मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९

3
नागरखण्डः · 19

एतस्मिन्नंतरे प्राप्तास्तस्य भूपस्य सेवकाः

सूत उवाच

एतस्मिन्नंतरे प्राप्तास्तस्य भूपस्य सेवकाः ॥

केचिच्च दैवयो गेन श्वापदैरर्धभक्षिताः

॥१॥

क्षुत्पिपासातुरा दीना दुःखेन महताऽन्विताः ॥

पदपद्धतिमार्गेण येन यातः स भूपतिः

॥२॥

ते दृष्ट्वा पार्थिवं तत्र दिष्ट्यादिष्ट्येति सादरम् ॥

ब्रुवंतः पादयोस्तस्य पतिता हर्षसंयुताः

॥३॥

ततस्तस्य नरेन्द्रस्य व्यसनं सैन्यसंभवम् ॥

प्रोचुश्चैव यथादृष्टम नुभूतं यथाश्रुतम्

॥४॥

अथ ते तापसाः सर्वे स च राजा ससेवकः ॥

प्रसुप्ताः पादपस्याधः पर्णान्यास्तीर्यभूतले

॥५॥

ततस्तेषां प्रसुप्तानां सर्वेषां तत्र कानने ॥

अतिक्रांता सुखेनैव रजनी सा महात्मनाम्

॥६॥

ततः स प्रातरुत्थाय कृतपूर्वाह्णिकक्रियः ॥

तं मुनिं प्रणिपत्योच्चैरनुज्ञाप्य मुहु र्मुहुः

॥७॥

निजैस्तैः सेवकैः सार्धं प्रस्थितः स्वपुरीं प्रति ॥

माहिष्मतीं समुद्दिश्य दृष्ट्वा मार्गे शनैःशनैः

॥८॥

ततो निजगृहं प्राप्य कञ्चि त्कालं महीपतिः ॥

विश्रम्य प्रययौ पश्चात्तूर्णं पुण्यं गयाशिरः

॥९॥

तच्च कालेन संप्राप्य स्नात्वा धौतांबरः शुचिः ॥

मांसादाय ददौ श्राद्धं श्रद्धापूतेन चेतसा

॥१०॥

अथाऽसौ पृथिवीपालः स्वप्नांते च ददर्श तम् ॥

दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥

विमानवरमारूढं स्तूयमानं च किंनरैः

॥११॥

मांसाद उवाच

प्रसादात्तव भूपाल मुक्तोऽहं प्रेतयोनितः ॥

स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवा लयम्

॥१२॥

ततः स प्रातरुत्थाय हर्षाविष्टो महीपतिः ॥

विदैवतं समुद्दिश्य चक्रे श्राद्धं यथोचितम् ॥

१३ सोऽपि तेनैव रूपेण तस्य संदर्शनं गतः ॥

स्वप्नांऽते भूमिपालस्य तद्वच्चोक्त्वा दिवं गतः

॥१४॥

ततः प्रातस्तृतीयेऽह्नि कृतघ्नस्य महीपतिः ॥

चक्रे श्राद्धं यथापूर्वं श्रद्धापूतेन चेतसा

॥१५॥

ततः सोऽपि समायातस्तस्य स्वप्ने महीपतेः ॥

तेनैव प्रेतरूपेण दुःखेन महता वृतः

॥१६॥

कृतघ्न उवाच

न मे गतिर्महाराज संजाता पापकर्मिणः ॥

तडागवित्तचौरस्य कृतघ्नस्य तथैव च

॥१७॥

तस्मात्संजायते मुक्तिर्यथा मे पार्थिवोत्तम ॥

तथैव त्वं कुरुष्याऽद्य सत्यवाक्यपरो भव

॥१८॥

सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥

सत्यमेव परं ज्ञानं सत्यमेव परं श्रुतम्

॥१९॥

सत्येन वायु र्वहति सत्येन तपते रविः ॥

सागरः सत्यवाक्येन मर्यादां न विलंघयेत्

॥२०॥

तीर्थसेवा तपो दानं स्वाध्यायो गुरुसेवनम् ॥

सर्वं सत्यविहीनस्य व्यर्थं संजायते यतः

॥२१॥

सर्वे धर्मा धृताः पूर्वमेकत्राऽन्यत्र चाप्यृतम् ॥

तुलायां कौतुकाद्देवैर्जातं तत्र ऋतं गुरु

॥२२॥

तस्मात्सत्यं पुरस्कृत्य मां तारय महामते ॥

एतत्ते परमं श्रेयस्तपसोऽपि भविष्यति

॥२३॥

विदूरथ उवाच

कथं ते जायते मुक्तिर्वद मे प्रेत सत्वरम् ॥

करोमि येन तत्कर्म यद्यपि स्यात्सुदुष्करम् ः

॥२४॥

प्रेत उवाच

चमत्कारपुरे भूप श्रीक्षेत्रे हाटकेश्वरे ॥

आस्ते पांसुभिराच्छन्नं कलेर्भीतं गयाशिरः

॥२५॥

अधस्तात्प्लक्षवृक्षस्य दर्भस्थानैः समंततः ॥

कालशाकैस्तथानेकैस्तिलैश्चारण्यसंभवैः

॥२६॥

तत्र गत्वा तिलैस्तैस्त्वं तैः शाकैस्तैः कुशैस्तथा ॥

श्राद्धं देहि द्रुतं येन मुक्तिः संजायते मम

॥२७॥

तस्य तद्वचनं श्रुत्वा स दीनस्य दयान्वितः ॥

जगाम तत्र यत्राऽऽस्ते स वृक्षः प्लक्षसंज्ञकः

॥२८॥

दृष्ट्वा शाकांस्तिलांस्तांस्तु दर्भांस्तेन यथोदितान् ॥

अखनत्तत्र देशे च जलार्थे लघु कूपिकाम्

॥२९॥

ततः कृतघ्नमुद्दिश्य श्राद्धं चक्रे यथोदितम् ॥

आनीय ब्राह्मणाञ्छ्रेष्ठान्वेदवेदांगपारगान् ॥

कृतमात्रे ततः श्राद्धे दिव्य रूपधरः पुमान् ॥

विमानवरमारूढो विदूरथमथाऽब्रवीत्

॥३१॥

मुक्तोऽहं त्वत्प्रसादाच्च प्रेतत्वाद्दारुणाद्विभो ॥

स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदशालयम्

॥३२॥

सूत उवाच

ततः प्रभृति सा तत्र कूपिका ख्यातिमागता ॥

पितॄणां पुष्टिदा नित्यं गयाशीर्षसमुद्भवा

॥३३॥

प्रेतपक्षस्य दर्शायां यस्तस्यां श्राद्धमाचरेत् ॥

कालशाकेन विप्रेंद्रास्तथारण्योद्भवैस्तिलैः

॥३४॥

कृंतितैश्च तथा दर्भैः सम्यक्छ्रद्धासमन्वितः ।

स प्राप्नोति फलं कृत्स्नं कृतघ्नप्रेततीर्थतः

॥३५॥

अग्निष्वात्ताः पितृगणास्तथा बर्हिषदश्च ये ॥

तत्र संनिहिता नित्यमाज्यपाः सोमपास्तथा

॥३६॥

तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥

काले वा यदि वाऽकाले पितॄणां तुष्टये सदा

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांसादादिप्रेतत्रयस्य विदूरथकृतश्राद्धद्वारा मुक्तिदाने पितृकूपिकातीर्थमा हात्म्यवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥