मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७३

3
नागरखण्डः · 173

शापमोचनसाभ्रमत्युत्पत्तिवृत्तान्तवर्णनम्

ऋषय ऊचुः

अहो बत महाश्चर्यं विश्वामित्रस्य सन्मुनेः ॥

मंत्रप्रभावतो येन तत्तोयं रुधिरीकृतम्

॥१॥

ततःप्रभृति संप्राप्तं कथं तोयं प्रकीर्तय ॥

सरस्वत्या महाभाग सर्वं विस्तरतो वद

॥२॥

सूत उवाच

बहुकालं प्रवाहः स सरस्वत्या द्विजोत्तमाः ॥

महान्रक्तमयो जातो भूतराक्षससेवितः

॥३॥

कस्यचित्त्वथ कालस्य वसिष्ठो मुनिसत्तमः ॥

अर्बुदस्थस्तया प्रोक्तो दीनया दुःखयुक्तया

॥४॥

तवार्थाय मुने शप्ता विश्वामित्रेण कोपतः ॥

रुधिरौघवहाजाता तपस्विजनवर्जिता

॥५॥

तस्मात्कुरु प्रसादं मे यथा स्यात्सलिलं पुनः ॥

प्रवाहे मम विप्रेन्द्र प्रयाति रुधिरं क्षयम्

॥६॥

त्रैलोक्यकरणे विप्र संक्षये वा स्थितौ हि वा ॥

नाशक्तिर्विद्यते काचित्तव सर्वमुनीश्वर

॥७॥

वसिष्ठ उवाच

तथा भद्रे करिष्यामि यथा स्यात्सलिलं पुनः ॥

प्रवाहे तव निर्याति सर्वं रक्तं परिक्षयम्

॥८॥

एवमुक्त्वा स विप्रर्षिरवतीर्य धरातले ॥

गतः प्लक्षतरुं यस्मा दवतीर्णा सरस्वती

॥९॥

समाधिं तत्र संधाय निविष्टो धरणीतले ॥

संभ्रमं परमं गत्वा विश्वामित्रस्य चोपरि

॥१०॥

वारुणेन तु मन्त्रेण वीक्ष यन्वसुधातलम् ॥

ततो निर्भिद्य वसुधां भूरितोयं विनिर्गतम् ११ ॥

रन्ध्रद्वयेन विप्रेन्द्रा लोचनाभ्यां निरीक्षणात् ॥

एकस्य सलिलं क्षिप्रं यत्र जाता सरस्वती

॥१२॥

प्लक्षमूले ततस्तस्य वेगेनापहृतं बलात् ॥

तद्रक्तं तेन संपूर्णं ततस्तेन महानदी

॥१३॥

द्वितीयस्तु प्रवाहो यः संभ्रमा त्तस्य निर्गतः ॥

सा च साभ्रमती नाम नदी जाता धरातले

॥१४॥

एवं प्रकृतिमापन्ना भूय एव सरस्वती ॥

यत्पृष्टोऽस्मि महाभागाः सरस्वत्याः कृते द्विजाः

॥१५॥

एतत्सारस्वतं नाम व्याख्यानमतिबुद्धिदम् ॥

यः पठेच्छ्रणुयाद्वापि मतिस्तस्य विवर्द्धते ॥

सरस्वत्याः प्रसादेन सत्यमेतन्म योदितम्

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सरस्वत्युपाख्याने सरस्वती शापमोचनसाभ्रमत्युत्पत्तिवृत्तान्तवर्णनंनाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥ १७३ ॥