मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४९

3
नागरखण्डः · 49

तत्रैवास्ति महापुण्यो ह्रदतीरे व्यवस्थितः

सूत उवाच

तत्रैवास्ति महापुण्यो ह्रदतीरे व्यवस्थितः ॥

कलशेश्वर इत्याख्यः सर्वपापप्रणाशनः

॥१॥

दृष्ट्वा प्रमुच्यते पापान्मनुष्यः कलशेश्वरम्

॥२॥

पुरासीत्कलशोनाम यदुवंशसमुद्भवः ॥

यज्वा दानपतिर्दक्षः सर्वलोकहिते रतः

॥३॥

कस्यचित्त्वथ कालस्य दुर्वासा मुनि सत्तमः ॥

चातुर्मास्यव्रतं कृत्वा तद्गृहं समुपस्थितः

॥४॥

अथोत्थाय नृपस्तूर्णं सम्मुखः प्रययौ मुदा ॥

स्वागतं स्वागतं तेस्तु ब्रुवाण इति सादरम्

॥५॥

ततः प्रणम्य तं भक्त्या प्रक्षाल्य चरणौ स्वयम् ॥

दत्त्वार्घमिति होवाच हर्षबाष्पाकुलेक्षणः

॥६॥

इदं राज्यममी पुत्रा इमा नार्य इदं धनम् ॥

ब्रूहि सर्वं मुने त्वं च तव कार्यं ददाम्यहम्

॥७॥

दुर्वासा उवाच

युक्तमेतन्महाराज वक्तुं ते कार्यमीदृशम् ॥

गृहागताय विप्राय व्रतिनेऽस्मद्विधाय च

॥८॥

न मे किञ्चिद्धनैः कार्यं न राज्येन नृपोत्तम ॥

चातुर्मास्यव्रतोऽतोऽहं पारणं कर्तृमुत्सहे

॥९॥

तस्माद्यत्किञ्चिदन्नं ते सिद्धमस्ति गृहे नृप ॥

तद्देहि भोजनार्थं मे बुभुक्षातीव वर्धते

॥१०॥

सूत उवाच

ततः स पृथिवीपालो यथासिद्धं सुसंस्कृम् ॥

अन्नं भोज्यकृते तस्मै प्रददौ स्वयमेव हि

॥११॥

व्यञ्जनानि विचित्राणि पक्वान्नानि बहूनि च ॥

पेयं चोष्यं च खाद्यं च लेह्यमन्नमनेकधा ॥

तथा मांसं विचित्रं च लवणाद्यैः सुसंस्कृतम्

॥१२॥

अथासौ बुभुजे विप्रः क्षुत्क्षामस्त्वरयान्वितः ॥

अविन्दन्न रसास्वादं बृहद्ग्रासैर्मुदान्वितः

॥१३॥

अथ तृप्तेन मांसस्य ज्ञातस्तेन रसो द्विजाः ॥

ततः कोपपरीतात्मा तं शशाप मुनीश्वरः

॥१४॥

यस्मान्मांसं त्वया दत्त्वा व्रतभंगः कृतो मम ॥

तस्मात्त्वमामिषाहारो रौद्रो व्याघ्रो भविष्यसि

॥१५॥

ततः स भूपतिर्भीतः प्रणम्य च मुनीश्वरम् ॥

प्रोवाच दीनवदनो वेपमानः सुदुःखितः

॥१६॥

तव क्षुत्क्षामकण्ठस्य मया भक्तिः कृता मुने ॥

यथासिद्धेन भोज्येन तत्कस्माच्छप्तुमुद्यतः

॥१७॥

तस्मात्कुरु प्रसादं मे भक्तस्य विनतस्य च ॥

शापस्यानुग्रहेणैव शीघ्रं ब्राह्मणसत्तम

॥१८॥

दुर्वासा उवाच

मुक्त्वा श्राद्धं तथा यज्ञं न मांसं भक्षयेद्द्विजः ॥

विशेषेण व्रतस्यांते चातुर्मास्योद्भवस्य च

॥१९॥

उपवासपरो भूत्वा मांसमश्नाति यो द्विजः ॥

वृथामांसाद्वृथा तस्य तद्व्रतं जायते ध्रुवम्

॥२०॥

तस्माद्व्रतं प्रणष्टं मे चातुर्मास्यसमुद्भवम् ॥

तेन शप्तोऽसि राजेंद्र मया कोपेन सांप्रतम्

॥२१॥

राजोवाच

तथापि कुरु मे विप्र शापस्यांतं यथेप्सितम् ॥

भक्तियुक्तस्य दीनस्य निर्दोषस्य विशेषतः

॥२२॥

दुर्वासा उवाच

यदा ते नंदिनी धेनुर्लिंगं बाणार्चितं पुरा ॥

दर्शयिष्यति ते मुक्तिस्तदा तूर्णं भविष्यति

॥२३॥

एवमुक्त्वा स विप्रेन्द्रो जगाम निजमाश्रमम् ॥

बभूव सोऽपि भूपालो व्याघ्रो रौद्रतमाकृतिः

॥२४॥

नष्टस्मृतिस्ततस्तूर्णं दृष्ट्वा जंतून्पुरःस्थितान् ॥

जघानोच्चाटितोन्यैश्च प्रविवेश महावनम्

॥२५॥

अथ ते मंत्रिणस्तस्य शापस्यातं महीपतेः ॥

वांछतस्तस्य तद्राज्यं चक्रुरेव सुरक्षितम्

॥२६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वराख्याने कलशनृपतेर्दुर्वाससः शापेन व्याघ्रत्वप्राप्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥