यत्वया सूतज प्रोक्तं देवी कात्यायनी च सा
ऋषय ऊचुः
यत्वया सूतज प्रोक्तं देवी कात्यायनी च सा ॥
महिषांतकरी जाता कथं सा मे प्रकीर्तय ॥
कीदृग्दानववर्यः स माहिषं रूपमाश्रितः ॥
कस्मात्स सूदितो देव्या तन्मे विस्तरतो वद
॥२॥सूत उवाच
अत्र वः कीर्तयिष्यामि देव्या माहात्म्यमुत्तमम् ॥
श्रुतमात्रेऽपि मर्त्यानां येन शत्रुक्षयो भवेत्
॥३॥हिरण्याक्षसुतः पूर्वं महिषोनाम दानवः ॥
आसीन्महिषरूपेण येन भुक्तं जगत्त्रयम्
॥४॥ऋषय ऊचुः
माहिषेण स्वरूपेण किंजातः सूतनंदन ॥
अथवा शापदोषेण सञ्जातः केनचिद्वद
॥५॥सूत उवाच
संजातो हि सुरूपाढ्यः शतपत्रनिभाननः ॥
दीर्घबाहुः पृथुग्रीवः सर्वलक्षणलक्षितः ॥
नाम्ना चित्रसमः प्रोक्तस्तेजोवीर्यसमन्वितः
॥६॥सबाल्यात्प्रभृति प्रायो महिषाणां प्रबोधनम् ॥
करोति संपरित्यज्य सर्वमश्वादिवाहनम्
॥७॥कदाचिन्महिषारूढः स प्रतस्थे दनोः सुतः ॥
जाह्नवीतीरमासाद्य विनिघ्नञ्जलपक्षिणः
॥९॥अथासीत्सुसमाधिस्थो दुर्वासा मुनिसत्तमः ॥
गंगातीरे विधायोच्चैः पद्मा सनमनुत्तमम्
॥९॥विहंगासक्तचित्तेन शून्येन स मुनीश्वरः ॥
दृष्टो न महिषक्षुण्णः खुरैर्वेगवशाद्द्विजः
॥१०॥ततः क्षतजदिग्धांगः स दृष्ट्वा दानवं पुरः ॥
अथ दृष्ट्वा प्रणामेन रहितं कोपमाविशत् ॥
ततः प्रोवाच तं क्रुद्धस्तोयमादाय पाणिना ॥
यस्मात्पाप मम क्षुण्णं गात्रं महिषजैः खुरैः
॥१२॥समाधेश्च कृतो भंगस्तस्मात्त्वं महिषो भव ॥
यावज्जीवसि दुर्बुद्धे सम्यग्ज्ञानसमन्वितः
॥१३॥अथाऽसौ महिषो जातः कृष्णगात्रधरो महान् ॥
अतिदीर्घविषाणश्च अंजनाद्रिरिवापरः
॥१४॥ततः प्रसादयामास तं मुनिं विनयान्वितः ॥
शापातं कुरु मे विप्र बाल्यभावादजानतः
॥१५॥अथ तं स मुनिः प्राह न मे स्याद्वचनं वृथा ॥
तस्माद्यावत्स्थिताः प्राणास्तावदित्थं भविष्यति
॥१६॥महिषस्य स्वरूपेण निन्दितस्य सुदुर्मते ॥
एवं स तं परित्यज्य गंगातीरं मुनीश्वरः ॥
जगामाऽन्यत्र सोऽप्याशु गत्वा शुक्रमुवाच ह
॥१७॥अहं दुर्वाससा शप्तः कस्मिंश्चित्कारणांतरे ॥
महिषत्वं समानीतस्तस्मात्त्वं मे गतिर्भव
॥१८॥यथा स्यात्पूर्वजं देहं तिर्यक्त्वं नश्यते यथा ॥
प्रसादात्तव विप्रेंद्र तथा नीतिर्विधीयताम्
॥१९॥शुक्र उवाच
तस्य शापोऽन्यथा कर्तुं नैव शक्यः कथंचन ॥
केनापि संपरित्यज्य देवमेकं महेश्वरम्
॥२०॥तस्मादाराधयाऽऽशु त्वं गत्वा लिंगमनुत्तमम् ॥
हाटकेश्वरजे क्षेत्रे सर्वसिद्धिप्रदायके
॥२१॥तत्र सञ्जायते सिद्धिः शीघ्रं दानवसत्तम ॥
अपि पापयुगे प्राप्ते किं पुनः प्रथमे युगे
॥२२॥एवमुक्तः स शुक्रेण दानवः सत्वरं ययौ ॥
हाटकेश्वरजं क्षेत्रं तपस्तेपे ततः परम्
॥२३॥स्थापयित्वा महल्लिगं भक्त्या देवस्य शूलिनः ॥
प्रासादं च ततश्चक्रे कैलासशिखरोपमम्
॥९४॥तस्यैवं वर्तमानस्य तपःस्थस्य महात्मनः ॥
जगाम सुमहान्कालः कृच्छ्रे तपसि वर्ततः
॥२५॥ततस्तुष्टो महादेवो गत्वा तद्दृष्टिगोचरम् ॥
प्रोवाच परितुष्टोऽस्मि वरं वरय दानव
॥२६॥महिष उवाच
अहं दुर्वाससा शप्तो महिषत्वे नियोजितः ॥
तिर्यक्त्वं नाशमायातु तस्मान्मे त्वत्प्रसादतः
॥२७॥श्रीभगवानुवाच
नान्यथा शक्यते कर्तुं तस्य वाक्यं कथंचन ॥
तस्मात्तव करिष्यामि सुखोपायं शृणुष्व तम्
॥२८॥ये केचिन्मानवा भोगा दैविका ये तथाऽऽसुराः ॥
ते सर्वे तव गात्रेऽत्र सम्प्रयास्यंति संश्रयम्
॥२९॥भोगार्थमिष्यते कायं यतो मर्त्यं सुरासुरैः ॥
समवाप्स्यसि तान्सर्वांस्तस्मात्तव कलेवरम्
॥३७॥महिष उवाच
यद्येवं देवदेवेश भोगप्राप्तिर्भवेन्मम ॥
तस्मादवध्यमेवास्तु गात्रमेतन्मम प्रभो
॥३१॥दशानां देवयोनीनां मनुष्याणां विशेषतः ॥
तिर्यञ्चानां च नागानां पक्षिणां सुरसत्तम
॥३२॥श्रीभगवानुवाच
नावध्योऽस्ति धरापृष्ठे कश्चिद्देही च दानव ॥
तस्मादेकं परित्यक्त्वा शेषान्प्रार्थय दैत्यप
॥३३॥ततः स सुचिरं ध्यात्वा प्रोवाच वृषभध्वजम् ॥
स्त्रियमेकां परित्यक्त्वा नान्येभ्यस्तु वधो मम
॥३४॥तथात्र मामके तीर्थे यः कश्चिच्छ्रद्धया नरः ॥
करोति स्नानमव्यग्रस्त्वां पश्यति ततः परम्
॥३५॥तस्य स्यात्त्वत्प्रसादेन संसिद्धिः सार्वकामिकी ॥
सर्वोपद्रवनाशश्च तेजोवृद्धिश्च शंकर
॥३६॥श्रीभगवानुवाच
मार्गशुक्लचतुर्दश्यां तीर्थे स्नात्वाऽत्र तावके ॥
विलोकयिष्यति प्रीत्या मम लिंगं ततः परम्
॥३७॥भूतप्रेतपिशाचादि संभवास्तस्य तत्क्षणात् ।
दोषा नाशं प्रयास्यंति तथा रोगा ज्वरादयः
॥३८॥एवमुक्त्वाऽथ देवेशस्ततश्चादर्शनं गतः ॥
महिषोऽपि निजं स्थानं प्रजगाम ततः परम्
॥३९॥स गत्वा दानवान्सर्वान्समाहूय ततः परम् ॥
प्रोवाचामर्षसंयुक्तः सभामध्ये व्यवस्थितः
॥४०॥पिता मम पितृव्यश्च ये चान्ये मम पूर्वजाः ॥
दानवा निहता देवैर्वासुदेवपुरोगमैः
॥४१॥तस्मात्तान्नाशयिष्यामि देवानपि महाहवे ॥
अहं त्रैलोक्यराज्यं हि ग्रहीष्यामि ततः परम्
॥४२॥अथ ते दानवाः प्रोचुर्युक्तमेतदनुत्तमम् ॥
अस्मदीयमिदं राज्यं यच्छक्रः कुरुते दिवि
॥४३॥तस्मादद्यैव गत्वाऽऽशु हत्वेन्द्रं रणमूर्धनि ॥
दिव्यान्भोगान्प्रभुञ्जानाः स्थास्यामः सुखिनो दिवि
॥४४॥एवं ते दानवाः सर्वे कृत्वा मंत्रविनिश्चयम् ॥
मेरुशृंगं ततो जग्मुः सभृत्यबलवाहनः
॥४५॥अथ शक्रादयो देवा दृष्ट्वा तद्दानवोद्भवम् ॥
अकस्मादेव संप्राप्तं बलं शस्त्रास्त्रसंयुतम् ॥
युद्धार्थं स्वपुरद्वारि निर्ययुस्तदनंतरम्
॥४६॥आदित्या वसवो रुद्रा नासत्यौ च भिषग्वरौ।
विश्वेदेवास्तथा साध्याः सिद्धा विद्याधराश्च ये
॥४७॥ततः समभवद्युद्धं देवानां सह दानवैः।
मिथः प्रभर्त्स्यमानानां मृत्युं कृत्वा निवर्तनम्
॥४८॥एवं समभवद्युद्धं यावद्वर्षत्रयं दिवि।
रक्तनद्योतिविपुलास्तत्रातीव प्रसुस्रुवुः
॥४९॥अन्यस्मिन्दिवसे शक्रं दृष्टैवारावणसंस्थितम्।
तं शुक्लेनातपत्रेण ध्रियमाणेन मूर्धनि।
देवैः परिवृतं दिव्यशस्त्रपाणिभिरेव च
॥५०॥ततः कोपपरीतात्मा महिषो दानवाधिपः।
महावेगं समासाद्य तस्यैवाभिमुखो ययौ
॥५१॥शृंगाभ्यां च सुतीक्ष्णाभ्यां ततश्चैरावणं गजम्।
विव्याध हृदये सोऽथ चक्रे रावं सुदारुणम्
॥५२॥ततः पराङ्मुखो भूत्वा पलायनपरायणः।
अभिदुद्राव वेगेन पुरी यत्रामरावती
॥५३॥अंकुशोत्थप्रहारैश्च क्षतकुंभोऽपि भूरिशः।
महामात्रनिरुद्धोऽपि न स तस्थौ कथंचन
॥५४॥अथाब्रवीत्सहस्राक्षो महिषं वीक्ष्य गर्वितम्।
गर्जमानांस्तथा दैत्यान्क्ष्वेडनास्फोटनादिभिः
॥५५॥मा दैत्य प्रविजानीहि यन्नष्टस्त्रिदशाधिपः।
एष नागो रणं हित्वा विवशो याति मे बलात्
॥५६॥तस्मात्तिष्ठ मुहूर्तं त्वं यावदास्थाय सद्रथम्।
नाशयामि च ते दर्पं निहत्य निशितैः शरैः
॥५७॥एतस्मिन्नंतरे प्राप्तो मातलिः शक्रसारथिः।
सहस्रैदर्शभिर्युक्तं वाजिनां वातरंहसाम्
॥५८॥ते ऽथ मातलिना अश्वाः प्रतोदेन समाहताः।
उत्पतंत इवाकाशे सत्वं संप्रदुद्रुवुः
॥५९॥अथ चापं समारोप्य सत्वरं पाकशासनः।
शरैराशीविषाकारैश्छादयामास दानवम्
॥६०॥ततः स वेगमास्थाय भूयोऽपि क्रोधमूर्छितः।
अभिदुद्राव वेगेन स यत्र त्रिदशाधिपः
॥६१॥ततस्तान्सुहयांस्तस्य शृंगाभ्यां वेगमाश्रितः।
दारयामास संक्रुद्ध आविध्याविध्य चासकृत्
॥६२॥ततस्ते वाजिनस्त्रस्ताः संजग्मुः क्षतवक्षसः।
रक्तप्लावितसर्वांगा मार्गमैरावणस्य च
॥६३॥ततः शक्ररथं दृष्ट्वा विमुखं सुरसत्तमाः।
सर्वे प्रदुद्रुवुर्भीतास्तस्य मार्गमुपाश्रिताः
॥६४॥ततस्तु दानवाः सर्वे भग्नान्दृष्ट्वा रणे सुरान्।
शस्त्रवृष्टिं प्रमुंचंतो गर्जमाना यथा घनाः
॥६५॥एतस्मिन्नंतरे प्राप्ता रजनी तमसावृता।
न किंचित्तत्र संयाति कस्यचिद्दृष्टिगोचरे
॥६६॥ततस्तु दानवाः सर्वे युद्धान्निर्वृत्य सर्वतः।
मेरुशृंगं समाश्रित्य रम्यं वासं प्रचक्रमुः
॥६७॥विजयेन समायुक्तास्तुष्टिं च परमां गताः।
कथाश्चक्रुश्च युद्धोत्था युद्धं तस्य यथा भवत्
॥६८॥देवाश्चापि हतोत्साहाः प्रहारैः क्षतविक्षताः।
मंत्रं चक्रुर्मिथो भूत्वा बृहस्पतिपुरःसराः
॥६९॥सांप्रतं दानवैः सैन्यमस्माकं विमुखं कृतम् ॥
विध्वस्तं सुनिरुत्साहमक्षमं युद्धकर्मणि
॥७०॥तस्मात्त्यक्त्वा प्रवेक्ष्यामः पुरीं चैवामरावतीम् ॥
ब्रह्मणः सदनं यत्र न स्याद्दानवजं भयम्
॥७॥एवं ते निश्चयं कृत्वा ब्रह्मलोकं ततो गताः ॥
शून्यां शक्रपुरीं कृत्वा सर्वे देवाः सवासवाः
॥७२॥ततः प्रातः समुत्थाय दानवास्ते प्रहर्षिताः ॥
शून्यां शक्रपुरीं दृष्ट्वा विविशुस्तदनंतरम्
॥७३॥अथ शाक्रे पदे दैत्यं महिषं संनिधाय च ॥
प्रणेमुस्तुष्टिसंयुक्ताश्चक्रुश्चैव महोत्सवम्
॥७४॥जगृहुर्यज्ञभागांश्च सर्वेषां त्रिदिवौकसाम् ॥
देवस्थानेषु सर्वेषु देवताऽभिमताश्च ये
॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये देवसेनापराजयवर्णनंनामैकोनविंशत्युत्तरशततमोऽध्यायः ॥ ११९ ॥