यदेतद्भवता प्रोक्तं तेजोवीर्यसमन्वितः
अथ सुपर्णाख्यमाहात्म्यं भविष्यंति ॥
ऋषय ऊचुः ॥
यदेतद्भवता प्रोक्तं तेजोवीर्यसमन्वितः ॥
गरुडस्तेन संजज्ञे मुनीनां होमकर्मणा
॥१॥स कथं तत्र संभूत एतन्नो विस्तराद्वद ॥
विनतायाः समुद्भूत इत्येषा श्रूयते श्रुतिः
॥२॥सूत उवाच
योऽसावाथर्वणैर्मंत्रैः कलशश्चाभिमन्त्रितः ॥
तैर्मंत्रैर्वालखिल्यैश्च महाऽमर्षसमन्वितैः
॥३॥निवारितैश्च दक्षेण सूचिते विहगाधिपे ॥
कश्यपस्तं समादाय कलशं प्रययौ गृहम्
॥४॥ततः प्रोवाच संहृष्टो विनतां दयितां निजाम् ॥
एतत्पिब जलं भद्रे मन्त्रपूतं महत्तरम्
॥५॥येन ते जायते पुत्रः सहस्राक्षाधिको बली ॥
तेजस्वी च यशस्वी च अजेयः सर्व दानवैः
॥६॥तस्य तद्वचनं श्रुत्वा तत्क्षणादेव संपपौ ॥
तत्तोयं सा वरारोहा सद्यो गर्भं ततो दधे
॥७॥एवं तज्जलपानेन तेजोवीर्यसम न्वितः ॥
कश्यपाद्गरुडो जज्ञे सर्वसर्पभयावहः
॥८॥येनामृतं हृतं वीर्यात्परिभूय पुरंदरम् ॥
मातृभक्तिपरीतेन सर्पाणां संनिवेदितम्
॥९॥यो जज्ञे दयितो विष्णोर्वाहनत्वमुपागतः ॥
ध्वजाग्रे तु रथस्यापि यः सदैव व्यवस्थितः
॥१०॥येन पूर्वं तपस्तप्त्वा क्षेत्रेऽत्रैव महात्मना ॥
त्रिनेत्रस्तुष्टिमानीतो गतपक्षेण धीमता
॥११॥पक्षाप्तिर्येन संजाता यस्य भूयोऽपि तादृशी ॥
देवदेवप्रसादेन विशिष्टा चाऽथ निर्मिता
॥१२॥मुनय ऊचुः
कथं तस्य गतौ पक्षौ गरुडस्य महात्मनः ॥
पुनर्लब्धौ कथं तेन कथं तुष्टो महेश्वरः ॥
एतन्नो विस्तराद्ब्रूहि सूतपुत्र यथातथम्
॥१३॥सूत उवाच
पुरासीद्ब्राह्मणो मित्रं भृगुवंशकुलोद्वहः ॥
गरुडस्य द्विजश्रेष्ठा बालभावादपि प्रभो
॥१४॥तस्य कन्या पुरा जाता माधवी नाम संमता ॥
रूपौदार्यसमोपेता सर्वलक्षणलक्षिता
॥१५॥न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥
तादृग्रूपा महाभागा यादृशी सा सुमध्यमा
॥१६॥अथ तस्या वरार्थाय गरुडं विहगाधिपम् ॥
स प्रोवाच परं मित्रं विनयावनतः स्थितः
॥१७॥एतस्या मम कन्याया वरं त्वं विहगाधिप ॥
सदृशं वीक्षयस्वाद्य येन तस्मै ददाम्यहम्
॥१८॥गरुड उवाच
मम पृष्ठं समारुह्य समस्तं क्षितिमंडलम् ॥
त्वं भ्रमस्व द्विजश्रेष्ठ गृहीत्वेमां च कन्यकाम्
॥१९॥ततस्तस्याः कुमार्या वै अनुरूपं गुणान्वितम् ॥
स्वयं चाहर भर्तारमेषा मैत्री ममोद्भवा
॥२०॥सूत उवाच
एवमुक्तोऽथ विप्रः स तत्क्षणात्कन्यया सह ॥
आरूढो गारुडं पृष्ठं वरार्थाय द्विजोत्तमाः
॥२१॥यंयं पश्यति विप्रः स कुमारं तरुणाकृतिम् ॥
स स नो तस्य चित्तांते वर्ततेस्म कथंचन
॥२२॥कस्यचिद्रूपमत्युग्रं न कुलं च सुनिर्मलम् ॥
कुलं रूपं च यस्य स्यात्तस्य नो गुणसंचयः
॥२३॥यस्य वा गुणसन्दोहस्तस्य नो रूपमुत्तमम् ॥
पक्षपातं च वित्तं च तथान्यद्वरलक्षणम्
॥२४॥एवं वर्षसहस्रांते भ्रमतस्तस्यभूतलम् ॥
विप्रस्य पक्षिनाथस्य वरार्थाय द्रिजोत्तमाः
॥२५॥कदाचिदथ तौ श्रान्तौ भ्रममाणावितस्ततः ॥
क्षेत्रेऽत्रैव समायातौ वासुदेवदिदृक्षया
॥२६॥श्वेतद्वीपं समालोक्य तथान्यां बदरीं शुभाम् ॥
क्षीरोदं च सवैकुण्ठं तथान्यं तस्य संश्रयम्
॥२७॥अथ ताभ्यां मुनिर्दृष्टो नारदो ब्रह्मसंभवः ॥
सांत्वपूर्वं तदा पृष्टो विष्णुं ब्रह्म सनातनम्
॥२८॥क्व देवः पुंडरीकाक्षः सांप्रतं वर्तते मुने ॥
विष्णुस्थानानि सर्वाणि वीक्षितानि समंततः ॥
आवाभ्यां संप्रहृष्टाभ्यां न संदृष्टः स केशवः
॥२९॥नारद उवाच
जलशायिस्वरूपेण यावन्मासचतुष्टयम् ॥
हाटकेश्वरजे क्षेत्रे स संतिष्ठति सर्वदा
॥३०॥तस्मात्तद्दर्शनार्थाय गम्यतां तत्र मा चिरम् ॥
येन सन्दर्शनं याति द्वाभ्यामपि स चक्रधृक्
॥३१॥अहमप्येव तत्रैव प्रस्थितस्तस्य दर्शनात् ॥
प्रस्थितश्च त्वया युको देवकार्येण केनचित्
॥३२॥अथ तौ पक्षिविप्रेन्द्रौ स च ब्रह्मसुतो मुनिः ॥
प्राप्ताः सर्वे स्थितो यत्र जलशायी जनार्दनः
॥३३॥अथ दृष्ट्वा महत्तेजो वैष्णवं दूरतोऽपि तम् ॥
ब्राह्मणं गरुडः प्राह नारदश्च मुनीश्वरः
॥३४॥अत्रैव त्वं द्विजश्रेष्ठ तिष्ठ दूरेऽपि तेजसः ॥
वैष्णवस्य सुतायुक्तः कल्पांताग्निसमम् व (?)
॥३५॥नो चेत्संपत्स्यसे भस्म पतंग इव पावकम् ॥
समासाद्य निशायोगे मूढं भावं समाश्रितः
॥३६॥आवाभ्यां तत्प्रसादेन सोढमेतत्सुदुःसहम् ॥
न करोति शरीरार्ति तथान्यदपि कुत्सितम्
॥३७॥एवं तं ब्राह्मणं तत्र मुक्त्वा दूरे सुतान्वितम् ॥
गतौ तौ तत्र संसुप्तस्तोये यत्र जनार्दनः
॥३८॥दिव्यस्तुतिपरौ मूर्ध्नि धृतहस्तांजलीपुटौ ॥
पुलकांकितसर्वांगावानन्दाश्रुप्लुताननौ
॥३९॥त्रिःपरिकम्य तं देवमष्टांगं प्रणतौ हरिम् ॥
दृष्टवन्तौ च पादांते संनिविष्टां समुद्रजाम्
॥४०॥पादसंवाहनासक्तां विष्णु वक्त्राहितेक्षणाम् ॥
अथापरां वयोवृद्धां श्वेतवस्त्रावगुंठिताम्
॥४१॥सन्निविष्टां तदभ्याशे सम्यग्ध्यानपरायणाम् ॥
द्वादशार्कप्रभायुक्तां कृशांगीं पुलकान्विताम्
॥४२॥अथ तौ विष्णुना हर्षादुभावपि प्रहर्षितौ ॥
संभाषितौ च संपृष्टौ यदर्थं च समागतौ
॥४३॥श्रीनारद उवाच
अहं हि सुरकार्येण संप्राप्योऽत्र तवांतिकम् ॥
गरुडो वै ब्राह्मणाय यन्मां पृच्छसि केशव
॥४४॥श्रीभगवानुवाच
कच्चित्क्षेमं मुनिश्रेष्ठ सर्वेषां त्रिदिवौकसाम् ॥
कच्चिन्नेंद्रस्य संजातं भयं दानवसंभवम्
॥४५॥यज्ञभागं लभंते स्म कच्चिद्देवाः सवासवाः ॥
कच्चिन्न दानवः कश्चिदुत्कटोऽभूद्धरातले
॥४६॥श्रीनारद उवाच
सांप्रतं धरणी प्राप्ता चतुर्वक्त्रस्य संनिधौ ॥
रोरूयमाणा भारार्ता दानवैः पीडिता भृशम् ॥
प्रोवाच पद्मजं तत्र दुःखेन महताऽन्विता
॥४७॥धरण्युवाच
कालनेमिर्हतो योऽसौ विष्णुनाप्रभविष्णुना ॥
उग्रसेनसुतः कंसः संभूतः स महासुरः
॥४८॥अरिष्टो धेनुकः केशी प्रलम्बोनाम चापरः ॥
तथान्या तु महारौद्रा पूतना नाम राक्षसी
॥४९॥इतश्चेतश्च धावद्भिर्दानवैरेभिरेव च ॥
वृथा मे जायते पीडा तथान्यैरपि दारुणैः
॥५०॥ऊर्ध्वबाहुस्तथा जातो मर्त्यलोके जनोऽधुना ॥
बहुत्वान्न प्रमाति स्म कथंचिद्धि ममोपरि
॥५१॥भारावतरणं देव न करिष्यसि चाशु चेत् ॥
रसातलं प्रयास्यामि तदाऽहं नात्र संशयः
॥५२॥तस्यास्तद्वचनं श्रुत्वा ब्रह्मणा लोककर्तृणा ॥
संमंत्र्य विबुधैः सार्धं प्रेषितोऽहं तवांतिकम्
॥५३॥प्रोक्तव्यो भगवान्वाक्यं त्वया देवो जनार्दनः ॥
यथाऽवतीर्य भूपृष्ठे भारमस्याः प्रणाशयेत्
॥५४॥तस्माद्भूभितले देव कृत्वा जन्म स्वयं विभो ॥
भारं नाशय मेदिन्या एतदर्थ मिहागतः
॥५५॥श्रीभगवानुवाच
एवं मुने करिष्यामि संमंत्र्य ब्रह्मणा सह ॥
भारावतरणं भूमेः साकं देवैः सवासवैः
॥५६॥एवमुक्त्वाऽथ तं विष्णुर्नारदं मुनिपुंगवम् ॥
ततश्च गरुडं प्राह त्वं किमर्थमिहागतः
॥५७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्ये विष्णुदर्शनमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः ॥ ८० ॥