तीर्थोत्पत्तिमाहात्म्यवर्णनम्
सूत उवाच
एवं क्रतुः स संजातः पञ्चरात्रं द्विजोत्तमाः ॥
हाटकेश्वरजे क्षेत्रे सर्वकाम समृद्धिमान्
॥१॥विप्रांश्च भिक्षुकांश्चैव दीनांधांश्च विशेषतः ॥
समाप्तौ तस्य यज्ञस्य संतर्प्य सकलांस्ततः ॥
ऋत्विजो दक्षिणाभिस्तान्यथोक्तान्द्विजसत्तमान्
॥२॥ततः स चानयामास नागरान्ब्राह्मणोत्तमान् ॥
चातुश्चरणसंपन्नाञ्छ्रुतिस्मृति समन्वितान्
॥३॥कृतांजलिपुटो भूत्वा ततस्तान्प्राह सादरम् ॥
यद्भूमौ तु मया तीर्थं पुष्करं संनिवेशितम्
॥४॥कलिकालस्य भीतेन द्वितीयं ब्राह्मणोत्तमाः ॥
येन नो नाशमभ्येति म्लेच्छैरपि समाश्रितम्
॥५॥हाटकेश्वरदेवस्य प्रभावेन महात्मनः ॥
कलिकाले च सम्प्राप्ते तीर्थान्यायतनानि च
॥६॥म्लेच्छैः स्पृष्टान्यसंदिग्धं प्रयागादीनि कृत्स्नशः ॥
यज्ञस्तु विहितस्तेन भयायं तत्कृतेन च
॥७॥तस्माद्वदथ किं दानं युष्मद्भूमेश्च निष्क्रये ॥
प्रयच्छामि च यज्ञस्य येन मे स्यात्फलं द्विजाः
॥८॥ब्राह्मणा ऊचुः
यदि यच्छसि चास्माकं दक्षिणां यज्ञसंभवाम् ॥
तदस्माकं स्ववासेन स्थानं नय पवित्रताम्
॥९॥यदेतद्भवता चात्र पुष्करं तीर्थमुत्तमम् ॥
स्थापितं तस्य नो ब्रूहि माहात्म्यं सुरसत्तम ॥
येन स्नानादिकाः सर्वाः क्रियाः कुर्मः पितामह
॥१०॥ब्रह्मोवाच
एतत्तीर्थं मया सृष्टमंतरिक्षस्थितं सदा ॥
किं न श्रुतं पुराणेषु भवद्भिर्द्विजसत्तमाः
॥११॥पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम् ॥
त्रैलोक्ये तु कुरुक्षेत्रं विशेषेण व्यवस्थितम्
॥१२॥तद्युष्माकं हितार्थाय पंचरात्रं धरातले ॥
आगमिष्यत्यसंदिग्धं मम वाक्यप्रणोदितम्
॥१३॥कार्तिक्यां शुक्लपक्षे तु ह्येकादश्यां दिने स्थिते ॥
यावत्पंचदशी तावत्तिथिः पापप्रणाशिनी
॥१४॥पंचरात्रस्य मध्ये तु यः स्नानं च करिष्यति ॥
श्राद्धं वा श्रद्धया युक्तस्तस्य स्यादक्षयं हि तत्
॥१५॥अह तु पंचरात्रं तद्ब्रह्मलोकादुपेत्य च ॥
संश्रयं तु करिष्यामि तीर्थेऽत्रैव द्विजोत्तमाः
॥१६॥ब्राह्मणा ऊचुः
तव मूर्तिं करिष्यामः स्थानेऽत्र प्रपितामह ॥
तस्यां संक्रमणं नित्यं तस्मात्कार्यं त्वयाविभो
॥१७॥तीर्थं चैव सदाप्यऽत्र समागच्छतु चांबरात् ॥
लोकानां पापनाशाय तथा त्वं कर्तुमर्हसि
॥१८॥एषा नो दक्षिणा देव यज्ञस्यैव समुद्भवा
॥१९॥एवं कृते सुरश्रेष्ठ सफलः स्यात्क्रतुस्तव ॥
प्रतिज्ञा च तथा सत्या तस्माद्दानाय निर्मिता
॥२०॥श्रीब्रह्मोवाच
मन्त्राहूतं ततः श्रेष्ठं नभोमार्गाद्द्विजोत्तमाः ॥
हाटकेश्वरजे क्षेत्रे पुष्करं चागमिष्यति
॥२१॥अघमर्षं जपंश्चैव यः करिष्यति तोयगः ॥
मम मूर्तेः पुरः स्थित्वा पैलमन्त्रपुरःसरम्
॥२२॥जपिष्यति द्विजश्रेष्ठाः सवनानां चतुष्टयम् ॥
ब्रह्मलोकात्समागत्य प्रश्रोष्या मि च तद्द्विजाः
॥२३॥सूत उवाच
अथ ते नागराः सर्वे पुष्पदानप्रपूर्वकम् ॥
अनुज्ञां प्रददुस्तुष्टा यज्ञफलसमाप्तये
॥२४॥एतस्मिन्नंतरे प्राप्तः पुलस्त्योऽध्वर्युसत्तमः ॥
यत्र स्थाने स्थितो ब्रह्मा नागरैः परिवारितः
॥२५॥अब्रवीच्च समाप्तस्ते यतः संपूर्णदक्षिणः ॥
प्रायश्चित्तैर्विरहितो यथा नान्यस्य कस्यचित्
॥२६॥अतः परं कर्मशेषं किंचिदस्ति पितामह ॥
वारुणेष्टिर्जपश्चैव तत्करिष्यामि सांप्रतम्
॥२७॥तथा चाऽवभृथस्नानं प्रकर्तव्यं त्वया सह ॥
तस्मादुत्तिष्ठ गच्छामो यत्र तोयव्यवस्थितम्
॥२८॥येनेष्टिवारुणीं तत्र कुर्मो विप्रैर्यथोचितैः ॥
चतुर्भिर्ब्रह्मपूर्वैश्च मया चाग्नीध्रहोतृभिः
॥२९॥यथावह्नौ तथा तोये मन्त्रवत्तद्भवंशुभम् ॥
हूयते संविधानेनयज्ञपात्रैः सम न्वितम्
॥३०॥वरुणस्य प्रतुष्ट्यर्थं स्नानं कार्यं त्वयैव च ॥
ऋत्विग्भिः सहितेनैव सर्वारिष्टप्रशांतये
॥३१॥यस्तत्र समये स्नानं करिष्यति त्वया सह ॥
अन्योऽपि मानवः कश्चिद्विपाप्मा स भविष्यति
॥३२॥यानीह संति तीर्थानि त्रैलोक्ये सचराचरे ॥
वारुणीमिष्टिमासाद्य तानि यांति च संनिधौ
॥३३॥तस्मात्सर्वप्रयत्नेन दीक्षितेन समन्वितम् ॥
तत्र स्नानं प्रकर्तव्यं जलमध्ये तु सार्थिभिः ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः सर्वैरव भृथोत्सवे
॥३४॥तस्माद्विसर्जयाद्यैतान्ब्राह्मणांस्तावदेव च ॥
एतेऽपि च करिष्यंति स्नानं तत्र त्वया सह
॥३५॥सूत उवाच
तच्छ्रुत्वा प्रस्थितो ब्रह्मा ज्येष्ठकुण्डतटं शुभम् ॥
गायत्र्या सहितो हृष्टः कृतकृत्यत्वमागतः
॥३६॥अथ तद्वचनं श्रुत्वा सुराः सर्वे तथा द्विजाः ॥
पुलस्त्यश्च शुभार्थाय स्नानार्थं प्रस्थितास्तदा ॥
ब्रह्मणा सहिता हृष्टाः पुत्रदारसमन्विताः
॥३७॥अथ संकीर्णता जाता समंताज्ज्येष्ठपुष्करे ॥
स्नानार्थमागतैर्लोकैरूर्ध्वबाहुभिरेव च
॥३८॥न तत्र लक्ष्यते ब्रह्मा न तत्कर्म च वारुणम् ॥
क्रियमाणैर्द्विजैस्तत्र व्याप्ते भूमि तलेऽखिले
॥३९॥अथांते कर्मणस्तस्य ब्रह्मा प्राह शतक्रतुम् ॥
हितार्थं सर्वलोकस्य विनयावनतं स्थितम्
॥४०॥न मां ज्ञास्यति दूरस्था जनाः स्नानार्थमागताः ॥
मज्जमानं जले पुण्ये सम्मर्देऽस्मिञ्जलोद्भवे
॥४१॥तस्मान्नागं समारुह्य निजं वृत्रनिषूदन ॥
एणस्य कृष्णसारस्य वंशांते चर्म न्यस्य च
॥४२॥ततस्तत्स्नानवेलायां क्षेप्तव्यं सलिले त्वया ॥
येन लोकः समस्तोऽयं वेत्ति कालं तु स्नानजम्
॥४३॥स्नानं च कुरुते श्रेयः संप्राप्नोति यथोदितम् ॥
दूरस्थोऽपि सुवृद्धोऽपि बालोऽपि च समागतः ॥
स्नानजं लभते श्रेयः संदृष्टेऽपि यथोदितम्
॥४४॥सूत उवाच
बाढमित्येव संप्रोच्य सत्वरं प्रययौ हरिः
॥४५॥ततो नागं समारुह्य धृत्वा वंशं करे निजे ॥
मृगचर्माग्रसंयुक्तं तोयमध्ये व्यवस्थितः
॥४६॥एतत्कर्मावसाने स स्नातुकामे पितामहे ॥
तच्चर्म प्राक्षिपत्तोये स्वयमेव शतक्रतुः
॥४७॥एतस्मिन्नन्तरे देवाः सर्वे गन्धर्वगुह्यकाः ॥
मानुषाश्च विशेषेण स्नातास्तत्र समाहिताः
॥४८॥एतस्मिन्नन्तरे ब्रह्मा शक्रं प्रोवाच सादरम् ॥
कृतस्नानं सुरैः सार्धं विनयावनतं स्थितम्
॥४९॥सहस्राक्षं त्वया कष्टं मन्मखे विपुलं कृतम् ॥
आनीता च तथा पत्नी गायत्री च सुमध्यमा
॥५०॥तस्माद्वरय भद्रं ते यं वरं मनसि स्थितम् ॥
सर्वं तेऽहं प्रदास्यामि यद्यपि स्यात्सुदुर्लभम्
॥५१॥इन्द्र उवाच
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
यदि त्वां प्रार्थयाम्यद्य भूयात्तु तादृशं विभो
॥५२॥वर्षेवर्षे तु यः कुर्यात्संप्राप्तेऽस्मिन्दिने शुभे ॥
मृगचर्म समादाय वंशाग्रे यो महीपतिः
॥५३॥नागप्रवरमारुह्य स्वयमेव पितामह ॥
यथाऽहं प्रक्षिपेत्तोये स स्यात्पापविवर्जितः
॥५४॥अजेयः सर्वशत्रूणां सर्वव्यसनवर्जितः ॥
ये करिष्यंति च स्नानमनेन मृगचर्मणा
॥५५॥सार्धमन्येऽपि ये लोका अपि पापसमन्विताः ॥
तेषां वर्षकृतं पापं त्वत्प्रसादात्प्रणश्यतु
॥५६॥ब्रह्मोवाच
एतत्सर्वं सहस्राक्ष तव वाक्यमसंशयम् ॥
भविष्यति न संदेहः सर्वमेतन्मयोदितम्
॥५७॥यो राजा श्रद्धया युक्तो देशस्यास्य समुद्भवः ॥
आनर्तस्य गजारूढो मृगचर्म क्षिपिष्यति
॥५८॥अत्र कुण्डे मदीये तु मां संपूज्य तटस्थितम् ॥
सर्वलोकहितार्थाय संप्राप्ते प्रतिपद्दिने
॥५९॥समाप्ते कुतपे काले विजयी स भविष्यति ॥
कार्तिक्यां च व्यतीतायां द्वितीयेऽह्नि व्यवस्थिते
॥६०॥तथा तत्कालमासाद्य ये करिष्यंति मानवाः ॥
स्नानं तच्च दिनेऽत्रैव वर्षपापविवर्जिताः ॥
आधिव्याधिविमुक्ताश्च ते भविष्यंत्यसंशयम्
॥६१॥सूत उवाच
एतस्मिन्नंतरे प्राप्तो यक्ष्माख्यो दारुणो गदः ॥
अचिकित्स्योऽपि देवानां तथा धन्वंतरेरपि
॥६२॥नीलांबरधरः क्षामो दीनो दण्डसमाश्रितः ॥
क्षुत्कुर्वञ्छ्लेष्मणा तावत्कृच्छ्रात्संधारयन्पदम्
॥६३॥ततश्च प्रणतो भूत्वा वाक्यमेतदुवाच सः
॥६४॥यक्ष्मोवाच
तव यज्ञमहं श्रुत्वा दूरादेव पितामह ॥
क्षुत्क्षामकंठश्चायातः समाप्तावद्य कृच्छ्रतः
॥६५॥दक्षेणाहं पुरा सृष्टश्चंद्रार्थं कुपितेन च ॥
रोहिणीं सेवमानस्य संत्यक्तान्यासुतस्य च
॥६६॥ततो माहेश्वरादेशात्तेन तुष्टेन तस्य च ॥
पक्षमेकं कृतं मह्यं तस्यास्वादनकर्मणि
॥६७॥अन्यपक्षे न किंचिच्च येन तृप्तिः प्रजायते ॥
यज्ञस्यैव तु सर्वस्य तर्पयित्वा द्विजोत्तमम्
॥६८॥ततस्तद्वचनं ग्राह्यं तर्पितोऽहमसंशयम् ॥
पौर्णमास्यां ततो देव यस्य यज्ञस्य कृत्स्नशः
॥६९॥यस्य नो ब्राह्मणो ब्रूते यज्ञस्यांते प्रतर्पितः ॥
तर्पितोऽस्मीति तत्तस्य वृथा स्याद्यज्ञजं फलम् ॥
यदि कोटिगुणं दत्तमपि श्रद्धासमन्वितम्
॥७०॥एतच्छ्रुत्वा त्वया देव पठ्यमानं श्रुताविह ॥
तस्मात्सम्यक्स्थिते यज्ञे ब्राह्मणं तर्पयेत वै
॥७१॥प्रत्यक्षं मे यथा तृप्तिरन्नेनैव प्रजायते ॥
त्वत्प्रसादात्सुरश्रेष्ठ तथा नीतिर्विधीयताम्
॥७२॥सूत उवाच
तच्छ्रुत्वा पद्मजस्तस्य पथ्यंपथ्यं वचोऽखिलम् ॥
श्रुतिं प्रमाणतां नीत्वा ततो वचनमब्रवीत्
॥७३॥अद्यप्रभृति वै विप्राः साग्नयः स्युर्धरातले ॥
तैः सर्वैर्वैश्वदेवांते बलिर्देयस्तथाखिलः
॥७४॥दत्त्वाऽन्येभ्योथ देवेभ्यस्तव तृप्तिर्भविष्यति ॥
तव पक्षे द्वितीये तु सत्यमेतन्मयोदितम्
॥७५॥ये विप्रास्तु बलिं दद्युर्वैश्वदेवांत आगते ॥
न तेषामन्वये चापि त्वया सेव्योऽत्र कश्चन
॥७६॥यक्ष्मोवाच
तीर्थेऽस्मिंस्तावके देव सदाहं तपसि स्थितः ॥
तिष्ठामि यदि वादेशस्तावको जायते मम
॥७७॥ब्रह्मोवाच
यद्येवं कुरु चान्यत्र त्वमाश्रमपदं निजम् ॥
संप्राप्य भूमिदेशे च कञ्चिद्यदभिरोचते ॥
अर्थयित्वा द्विजानेतान्यथा यज्ञकृते मया
॥७८॥सूत उवाच
तच्छ्रुत्वा प्रार्थयामास चमत्कारपुरोद्भवान् ॥
तेभ्यः प्राप्य ततो भूमिं चकाराथाश्रमं निजम्
॥७९॥तत्र यः कुरुते स्नानं प्रतिपद्दिवसे स्थिते ॥
सूर्यवारेण मुच्येत यक्ष्मणा सेवितोऽपि वा
॥८०॥अद्यापि दृश्यते चात्र प्रत्ययस्तस्य संभवे ॥
सर्वेषामाहिताग्नीनां नागराणां विशेषतः ॥
कलि कालेऽपि संप्राप्ते न यक्ष्मा संप्रजायते
॥८१॥तथा चतुष्पदानां च तेषां गृहनिवासिनाम् ॥
न तस्य भेषजानि स्युर्न मंत्रा न चिकित्सकाः
॥८२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञावभृथयक्ष्म तीर्थोत्पत्तिमाहात्म्यवर्णनंनाम नवत्युत्तरशततमोऽध्यायः ॥ १९० ॥