मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३५

3
नागरखण्डः · 135

पतिव्रतावरलाभः

सूत उवाच

तथान्यापि च तत्रास्ति दीर्घिकाख्या सुशोभना ॥

सरसी लोकविख्याता सर्वपातकनाशनी

॥१॥

यस्यां स्नातो नरः सम्यग्भास्करस्योदयं प्रति ॥

ज्येष्ठशुक्लचतुर्दश्यां मुच्यते सर्वपातकैः

॥२॥

आसीत्पूर्वं द्विजो वीरशर्मनामातिविश्रुतः ॥

वेदविद्याव्रतस्नातो वर्धमाने पुरोत्तमे

॥३॥

तस्य कन्या समुत्पन्ना कदाचिल्लक्षणाच्च्युता ॥

अतिदीर्घा प्रमाणेन जनहास्यविवर्द्धिनी

॥४॥

ततः सा यौवनं प्राप्ता तद्रूपापि कुमारिका ॥

न कश्चिद्वरयामास शास्त्रवाक्यमनुस्मरन्

॥५॥

अतिसंक्षिप्तकेशा या अतिदीर्घातिवामना ॥

उद्वाहयति यः कन्यां पुरुषः काममोहितः

॥६॥

षण्मासाभ्यंतरे मृत्युं स प्राप्नोति नरो ध्रुवम् ॥

एतस्मात्कारणात्सर्वे तां त्यजंति कुमारिकाम्

॥७॥

पुरुषा अतिदीर्घत्वयुक्तां वीक्ष्य समंततः ॥

ततो वैराग्यमापन्ना तपस्तेपेऽतिदारुणम्

॥८॥

चांद्रायणानि कृच्छ्राणि तया चीर्णान्यनेकशः ॥

पाराकाणि यथोक्तानि तथा सांतपनानि च

॥९॥

व्रतं यद्विद्यते किंचिन्नियमः संयमस्तथा ॥

अन्यच्चापि शुभं कृत्यं तत्सर्वं च तया कृतम्

॥१०॥

एवं तस्या व्रतस्थाया जरा सम्यगुपस्थिता ॥

तथापि तेजसो वृद्धिर्ववृधे तपसा कृता

॥११॥

सा च नित्यं महेन्द्रस्य सभां यात्यतिकौतुकात् ॥

देवर्षीणां मतं श्रोतुं देवतानां विशेषतः

॥१२॥

यदा सा स्वासनं त्यक्त्वा प्रयाति स्वगृहोन्मुखी ॥

तदैवाभ्युक्षणं चक्रुस्तत्र शक्रस्य किंकराः

॥१३॥

तथान्यदिवसे दृष्टं क्रियमाणं तया हि तत् ॥

अभ्युक्षणं स्वकीये च आसने द्विजसत्तमाः

॥१४॥

ततः कोपपरीतांगी दीर्घिका सा कुमारिका ॥

त्रिशाखां भृकुटीं कृत्वा ततः प्राह पुरंदरम्

॥१५॥

किं दोषं वीक्ष्य मे शक्र प्रोक्षितं चासनं त्वया ॥

परद्वा रकृतं दोषं किं मयैतत्कृतं क्वचित्

॥१६॥

तस्मान्मे पातकं ब्रूहि नो चेच्छापं सुदारुणम् ॥

त्वयि दास्याम्यसंदिग्धं सत्ये नात्मानमालभे

॥१७॥

इन्द्र उवाच

न ते दीर्घेऽस्तिदोषोत्र कश्चिदेकं विना शुभे ॥

तेनाथ क्रियते चैतदासनस्याभिषेचनम्

॥१८॥

त्वं कुमार्यपि संप्राप्ता ऋतुकालं विगर्हिता ॥

तेन दोषं त्वमापन्ना नान्यदस्तीह कारणम्

॥१९॥

तस्मादद्यापि त्वां कश्चिदुद्वाहयति तापसः ॥

त्वं तं वरय भर्त्तारं येन गच्छसि मेध्यताम्

॥२०॥

ततश्च लज्जया युक्ता सा तदा दीर्घकन्यका ॥

गत्वा भूमितले तूर्णं वर्धमाने पुरोत्तमे

॥२१॥

ततः फूत्कर्तुमारब्धा चत्वरेषु त्रिकेषु च ॥

उच्छ्रित्य दक्षिणं पाणिं भ्रममाणा इतस्ततः

॥२२॥

यदि कश्चिद्द्विजो जात्या करोति मम सांप्रतम् ॥

पाणिग्राहं तपोऽर्द्धस्य श्रेयो यच्छामि तस्य च

॥२३॥

एवं तां प्रविजल्पन्तीं श्रुत्वा लोका दिवानिशम् ॥

उन्मत्तामिति मन्वाना हास्यं चक्रुः परस्परम्

॥२४॥

ततः कतिपयाहस्य प्रकुर्वंती च दीर्घिका ॥

कुष्ठव्याधिगृहीतेन ब्राह्मणेन परिश्रुता

॥२५॥

ततः प्रोवाच मन्दं स समाहूय सुदुःखिताम्

॥२६॥

अहं त्वामुद्वहाम्यद्य कृत्वा पाणिग्रहं तव ॥

यदि मद्वचनं सर्वं सर्वदैवानुतिष्ठसि

॥२७॥

कुमारिकोवाच

करिष्यामि न संदेहस्तव वाक्यं द्विजाधिप ॥

कुरु पाणिग्रहं मेऽद्य विधिदृष्टेन कर्मणा

॥२८॥

सूत उवाच

ततस्तस्याः कुमार्याः स पाणिं जग्राह दक्षिणम् ॥

गृह्योक्तेन विधानेन देवाग्निगुरुसंनिधौ

॥२९॥

अथ सा प्राह भूयोऽपि विवाहकृतमंगला ॥

आदेशं देहि मे नाथ यं करोमि तवाधुना

॥३०॥

पतिरुवाच

अष्टषष्टिषु तीर्थेषु स्नातुमिच्छामि सुन्दरि ॥

साहाय्येन त्वदीयेन यदि शक्नोषि तत्कुरु

॥३१॥

बाढमित्येव सा प्रोच्य ततस्तूर्णं पतिव्रता ॥

तत्प्रमाणं दृढं कृत्वा रम्यं वंशकुटीरकम्

॥३२॥

मृदु तूलसमायुक्तं ततः प्राह निजं पतिम् ॥

कृतांजलिपुटा भूत्वा प्रहृष्टेनान्तरात्मना

॥३३॥

एतत्तव कृते रम्यं कृतं वंशकुटीरकम् ॥

मम नाथारुहाशु त्वं येन कृत्वाथ मूर्धनि ॥

नयामि सर्वतीर्थेषु क्षेत्रेषु सुशुभेषु च

॥३४॥

ततः कुष्ठी प्रहृष्टात्मा शनैरुत्थाय भूतलात् ॥

तया चोद्धृतदेहः सन्सुप्तो वंशकुटीरके

॥३५॥

ततस्तं मस्तके कृत्वा सर्वतीर्थे यथासुखम् ॥

सर्वक्षेत्रेषु बभ्राम स्नापयन्ती निजं पतिम्

॥३६॥

यथा यथा स चक्रेऽथ स्नानं तीर्थेषु कुष्ठभाक् ॥

तथातथास्य गात्रेषु तेजो वृद्धिं प्रगच्छति

॥३७॥

ततः क्रमेण सा साध्वी भ्रममाणा महीतले ॥

हाटकेश्वरजे क्षेत्रे संप्राप्ता रजनी मुखे

॥३८॥

क्लान्ता वैक्लव्यमापन्ना भाराक्रान्ता पतिव्रता ॥

निद्रान्धा निश्वसन्ती च प्रस्खलन्ती पदेपदे

॥३९॥

अथ तत्र प्रदेशे तु माण्डव्यो मुनिपुंगवः ॥

शूलारोपितगात्रस्तु संतिष्ठति सुदुःखितः

॥४०॥

अथ सा तं समासाद्य शूलं रात्रौ पतिव्रता ॥

निजगात्रेण भारार्त्ता गच्छमाना महासती

॥४१॥

तया संचालितः सोऽथ मांडव्यो मुनिपुंगवः ॥

परां पीडां समासाद्य ततः प्राह सुदुःखितः

॥४२॥

केनेदं पाप्मना शल्यं ममांतः परिचालितम् ॥

येनाहं दुःखयुक्तोऽपि भूयो दुःखास्पदीकृतः

॥४३॥

दीर्घिकोवाच

न मया त्वं महाभाग निद्रोपहतया दृशा ॥

दृष्टस्तेन परिस्पृष्टो ह्यस्पृश्यः पापकृत्तमः

॥४४॥

न त्वया सदृशश्चान्यः पापात्मास्ति धरातले ॥

शिरस्युद्भूतशूलोऽपि यो मृत्युं नाधिगच्छति

॥४५॥

अहं पतिव्रता मूढ वहामि शिरसा धृतम् ॥

तीर्थयात्राकृते कांतं विकलांगं सुवल्लभम्

॥४६॥

कस्मात्तस्यास्तिरस्कारं मम यच्छसि निष्ठुरम् ॥

अज्ञातां मूढबुद्धिः सन्विशेषान्मानुषोद्भवाम्

॥४७॥

माण्डव्य उवाच

अहं यादृक्त्वया प्रोक्तस्तादृगेव न संशयः ॥

पापात्मा मूढबुद्धिश्च अस्पृश्यः सर्वदेहिनाम्

॥४८॥

यदि प्रातस्तवायं च भर्त्ता जीवति निष्ठुरे ॥

येन मे जनिता पीडा प्राणांतकरणी दृढा

॥४९॥

तस्मादेष तवाभीष्टः स्पृष्टः सूर्यस्य रश्मिभिः ॥

मया शप्तः परित्यागं जीवितस्य करिष्यति

॥५०॥

दीर्घिकोवाच

यद्येवं मरणं पत्युः प्रभाते संभविष्यति ॥

मदीयस्य ततः प्रातर्नोद्गमिष्यति भास्करः

॥५१॥

एवमुक्त्वा ततः साथ निषसाद धरातले ॥

भूमौ तद्भर्तृसंयुक्तं मुक्त्वा वंशकुटीरकम्

॥५२॥

अथ तां प्राह कुष्ठी स पिपासा संप्रवर्तते ॥

तस्मात्तोयं समानेहि पानार्थमतिशीतलम्

॥५३॥

तथैव सा समाकर्ण्य भर्तुरादेशमुत्सुका ॥

इतस्ततश्च बभ्राम जलार्थं न प्रपश्यति ॥

न च निर्याति दूरं सा त्यक्त्वारण्ये तथाविधम्

॥५४॥

भर्तारं श्वापदोत्थं च भयं हृदि वितन्वती ॥

उपविश्य ततो भूमौ स्पृष्ट्वा पादौ पतेस्तदा ॥

प्रोवाच दीर्घिका वाक्यं तारवाक्येन दुःखिता

॥५५॥

पतिव्रता त्वमाचीर्णं यदि सम्यङ्मया स्फुटम् ॥

तेन सत्येन भूपृष्ठान्निर्गच्छतु जलं शुभम्

॥५६॥

एवमुक्त्वा जघानाथ पादाघातेन मेदिनीम् ॥

कान्तभक्तिं पुरस्कृत्य तस्य जीवितवांछया

॥५७॥

एतस्मिन्नन्तरे तोयं पादाघातादनन्ततरम् ॥

निष्क्रांतं निर्मलं स्वादु माण्डव्यस्य च पश्यतः

॥५८॥

ततस्तं स्नापयामास तस्मिंस्तोये श्रमातुरम् ॥

अपाययत्ततः पश्चात्स्वयं स्नात्वा पपौ जलम्

॥५९॥

एतस्मिन्नंतरे सूर्यः पतिव्रतकृताद्भयात् ॥

नाभ्युदेति समुत्पन्नस्ततः कालात्ययो महान्

॥६०॥

अथ रात्रिं समालोक्य दीर्घां ये कामुका जनाः ॥

ते सर्वे तुष्टिमापन्नास्तथा च कुल स्त्रियः

॥६१॥

कौशिका राक्षसाश्चापि चोरा जाराश्च ये नराः ॥

ते सर्वे प्रोचुः संहृष्टाः समालिंग्य परस्परम्

॥६२॥

अद्यास्माकं विधिस्तुष्टो भगवान्मन्मथस्तथा ॥

येन दीर्घा कृता रात्रिर्नाशं नीतश्च भास्करः

॥६३॥

ये पुनर्ब्राह्मणाः शांता यज्ञकर्मसमुद्यताः ॥

ते सर्वे दुःखमापन्नाः सूर्योदयविनाकृताः

॥६४॥

न कश्चिद्यजनं चक्रे याजनं न च सद्द्विजः ॥

न श्राद्धं न च संकल्पं न स्वाध्यायं कथंचन

॥६५॥

न स्नानं न च दानं च लोकयात्रां विशेषतः ॥

व्यवहारं न कृत्यं च किंचिद्धर्मसमुद्भवम्

॥६६॥

एतस्मिन्नन्तरे देवाः सर्वे शक्रपुरोगमाः ।

परं दौःस्थ्यं समापन्ना यज्ञभागविवर्जिताः

॥६७॥

ततो भास्करमासाद्य ऊचुर्दुःखसमन्विताः ॥

कस्मान्नोद्गमनं देव प्रकरोषि दिवाकर

॥६८॥

एतत्त्वया विना सर्वं जगद्व्याकुलतां गतम्

॥६९॥

तस्माल्लोकहितार्थाय त्वमुद्गच्छ यथापुरा ॥

अग्निष्टोमादिका यज्ञा वर्तंते येन भूतले

॥७०॥

सूर्य उवाच

पतिव्रतासमादेशात्त्यक्तश्चाभ्युदयो मया ॥

तस्माद्गत्वा सुराः सर्वे तां वदंतु कृते मम

॥७१॥

येन तद्वाक्यमासाद्य प्रवर्त्तामि यथासुखम् ॥

अन्यथा मां शपेत्क्रुद्धा नूनं सा हि पतिव्रता

॥७२॥

एवं सा तपसा युक्ता प्रोत्कृष्टं हि सुरोत्तमाः ॥

पतिव्रतात्वमाधत्ते तथान्यदपरं महत्

॥७३॥

कस्तस्या वचनं शक्तः कर्तुमेवमतोऽन्यथा ॥

एतस्मात्कारणाद्भीतो नोद्गच्छामि कथंचन

॥७४॥

न तत्क्रतुसहस्रेण यजंतः प्राप्नुयुः फलम् ॥

पतिव्रतात्वमापन्ना यत्स्त्री विंदति केवलम्

॥७९॥

ततस्ते विबुधाः सर्वे गत्वा तत्क्षेत्रमुत्तमम् ॥

प्रोचुस्तां दीर्घिकां वाक्यैर्मृदुभिः पुरतः स्थिताः

॥७६॥

त्वया पतिव्रते सूर्यो यन्निषिद्धो न तत्कृतम् ॥

शुभं यतो हताः सर्वा भूतले शोभनाः क्रियाः

॥७७॥

तस्मादुद्गच्छतु प्राज्ञे त्वद्वाक्यात्तीक्ष्णदीधितिः ॥

यज्ञक्रिया विशेषेण येन वर्तंति भूतले

॥७८॥

पतिव्रतोवाच

अयं च मे पतिः सद्यः प्राणेभ्योऽपि च यः प्रियः ॥

सोऽभ्येति निधनं देवाः प्रोद्गते रविमंडले

॥७९॥

शप्तश्चानेन दुष्टेन मांडव्येन सुपाप्मना ॥

कार्यं विनापि निर्दिष्टस्तद्ब्रूयां भास्करं कथम्

॥८०॥

उदयार्थं न मे यज्ञैः कार्यं किंचिन्न चापरैः ॥

श्राद्धदानादिकैः कृत्यैः संजातैर्दर्यितं विना

॥८१॥

सूत उवाच

ततस्ते विबुधाः सर्वे समालोक्य परस्परम् ॥

चिरकालं सुदुःखार्तास्तामूचुर्विनयान्विताः

॥८२॥

उद्गच्छतु रविर्भद्रे तवायं दयितः पतिः ॥

प्रयातु निधनं सद्यो भूयादेष मुनीश्वरः

॥८३॥

पुनर्जीवापयिष्यामो वयमेनमपि द्रुतम् ॥

मृत्युमार्गमनुप्राप्तं त्वत्कृते पतिवत्सले

॥८४॥

पञ्चविंशतिवर्षीयं कामदेवमिवापरम् ॥

त्वं द्रक्ष्यसि सुदीप्तांगं सर्वलक्षणलक्षितम्

॥८५॥

भूत्वा पंचदशाब्दीया पद्मपत्रायतेक्षणा ॥

मर्त्यलोके सुखं सम्यक्त्वेच्छया साधयिष्यसि

॥८६॥

एषोऽपि मुनिशार्दूलो विपाप्मा सांप्रतं शुभे ॥

शूलवेधेन निर्मुक्तः सुखभागी भवत्क्लम

॥८७॥

सूत उवाच

बाढमित्येव च प्रोक्ते तया स द्विजसत्तमाः ॥

उद्गतो भगवान्सूर्यस्तत्क्षणादेव वेगतः

॥८८॥

ततः सूर्यांशुसंस्पृष्टः स मृतश्च सुकुष्ठभाक् ॥

विबुधानां करैः स्पृष्टः पुनरेव समुत्थितः

॥८९॥

पंचविंशतिवर्षीयः कामदेव इवापरः ॥

संस्मरन्पूर्विकां जातिं सर्वा हर्ष समन्वितः

॥९०॥

दीर्घिकापि परिस्पृष्टा स्वयं देवेन शंभुना ।

संजाता यौवनोपेता दिव्यलक्षणलक्षिता

॥९१॥

पद्मपत्रेक्षणा रम्या चन्द्रबिम्बसमानना ॥

मध्ये क्षामा सुगौरांगी पीनोन्नतपयोधरा

॥९२॥

ततस्तं मुनिशार्दूलं शूलाग्रादवतार्य च ॥

प्रोचुश्च विबुधश्रेष्ठाः सादरं हर्षसंयुताः

॥९३॥

एतत्सत्यं कृतं वाक्यं मुने तव यथोदितम् ॥

मृतोऽपि ब्राह्मणः कुष्ठी संस्पृष्टो रविरश्मिभिः

॥९४॥

पुनरुत्थापितोऽस्माभिः कृतश्च तरुणः पुनः ॥

अनया भार्यया सार्धं तस्मात्त्वं स्वाश्रमं व्रज

॥९५॥

नास्माकं दर्शनं व्यर्थं कथंचिदपि जायते ॥

तस्मात्प्रार्थय यच्चित्ते तव नित्यं समाश्रितम्

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पतिव्रतावरलाभोनाम पञ्चत्रिंशदुत्तरशतत मोऽध्यायः ॥ १३५ ॥