मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०२

3
नागरखण्डः · 202

भर्तृयज्ञवाक्यनिर्णयवर्णनम्

विश्वामित्र उवाच

तच्छ्रुत्वा ब्राह्मणाः सर्वे विनयावनताः स्थिताः ॥

तं पप्रच्छुर्नरश्रेष्ठ कौतुकाविष्टचेतसः

॥१॥

कस्यचिन्निर्णयो देयो मध्यस्थस्य द्विजोत्तमैः ॥

वेदवाक्येन संत्यज्य वाक्यं मनुजसंभवम् ओ

॥२॥

कस्मात्तालत्रयं देयं मध्यगेन महात्मना ॥

एतन्नः सर्वमाचक्ष्व परं कौतूहलं हि नः

॥३॥

तच्छ्रुत्वा भर्तृयज्ञस्तु तानुवाच द्विजोत्तमान् ॥

श्रूयतामभिधास्यामि यदेतत्कारणं स्थितम्

॥४॥

नासत्यं जायते वाक्यं नागराणां कथंचन ॥

ब्रह्मशालास्थितानां च शुभं वा यदि वाऽशुभम्

॥५॥

वेदोक्तेः सवनैस्तस्माद्दर्शयंति द्विजोत्तमाः ॥

इष्टं वा यदि वानिष्टं पृच्छमानस्य चा र्थिनः

॥६॥

भूयोभूयस्ततः कुर्यान्मध्यस्थः स द्विजन्मनाम् ॥

प्रश्नं तस्य निमित्तं च यावत्तस्य विनिर्णयः

॥७॥

ब्रह्मशालोपविष्टानां यदि वाक्यं वृथा भवेत् ॥

माहात्म्यं नश्यते तेषां ततः क्रोधः प्रजायते

॥८॥

क्रोधात्सञ्जायते द्रोहो द्रोहात्पापस्य संगमः ॥

एतस्मात्कारणाद्विप्रा मध्यस्थः पृच्छ्यते मुहुः

॥९॥

समुदायः समस्तानां यथा चैव प्रजायते ॥

तदा तालत्रयं यच्च मध्यस्थः संप्रयच्छति

॥१०॥

तासां तु पूर्वया कामं हंति पृच्छाप्रदायिनाम् ॥

द्वितीयया तथा क्रोधं हंति लोभं तृतीयया

॥११॥

एतस्मात्कारणाद्देयं तेन तालत्रयं द्विजाः

॥१२॥

ब्राह्मणा ऊचुः

आथर्वणश्चतुर्थस्तु ब्राह्मणः परिकीर्तितः ॥

स कस्मात्प्रथमः प्रश्नो नागराणां प्रकीर्तितः

॥१३॥

भर्तृयज्ञ उवाच

आथर्वः प्रथमः प्रश्नो यस्मात्प्रोक्तो मया द्विजाः ॥

तदहं संप्रवक्ष्यामि शृणुध्वं सुसमाहिताः

॥१४॥

नेर्ष्या चैवात्र कर्तव्या स्वस्थानस्य विनाशनी ॥

निरूपितं मया सम्यक्स्थानस्थस्य विशुद्धये

॥१५॥

ऋग्यजुःसामसंज्ञाख्या अग्निष्टोमादिका मखाः ॥

पारत्रिकाः प्रवर्तंते नैहिकाश्चाभिचारिकाः

॥१६॥

अथर्ववेदे तच्चोक्तं सर्वं चैवाभिचारिकम् ॥

हिताय सर्वलोकानां ब्रह्मणा लोककारिणा

॥१७॥

अथर्ववेदः प्रथमं द्रष्टव्यः कार्यसिद्धये ॥

एतस्मात्कारणादाद्यः स चतुर्थोऽपि संस्थितः

॥१८॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥

पृच्छा संबंधजं सर्वमेकं कार्यं सदैव हि

॥१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञवाक्यनिर्णयवर्णनंनाम द्व्युत्तरद्विशततमोऽध्यायः ॥ २०२ ॥