मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १

3
नागरखण्डः · 1

लिंगोत्पत्तिवर्णनम्

ॐनमः पुरुषोत्तमाय

अथ स्कान्दे महापुराणे षष्ठनागरखण्डप्रारम्भः

व्यास उवाच

स धूर्जटि जटाजूटो जायतां विजयाय वः।

यत्रैकपलितभ्रांतिं करोत्यद्यापि जाह्नवी

॥१॥

ऋषय ऊचुः

हरस्य पूज्यते लिंगं कस्मादतन्महामते विशेषात्संपरित्यज्य शेषांगानि सुरासुरैः

॥२॥

तस्मादेतन्महाबाहो यथावद्वक्तुमर्हसि।

सांप्रतं सूत कार्त्स्न्येन परं कौतूहलं हि नः

॥३॥

सूत उवाच

प्रश्नभारो महानेष यो भवद्भिरुदाहृतः।

कीर्तयिष्ये तथाप्येनं नमस्कृत्य स्वयंभुवे

॥४॥

आनर्तविषये चास्ति वनं मुनिजनाश्रयम्।

मनोज्ञं सर्वसत्त्वानां सर्वर्तुफलितद्रुमम्

॥५॥

तत्राश्रमपदं रम्यं सौम्यसत्त्वनिषेवितम् ॥

अस्ति तापससंकीर्णं वेदध्वनिविराजितम्

॥६॥

अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशिभिस्तथा।

दन्तोलूखलिभिर्विप्रैः सेवितं चाश्मकुट्टकैः

॥७॥

स्नानहोमपरैश्चैव जपस्वाध्यायतत्परैः।

वानप्रस्थैस्त्रिदण्डैश्च हंसैश्चापि कुटीचरैः

॥८॥

स्नातकैर्यतिभिर्दान्तैस्तथा पंचाग्निसाधकैः।

कस्यचित्त्वथ कालस्य भगवांस्त्रिपुरांतकः

॥९॥

सतीवियोगसंतप्तो भ्रममाण इतस्ततः।

तस्मिन्वने समायातः सौम्यसत्त्वनिषेविते

॥१०॥

क्रीडंति नकुला यत्र सार्धं सर्पैःप्रहर्षिताः।

पञ्चाननाश्च मातंगैर्वृषदंशास्तथाखुभिः।

काकाः कौशिकसंघैश्च वैरभावविवर्जिताः

॥११॥

ततश्च भगवान्रुद्रो दृष्ट्वाश्रमपदं तदा।

नग्नः कपालमादाय भिक्षार्थं प्रविवेश सः

॥१२॥

अथ तस्य समालोक्य रूपं गात्रसमुद्भवम्।

अदृष्टपूर्वं तापस्यः सर्वाः कामवशं गताः

॥१३॥

गृहकर्म परित्यज्य गुरुशुश्रूषणानि च।

मिथः संभाषणं चक्रुः स्थानेस्थाने च ताः स्थिताः

॥१४॥

एका सा कापि धन्या या चक्रे तस्यावगूहनम्।

विश्रब्धा सर्वगात्रेषु तापसस्य महात्मनः

॥१५॥

तथान्याः कौतुकाविष्टा धावंत्यः सर्वतोदिशम्।

दृश्यंते तं समुद्दिश्य विस्तारितविलोचनाः

॥१६॥

काश्चिदर्द्धानुलिप्तांग्यः काश्चिदेकांजितेक्षणाः।

अर्धसंयमितैः कैशैस्तथान्यास्त्यक्तबालकाः

॥१७॥

एवमालोक्यमानः स कामिनीभिर्महेश्वरः।

बभ्राम राजमार्गेण भिक्षां देहीति कीर्तयन्

॥१८॥

अथ ते मुनयो दृष्ट्वा तं तथा विगतांबरम्।

कामोद्भवकरंस्त्रीणां प्रोचुः कोपारुणेक्षणाः

॥१९॥

यस्मात्पाप त्वयास्माकमाश्रमोऽयं विडंबितः।

तस्माल्लिंगं पतत्वाशु तवैव वसुधातले

॥२०॥

एतस्मिन्नंतरे भूमौ लिंगं तस्य पपात तत्।

भित्त्वाथ धरणीपृष्ठं पातालं प्रविवेश ह

॥२१॥

सोऽपि लिंगपरित्यक्तो लज्जायुक्तो महेश्वरः।

गर्तां गुर्वीं समाश्रित्य भ्रूणरूपः समाविशत्

॥२२॥

अथ लिंगस्य पातेन त्रैलोक्यभयशंसिनः।

उत्पाता दारुणास्तस्थुः सर्वत्र द्विजसत्तमाः

॥२३॥

शीर्यते गिरिशृङ्गाणि पतंत्युल्का दिवापि च।

त्यजंति सागराः सर्वे मर्यादां च शनैः शनैः

॥२४॥

अथ देवगणाः सर्वे भयसंत्रस्तमानसाः।

शक्रविष्णुमुखा जग्मुर्यत्र देवः पितामहः

॥२५॥

प्रोचुश्च प्रणताः स्तुत्वा स्तोत्रैः सुश्रुतिसंभवैः।

त्रैलोक्ये सृष्टिरूपं यत्कमलासनसंस्थितम्

॥२६॥

किमिदं किमिदं देव वर्तते ह्यधरोत्तरम्।

त्रैलोक्यं सकलं येन व्याकुलत्वमुपागतम्

॥२७॥

प्रलयस्येव चिह्नानि दृश्यंते पद्मसंभव।

किं सांप्रतमकालेऽपि भविष्यति परिक्षयः

॥२८॥

सर्वेषां सुरमर्त्यानां दैत्यानां मन्त्रकोविदः।

गतिर्भयार्तदेहानां सर्वलोकपितामहः

॥२९॥

तेषां तद्वचनं श्रुत्वा देवानां चतुराननः।

उवाच सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा

॥३०॥

प्रलयस्य न कालोऽयं सांप्रतं सुरसत्तमाः।

शृणुध्वं यन्निमित्तोत्था महोत्पाता भवन्त्यमी

॥३१॥

ऋषिभिः पातितं लिंगं देवदेवस्य शूलिनः।

शापेनानर्तके देशे कलत्रार्थे महात्मभिः

॥३२॥

तेनैतद्व्याकुलीभूतं त्रैलोक्यं सचराचरम्।

तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः

॥३३॥

येनास्मद्वचनाच्छीघ्रं तल्लिंगं निदधाति सः।

नो चेद्भविष्यति व्यक्तमकाले चापि संक्षयः।

त्रैलोक्यस्यापि कृत्स्नस्य सत्यमेतन्मयोदितम्

॥३४॥

अथ देवगणाः सर्वे ब्रह्मविष्णुपुरःसराः।

आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ

॥३५॥

प्रजग्मुस्त्वरितास्तत्र यत्र देवो महेश्वरः।

गर्तामध्यगतः सुप्तो लज्जया परया वृतः

॥३६॥

देवा ऊचुः

नमस्ते देवदेवेश भक्तानामभयप्रद।

नमस्ते जगदाधार शशिराजितशेखर

॥३७॥

त्वं यज्ञस्त्वं वषट्कारस्त्वमापस्त्वं मही विभो।

त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्

॥३८॥

त्वं पासि च सुरश्रेष्ठ तथा नाशं नयिष्यसि।

त्वं विष्णुस्त्वं चतुर्वक्त्रस्त्वं चंद्रस्त्वं दिवाकरः

॥३९॥

त्वया विना महादेव न किंचिदिह विद्यते।

अपि कृत्वा महत्पापं नरो देव धरातले

॥४०॥

तव नामापि संकीर्त्य प्रयाति त्रिदिवालयम्।

महादेव महादेव महादेवेति कीर्तनात्

॥४१॥

कोटयो ब्रह्महत्यानामगम्यागमकोटयः।

सद्यः प्रलयमायांति महादेवेति कीर्तनात्

॥४२॥

विप्रो यथा मनुष्याणां नदीनां वा महार्णवः।

तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

॥४३॥

नक्षत्राणां यथा चंद्रः प्रदीप्तानां दिवाकरः।

तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

॥४४॥

धातूनां कांचनं यद्वद्गंधर्वाणां च नारदः।

तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

॥४५॥

ओषधीनां यथा सस्यं नगानां हेमपर्वतः।

तथा त्वं सर्वदेवानामाधिपत्ये व्यवस्थितः

॥४६॥

तस्मात्कुरु प्रसादं नः सर्वेषां च नृणां विभो।

संधारय पुनर्लिंगं स्वकीयं सुरसत्तम

॥४७॥

नोचेज्जगत्त्रयं देव नूनं नाशममुपेष्यति।

यद्येतद्भूतले लिङ्गं पतति स्थास्यति प्रभो

॥४८॥

सूत उवाच

तेषां तद्वचनं श्रुत्वा भगवान्बृषभध्वजः।

प्रोवाच प्रणतान्सर्वांस्तान्देवान्व्रीडयान्वितः

॥४९॥

मया सतीवियोगार्तियुक्तेन सुरसत्तम।

लिंगमेतत्परित्यक्तं शापव्याजाद्द्विजन्मनाम्

॥५०॥

कोऽलं पातयितुं लिंगं ममैतद्भुवनत्रये।

देवो वा ब्राह्मणो वापि वेत्थ यूयमपि स्फुटम्

॥५१॥

तस्मान्नैव धरिष्यामि लिंगमेतद्धरातलात्।

किमनेन करिष्यामि भार्यया परिवर्जितः

॥५२॥

देवा ऊचुः

तव कांता सती नाम या मृता प्राक्सुरोत्तम।

सा जाता मेनकागर्भे गौरी नाम हिमाचलात्

॥५३॥

भविष्यति पुनर्भार्या तवैव त्रिपुरांतक।

तस्माल्लिंगं समादाय कुरु क्षेमं दिवौकसाम्

॥५४॥

देवदेव उवाच

अद्यप्रभृति मे लिंगं यदि देवा द्विजातयः।

पूजयंति प्रयत्नेन तर्हीदं धारयाम्यहम्

॥५५॥

ब्रह्मोवाच

अहं तव स्वयं लिंगं पूजयिष्यामि शंकर।

तथान्ये विबुधाः सर्वे किं पुनर्भुवि मानवाः

॥५६॥

ततः प्रविश्य पातालं देवैः सार्धं पितामहः।

स्वयमेवाकरोत्पूजां तस्य लिंगस्य भक्तितः

॥५७॥

तस्मादनंतरं विष्णुः श्रद्धापूतेन चेतसा।

तथान्ये विबुधाः सर्वे शक्राद्याः श्रद्धयान्विताः

॥५८॥

ततस्तुष्टो महादेवः पितामहमिदं वचः।

प्रोवाच वासुदेवं च विनयावनतं स्थितम्

॥५९॥

भवद्भ्यां परितुष्टोऽस्मि तस्मान्मत्तः प्रगृह्यताम्।

वरमिष्टं महाभागौ यद्यपि स्यात्सुदुर्लभम्

॥६०॥

तावूचतुः

यदि तुष्टोसि देवेश त्रिभागेन समाश्रयम्।

आवाभ्यां देहि लिंगेन येनैकत्राश्रयो भवेत्

॥६१॥

सूत उवाच

स तथेति प्रतिज्ञाय लिंगमादाय च प्रभुः।

स्थाने नियोजयामास सर्वदेवाधिपूजितम्

॥६२॥

ततो हाटकमादाय तदाकारं पितामहः।

कृत्वा लिंगं स्वयं तत्र स्थापयामास हर्षितः

॥६३॥

प्रोवाच चाथ भो विप्राः साधुनादेन नादयन्।

लोकत्रयं समस्तानां शृण्वतां त्रिदिवौकसाम्

॥६४॥

मया ह्याद्यं त्विदं लिंगं हाटकेन विनिर्मितम्।

ख्यातिं यास्यति सर्वत्र पाताले हाटकेश्वरम्

॥६५॥

तथान्ये मनुजा ये च हाटकादीनि भक्तितः।

मणिमुक्तासुरत्नैश्च कृत्वा लिंगानि कृत्स्नशः

॥६६॥

त्रिकालं पूजयिष्यंति ते यास्यंति परां गतिम्।

मृन्मयं संपरित्यज्य नीचधातुमयं तथा

॥६७॥

एवमुक्त्वा चतुर्वक्त्रः सह सर्वैर्दिवालयैः।

जगाम त्रिदिवं सोऽपि कैलासं शशिशेखरः

॥६८॥

एतस्मात्कारणाल्लिंगं पूज्यतेऽत्र सुरासुरैः।

हरस्य चोत्तमांगानि परित्यज्य विशेषतः

॥६९॥

ततः प्रभृति तल्लिंगं स्वयं ब्रह्मा व्यवस्थितः।

भगवान्वासुदेवश्च तेन पूज्यं शिवं हि तत्

॥७०॥

यस्तु पूजयते नित्यं श्रद्धायुक्तेन चेतसा।

त्र्यंबकाच्युतब्रह्माद्यास्तेन स्युः पूजितास्त्रयः

॥७१॥

तस्मात्सर्वप्रयत्नेन शिवलिंगं प्रपूजयेत्।

स्पर्शयेदीक्षयेन्नित्यं कीर्तयेच्च द्विजोत्तमाः

॥७२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लिंगोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥