महत्

॥५८॥

पितॄणां सर्वदेवेश इत्येषा वैदिकी श्रुतिः ॥

न स्नातस्याधिकारोऽस्ति देवानां च द्विजातिवत्

॥५९॥

पीयूषमपि तैर्दत्तं तेन नः स्यान्न तृप्तये

॥६०॥

तस्मान्मानुषदत्तैर्नो यथा कव्ये प्रजायते ॥

स्वर्गस्थानां परा तृप्तिः सममेतैस्तथा कुरु

॥६१॥

भर्तृयज्ञ उवाच

तच्छ्रुत्वा सुचिरं ध्यात्वा ब्रह्मा लोकपितामहः ॥

तानुवाच ततः सर्वान्पितॄन्पार्थिवसत्तम

॥६२॥

ब्रह्मोवाच

अस्मिंस्त्रेतायुगे संज्ञा हव्यकव्यसमुद्भवा ॥

संप्रयाता युगे युग्मे कलौ न प्रभविष्यति

॥६३॥

यथायथा युगानां च ह्रास एष भविष्यति ॥

तथातथा जना दुष्टा भविष्यंत्यन्यभक्तिकाः

॥६४॥

न दास्यंति यथोक्तानि ते कव्यानि कथंचन ॥

ततः कष्टतराऽवस्था पितॄणां संभविष्यति

॥६५॥

तस्मादहं करिष्यामि सुखोपायं शरीरिणाम् ॥

येन सन्तर्पिता यूयं परां तृप्तिमवाप्स्यथ

॥६६॥

पितुः पितामहस्यैव तत्पितुश्च ततः परम् ॥

समुद्देशेन दत्तेन ब्राह्मणेभ्यः प्रभक्तितः

॥६७॥

सर्वेषां स्यात्परा तृप्तिर्यावन्मां पितरोऽधुना ॥

तथा मातामहानां च पक्षे नास्त्यत्र संशयः

॥६८॥

त्रिभिः सन्तर्पितास्तेऽपि तर्पिताः स्युर्ममावधि ॥

युष्माकं तृप्तये यश्च सुखोपायो भविष्यति

॥६९॥

तं शृणुध्वं महाभागा गदतो मम सांप्रतम् ॥

पितॄनन्नेन येनैव समुद्दिश्य द्विजोत्तमान्

॥७०॥

तर्पयिष्यंति तेनैव पिण्डान्दास्यंति भक्तितः ॥

तन्नाम्ना तेन वस्तृप्तिः शाश्वती संभविष्यति

॥७१॥

तस्माद्गच्छत सन्तुष्टाः स्वानि स्थानानि पूर्वजाः

॥७२॥

ततस्ते सहितास्तैस्तु स्वानि स्थानानि भेजिरे ॥

विमानैः सूर्यसंकाशैर्गत्वा पार्थिवसत्तम

॥७३॥

अथ संगच्छता राजन्कालेन महता ततः ॥

तच्चापि न ददुः श्राद्धं मर्त्यास्त्रिपुरुषं च यत्

॥७४॥

नित्यं पितॄन्समुद्दिश्य बहवोऽत्र नराधिप ॥

कव्यभागान्पुनस्तेषां तथा पूर्वं यथा नृप

॥७५॥

क्षुत्पिपासोद्भवापीडा महती समजायत ॥

तेषां च दैविकानां च पितॄणां नृपसत्तम

॥७६॥

समेत्याथ पुनः सर्वे ब्रह्माणं शरणं गताः ॥

प्रोचुश्च प्रणिपत्योच्चैः सुदीनाः प्रपितामहम्

॥७७॥

भगवन्न प्रयच्छंति नित्यं नो वंशसंभवाः ॥

श्राद्धानि दौःस्थ्यमापन्नास्तेन सीदामहे विभो

॥७८॥

यथा पूर्वं तथा देव तदुपायं प्रचिन्तय ॥

कंचिद्येन दरिद्रा वै प्रीणयंति च ते पितॄन्

॥७९॥

भर्तृयज्ञ उवाच

तेषां तद्वचनं श्रुत्वा तानाह प्रपितामहः ॥

कृपाविष्टो महाराज सर्वान्पितृगणांस्तथा

॥८०॥

सत्यमेतन्महाभागा दौःस्थ्यं यांति दिनेदिने ॥

जना यथायथा याति युगं श्रेष्ठं च पृष्ठतः

॥८१॥

तथापि च करिष्यामि युष्मदर्थमसंशयम् ॥

उपायं लघु सन्तृप्तिर्येन वोऽत्र भवि ष्यति

॥८२॥

अमानाम रवे रश्मिसहस्रप्रमुखः स्थितः ॥

तस्मिन्वसति येनेन्दुरमावास्या ततः स्मृता

॥८३॥

तस्मिन्नहनि ये श्राद्धं पितॄनुद्दिश्य चात्मनः ॥

करिष्यंति नरा भक्त्या ते भविष्यंति सुस्थिताः

॥८४॥

धनधान्यसमोपेता सर्वशत्रुविवर्जिताः ॥

अपमृत्युपरित्यक्ता मम वाक्याद संशयम्

॥८५॥

भर्तृयज्ञ उवाच

तस्य तद्वचनं श्रुत्वा बभूवुर्हृष्टमानसाः ॥

पितरः कव्यमासाद्य प्रहष्टेनांतरात्मना

॥८६॥

ययुः स्वानि निकेतानि प्रेषिताः पद्मयोनिना ॥

अमावास्यादिनं प्राप्य श्राद्धं दत्तं स्ववंशजैः

॥८७॥

संतृप्ता मासमात्रं च तस्थुः संतुष्टमानसाः ॥

गच्छता त्वथकालेन दौःस्थ्यं प्राप्य नरा भुवि ॥

दर्शेऽस्मिन्नपि नो श्राद्धं प्रायः कुर्वंति केचन

॥८८॥

ततः पितृगणाः सर्वें ये दिव्या ये च मानुषाः ॥

क्षुत्पिपासाकुला भूयो ब्रह्माणं शरणं गताः

॥८९॥

प्रोचुश्च प्रणिपत्योच्चैस्ते समेताःपितामहम् ॥

परमं दैन्यमास्थाय बाष्पगद्गदया गिरा

॥९॥

भगवन्निंदुक्षये श्राद्धं प्रोक्तं मासं त्वया विभो ॥

अस्माकं प्रीणनार्थाय यत्करिष्यंति मानवाः

॥९१॥

दौःस्थात्तदपि नो कुर्युः प्रायशस्तु पितामह ॥

तेनास्माकं परा पीडा क्षुत्पिपासासमुद्भवा

॥९२॥

तस्मात्कुरु प्रसादं नो यथा पूर्वं सुरेश्वर ॥

तथापि दुःस्थताभाजस्तर्पयिष्यंति नोऽधुना

॥९३॥

भर्तृयज्ञ उवाच

अथ ब्रह्मापि संचिन्त्य तानुवाच कृपान्वितः ॥

युष्मदर्थं मयोपायश्चिंतितः पितरो लघुः

॥९४॥

येन तृप्तिं परां यूयं गमिष्यथ पित्रीश्वराः ॥

अमावास्योद्भवं श्राद्धमलब्ध्वापि च वत्सरम्

॥९५॥

यथा मम प्रसादेन तच्छृणुध्वं समाहिताः ॥

आषाढ्याः पंचमे पक्षे कन्यासंस्थे दिवाकरे

॥९६॥

मृताहनि पुनर्यो वै श्राद्धं दास्यति मानवः ॥

तस्य संवत्सरंयावतृप्ताः स्युः पितरो ध्रुवम्

॥९७॥

एवं ज्ञात्वा करिष्यंति प्रेतपक्षे नरा भुवि ॥

श्राद्धं यूयं न संदेहो भविष्यथ सुतर्पिताः

॥९८॥

यावत्संवत्सरं तेन एकेनापि तु सत्तमाः ॥

तस्मिन्नपि च यः श्राद्धं युष्माकं न प्रदास्यति

॥९९॥

शाकेनाऽपि दरिद्रोऽसावंत्यजत्वमुपेष्यति ॥

आसनं शयनं भोज्यं स्पर्शं संभाषणं तथा

॥१००॥

ये करिष्यंति तैः सार्धं तेऽपि पापतमा नराः ॥

न तेषां संततिर्वृद्धिं संप्रयास्यति कर्हिचित्

॥११॥

न सुखं धनधान्यं च तेषां भावि कथंचन ॥

तस्माद्गच्छत चाव्यग्राः स्वस्थानं पितरो द्रुतम्

॥१०२॥

कलिकालेऽपि संप्राप्ते दारुणे निर्धेने जने ॥

वर्षांते श्राद्धमेकं हि प्रकरिष्यंति मानवाः

॥१०३॥

येनाखिलं भवेद्वर्षं युष्माकं प्रीतिरुत्तमा

॥१०४॥

भर्तृयज्ञ उवाच

तच्छ्रुत्वा पितरो हृष्टा जग्मुः स्वंस्वं निकेतनम् ॥

वर्षांतेऽपि समासाद्य श्राद्धं न स्युर्बुभुक्षिताः

॥१०५॥

अथ येऽत्र दुरात्मानो निःशंकाः कृपणात्मकाः ॥

कलिना मोहिताः श्राद्धं वत्सरांतेऽपि नो ददुः

॥१०६॥

तेषां तु पितरो भूयो दिव्यैःपितृभिरन्विताः ॥

ब्रह्माणं शरणं जग्मुः प्रोचुस्ते दीनमानसाः

॥१०७॥

भगवन्वत्सरांतेऽपि कन्यासंस्थे दिवाकरे ॥

नास्माकं वंशजाः श्राद्धं प्रयच्छंति दुरात्मकाः

॥१०८॥

तेन संपीडिता देव क्षुत्पिपासा समाकुलाः ॥

वयं शरणमापन्नास्तत्प्रतीकारमाचर

॥१०९॥

यथा पूर्वं महाभाग वदोपायं लघूत्तमम् ॥

एकाहिकेन श्राद्धेन येनास्माकं हि शाश्वती ॥

प्रीतिः संजायते देव त्वत्प्रसादात्सुरेश्वर

॥११०॥

वंशक्षयेऽपि संजाते ह्यस्माकं पतनं भवेत्

॥१११॥

भर्तृयज्ञ उवाच

तेषां तद्वचनं श्रुत्वा चिरं ध्यात्वा पितामहः ॥

कृपया परयाविष्टस्ततः प्रोवाच सादरम्

॥११२॥

ब्रह्मोवाच

अन्यो युष्मत्प्रतुष्ट्यर्थमुपायश्चिंतितो मया ॥

स लघुर्येन वोऽत्यंतं तृप्तिर्भवति शाश्वती

॥११३॥

गयाशिरः समासाद्य श्राद्धं दास्यंति येऽत्र वः ॥

अप्येकं तत्प्रभावेन दिव्यां गतिमवाप्स्यथ

॥११४॥

अपि पापात्मनः पुंसो ब्रह्मघ्नस्यापि देहिनः ॥

अपि रौरवसंस्थस्य कुम्भीपाकगतस्य च

॥११५॥

प्रेतभावगतस्यापि यस्य श्राद्धं प्रदास्यति ॥

गयाशिरसि वंशस्थस्तस्य मुक्तिर्भविष्यति

॥११६॥

एतन्मम वचः श्रुत्वा सांप्रतं भुवि मानवाः ॥

निःस्वा अपि करिष्यंति श्रादमेकं हि तत्र च ॥

गयाशिरसि सुव्यक्तं युष्माकं मुक्तिदायकम्

॥११७॥

भर्तृयज्ञ उवाच

तच्छ्रुत्वा पितरस्तस्य वचनं परमेष्ठिनः ॥

अनुज्ञातास्ततस्तेन स्वानि स्थानानि भेजिरे

॥११८॥

ततःप्रभृति श्राद्धानि प्रवृत्तानि धरातले ॥

पिंडदानसमे तानि यावदापुरुषत्रयम्

॥११९॥

पूर्वं ब्रह्मादितः कृत्वा ये केचित्पुरुषा गताः ॥

परलोकं समुद्दिश्य तान्नराञ्छक्तितो नृप

॥१२०॥

तत्संख्यानां द्विजेंद्राणां दत्तवंतोऽपि वांछितम् ॥

अदैवत्यमिदं श्राद्धं दरिद्राणां सुखावहम्

॥१२१॥

पितॄणां देवतानां च मनुष्याणां सुतृप्ति दम् ॥

तस्माच्छ्राद्धं प्रकर्तव्यं पुरुषेण विजानता

॥१२२॥

पितॄणां वांछता तृप्तिं कालेष्वेतेषु यत्नतः ॥

गयायां च विशेषेण लोकद्वयमभीप्सता

॥१२३॥

न ददाति नरः श्राद्धं पितॄणां चन्द्रसंक्षये ॥

क्षुत्पिपासापरीतांगाः पितरस्तस्य दुःखिताः

॥१२४॥

प्रेतपक्षं प्रतीक्षंते गुरुवांछासमन्विताः ॥

कर्षुका जलदं यद्वद्दिवानक्तमतंद्रिताः

॥१२५॥

प्रेतपक्षे व्यतिक्रांते यावत्कन्यां गतो रविः ॥

तावच्छ्राद्धं च वांछंति दत्तं स्वैः पितरः सुतैः

॥१२६॥

ततस्तुलागतेप्येके सूर्ये वांछंति पार्थिव ॥

श्राद्धं स्ववंशजै र्दत्तं क्षुत्पिपासासमाकुलाः

॥१२७॥

तस्मिन्नपि व्यतिक्रांते काले चांलिं गते रवौ ॥

निराशाः पितरो दीनास्ततो यांति निजालयम्

॥१२८॥

मासद्वयं प्रतीक्षंते गृहद्वारं समाश्रिताः ॥

वायुभूताः पिपासार्ताः क्षुत्क्षामाः पितरो नृणाम्

॥१२९॥

यावत्कन्यागतः सूर्यस्तुलास्थश्च महीपते ॥

तथा दर्शदिने तद्वद्ब्रह्मणो वचनान्नृप

॥१३०॥

तस्माच्छ्राद्धं सदा कार्यं पितॄणां तृप्तिमिच्छता ॥

तिलोदकं विशेषेण यथा ब्रह्मवचो नृप

॥१३१॥

वित्ताभावेऽपि दर्शायां श्राद्धं देयं विपश्चिता ॥

तदभावे च कन्यायां संस्थिते दिवसाधिपे

॥१३२॥

तदभावे गयायां च सकृच्छ्राद्धं हि निर्वपेत् ॥

येन नित्यं प्रदत्तस्य श्राद्धस्य फलमश्नुते

॥१३३॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥

येनैतत्क्रियते श्राद्धं जनैः पितृ परायणैः

॥१३४॥

अमावास्यां विशेषेण प्रेतपक्षे च पार्थिव

॥१३५॥

यश्चैतां शृणुयात्पुण्यां श्राद्धोत्पत्तिं पठेच्च वा ॥

स सर्वदोषनिर्मुक्तः श्राद्धदानफलं लभेत्

॥१३६॥

श्राद्धकाले पठेद्यस्तु श्राद्धोत्पत्तिमिमां नरः ॥

अक्षयं तद्भवेच्छ्राद्धं सर्वच्छिद्रविवर्जितम्

॥१३७॥

असद्द्रव्येण वा चीर्णमनर्हैर्ब्राह्मणैरपि ॥

अभुक्तं कामहीनं वा मन्त्रहीनमथापि वा

॥१३८॥

सर्वं संपूर्णतां याति कीर्तनात्पार्थिवोत्तम।

अस्याः श्राद्धसमुत्पत्तेः कीर्तनाच्छ्रवणादपि

॥१३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धोत्पत्तिवर्णनंनाम षोडशोत्तरद्विशततमोऽध्यायः ॥ २१६ ॥