मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५५

3
नागरखण्डः · 255

लक्ष्मीनारायणमहिमवर्णनम्

गालव उवाच

एवं ते लब्धशापाश्च पार्वतीशाप पीडिताः ॥

अनपत्या बभूवुश्च तथा च प्रतिमानवाः

॥१॥

शालग्रामस्तु गंडक्यां नर्मदायां महेश्वरः ॥

उत्पद्यते स्वयंभूश्च तावेतौ नैव कृत्रिमौ

॥२॥

चतुर्विंशतिभेदेन शालग्रामगतो हरिः ॥

परीक्ष्यः पुरुषैर्नित्यमेकरूपः सदाशिवः

॥३॥

शालग्रामशिला यत्र गंडकीविमले जले ॥

तत्र स्नात्वा च पीत्वा च ब्रह्मणः पदमाप्नुयात्

॥४॥

तां पूजयित्वा विधिवद्गंडकीसंभवां शिलाम् ॥

योगीश्वरो विशुद्धात्मा जायते नात्र संशयः

॥५॥

एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया ॥

यथा हरो विप्रशापं प्राप्तवांस्तन्निशामय

॥६॥

यः शृणोति नरो भक्त्या वाच्यमानामिमां कथाम् ॥

गिरीशनृत्यसंबन्धामुमादेहार्द्धवर्णिताम्

॥७॥

ब्रह्मणः स्तुतिसंयुक्तां स गच्छेत्परमां गतिम् ॥

श्लोकार्द्धं श्लोकपादं वा समस्तं श्लोकमेव वा

॥८॥

यः पठेदविरोधेन मायामानविवर्जितः ॥

स याति परमं स्थानं यत्र गत्वा न शोचति

॥९॥

चातुर्मास्ये विशेषेण पठञ्छृण्वन्नरोत्तमः ॥

लभते चिंतितां सिद्धिं धनपुत्रादिसंवृतः

॥१॥

यथा ब्रह्मादयो देवा गीतवाद्याभियोगतः ॥

परां सिद्धि मवापुस्ते दुर्गाशिवसमीपतः

॥११॥

वर्षाकाले च संप्राप्ते भक्तियोगे जनार्दने ॥

महेश्वरेऽथ दुर्गायां न भूयः स्तनपो भवेत्

॥१२॥

गणेशस्य सदा कुर्याच्चातुर्मास्ये विशेषतः ॥

पूजां मनुष्यो लाभार्थं यत्नो लाभप्रदो हि सः

॥१३॥

सूर्यो नीरोगतां दद्याद्भक्त्या यैः पूज्यते हि सः ॥

चातुर्मास्ये समायाते विशेषफलदो नृणाम्

॥१४॥

इदं हि पंचायतनं सेव्यते गृहमेधिभिः ॥

चातुर्मास्ये विशेषेण सेवितं चिंतितप्रदम्

॥१५॥

शालग्रामगतं विष्णुं यः पूजयति नित्यदा ॥

द्वारवतीचक्रशिलासहितं मोक्षदायकम्

॥१६॥

चातुर्मास्ये विशेषेण दर्शनादपि मुक्तिदम् ॥

यस्मिन्स्तुते स्तुतं सर्वं पूजिते पूजितं जगत्

॥१७॥

पूजितः पठितो ध्यातः स्मृतो वै कलुषापहः ॥

शालग्रामे किं पुनर्यच्छालग्रामगतो हरिः

॥१८॥

पुनर्हि हरिनैवेद्यं फलं चापि धृतं जलम् ॥

चातुर्मास्ये विशेषेण शालग्रामगतं शुभम्

॥१९॥

तिलाः पुनंत्यर्पिताश्च शालग्रामस्य शूद्रज ॥

चातुमास्ये विशेषेण नरं भक्त्या समन्वितम्

॥२०॥

स लक्ष्मीसहितो नित्यं धनधान्यसमन्वितः ॥

महाभाग्यवतां गेहे जायते नात्र संशयः

॥२१॥

स लक्ष्मीसहितो विष्णुर्विज्ञेयो नात्र संशयः ॥

तं पूजयेन्महाभक्त्या स्थिरा लक्ष्मीर्गृहे भवेत्

॥२२॥

तावद्दरिद्रता लोके तावद्गर्जति पातकम् ॥

तावत्क्लेशाः शरीरेऽस्मिन्न यावत्पूजयेद्धरिम्

॥२३॥

स एव पूज्यते यत्र पंचक्रोशं पवित्रकम् ॥

करोति सकलं क्षेत्रं न तवाऽशुभसंभवः

॥२४॥

एतदेव महाभाग्यमेतदेवमहातपः ॥

एष एव परो मोक्षो यत्र लक्ष्मीशपूजनम्

॥२५॥

शंखश्च दक्षिणावर्त्तो लक्ष्मीनारायणात्मकः ॥

तुलसी कृष्णसारोऽत्र यत्र द्वारवती शिला ॥

तत्र श्रीर्विजयो विष्णुर्मुक्तिरेवं चतुष्टयम्

॥२६॥

लक्ष्मीनारायणे पूजां विधातुर्मनुजस्य तु ॥

ददाति पुण्यमतुलं मुक्तो भवति तत्क्षणात्

॥२७॥

चातुर्मास्ये विशेषेण पूज्यो लक्ष्मीयुतो हरिः

॥२८॥

कुर्वतस्तस्य देवस्य ध्यानं कल्मषनाशनम् ॥

तुलसीमञ्जरीभिश्च पूजितो जन्मनाशनः

॥२९॥

पूजितो बिल्वपत्रेण चातुर्मास्येऽघहृत्तमः

॥३०॥

सर्वप्रयत्नेन स एव सेव्यो यो व्याप्य विश्वं जगतामधीशः ॥

काले सृजत्यत्ति च हेलया वा तं प्राप्य भक्तो न हि सीदतीति

॥३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये लक्ष्मीनारायणमहिमवर्णनंनाम पञ्चपञ्चाशदुत्तरद्विशततमोअध्यायः ॥ २५५ ॥