मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०१

3
नागरखण्डः · 101

एवं तां रजनीं तत्र स उषित्वा रघूत्तमः

सूत उवाच

एवं तां रजनीं तत्र स उषित्वा रघूत्तमः ॥

उपास्यमानः सर्वैस्तैः सद्भक्त्या वानरोत्तमैः

॥१॥

ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥

कृत्वा प्राभातिकं कर्म समाहूयाथ पुष्पकम्

॥२॥

सुग्रीवेण सुषेणेन तारेण कुमुदेन च ॥

अंगदेनाथ कुण्डेन वायुपुत्रेण धीमता

॥३॥

गवाक्षेण नलेनेव तथा जांबवतापि च ॥

दशभिर्वानरैः सार्धं समारूढः स पुष्पके

॥४॥

ततः संप्रस्थितः काले लंकामुद्दिश्य राघवः ॥

मनोजवेन तेनैव विमानेन सुवर्चसा

॥५॥

संप्राप्तस्तत्क्षणादेव लंकाख्यां च महापुरीम् ॥

वीक्षयंस्तान्प्रदेशांश्च यत्र युद्धं पुराऽभवत्

॥६॥

ततो विभीषणो दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् ॥

रामं विज्ञाय संप्राप्तं प्रहृष्टः सम्मुखो ययौ ॥

मंत्रिभिः सकलैः सार्धं तथा भृत्यैः सुतैरपि

॥७॥

अथ दृष्ट्वा सुदूरात्तं रामदेवं विभीषणः ॥

पपात दण्डवद्भूमौ जयशब्दमुदीरयन्

॥८॥

तथागतं परिष्वज्य सादरं स विभीषणम् ॥

तेनैव सहितः पश्चाल्लंकां तां प्रविवेश ह

॥९॥

विभीषणगृहं प्राप्य तत्र सिंहासने शुभे ॥

निविष्टो वानरैस्तैश्च समन्तात्परिवारितः

॥१०॥

ततो निवेदयामास तस्मै सर्वं विभीषणः ॥

राज्यं पुत्रकलत्रादि यच्चान्यदपि किंचन

॥११॥

ततः प्रोवाच विनयात्कृतांजलिपुटः स्थितः ॥

आदेशो दीयतां देव ब्रूहि कृत्यं करोमि किम्

॥१२॥

अकस्मादेव संप्राप्तः किमर्थं वद मे प्रभो ॥

किं नायातः स सौमित्रिस्त्वया सार्ध च जानकी

॥३॥

सूत उवाच

निवेद्य राघवस्तस्मै सर्वं गद्गदया गिरा ॥

वाष्पपूरप्रतिच्छन्नवक्त्रो भूयो विनिःश्वसन्

॥१४॥

ततः प्रोवाच सत्यार्थं विभीषणकृते हितम् ॥

तं चापि शोकसंतप्तं संबोध्य रघुनंदनः

॥१५॥

अहं राज्यं परित्यज्य सांप्रतं राक्षसोत्तम ॥

यास्यामि त्रिदिवं तूर्णं लक्ष्मणो यत्र संस्थितः

॥१६॥

न तेन रहितो मर्त्ये मुहूर्तमपि चोत्सहे ॥

स्थातुं राक्षसशार्दूल बांधवेन महात्मना

॥१७॥

अहं शिक्षापणार्थाय तव प्राप्तो विभीषण ॥

तस्मादव्यग्रचित्तेन संशृणुष्व कुरुष्व च

॥१८॥

एषा राज्योद्भवा लक्ष्मीर्मदं संजनयेन्नृणाम् ॥

मद्यवत्स्वल्पबुद्धीनां तस्मात्कार्यो न स त्वया

॥१९॥

शक्राद्या अमराः सर्वे त्वया पूज्याः सदैव हि ॥

मान्याश्च येन ते राज्यं जायते शाश्वतं सदा

॥२०॥

मम सत्यं भवेद्वाक्य मेतस्मादहमागतः ॥

प्राप्तराज्यप्रतिष्ठोऽपि तव भ्राता महाबलः

॥२१॥

विनाशं सहसा प्राप्तस्तस्मान्मान्याः सुराः सदा ॥

यदि कश्चित्समायाति मानुषोऽत्र कथंचन ॥

मत्काय एव द्रष्टव्यः सर्वैरेव निशाचरैः

॥२२॥

तथा निशाचराः सर्वे त्वया वार्या विभीषण ॥

मम सेतुं समुल्लंघ्य न गंतव्यं धरातले

॥२३॥

विभीषण उवाच

एवं विभो करिष्यामि तवादेशमसंशयम् ॥

परं त्वया परित्यक्ते मर्त्ये मे जीवितं व्रजेत्

॥२४॥

तस्मान्मामपि तत्रैव त्वं विभो नेतुमर्हसि ॥

आत्मना सह यत्रास्ते प्राग्गतो लक्ष्मणस्तव

॥२५॥

श्रीराम उवाच

मया तेऽक्षयमादिष्टं राज्यं राक्षससत्तम ॥

तस्मान्नार्हसि मां कर्तुं मिथ्याचारं कथंचन

॥२६॥

अहमस्मिन्स्वके सेतौ शंकरत्रितयं शुभम् ॥

स्थापयिष्यामि कीर्त्यर्थं तत्पूज्यं भवता सदा ॥

भक्तिमान्प्रतिसंधाय यावच्चंद्रार्कतारकम्

॥२७॥

एवमुक्त्वा रघुश्रेष्ठो राक्षसेन्द्रं विभीषणम् ॥

दशरात्रं तत्र तस्थौ लंकायां वानरैः सह

॥२८॥

कुर्वन्युद्धकथाश्चित्रा याः कृताः पूर्वमेव हि ॥

पश्यन्युद्धस्य सर्वाणि स्थानानि विविधानि च

॥२९॥

शंसमानः प्रवीरांस्तान्राक्षसान्बलवत्तरान् ॥

कुम्भकर्णेन्द्रजित्पूर्वान्संख्ये चाभिमुखागतान्

॥३०॥

ततश्चैकादशे प्राप्ते दिवसे रघुनंदनः ॥

पुष्पकं तत्समारुह्य प्रस्थितः स्वपुरीं प्रति

॥३१॥

वानरैस्तैः समोपेतो विभीषणपुरःसरः ॥

ततः संस्थापयामास सेतुप्रांते महेश्वरम् ॥

३२ मध्ये चैव तथादौ च श्रद्धापूतेन चेतसा ॥

रामेश्वरत्रयं राम एवं तत्र विधाय सः

॥३३॥

सेतुबंधं तथासाद्य प्रस्थितः स्वगृहं प्रति ॥

तावद्विभीषणेनोक्तः प्रणिपत्य मुहुर्मुहुः

॥३४॥

विभीषण उवाच

अनेन सेतुमार्गेण रामेश्वरदिदृक्षया ॥

मानवा आगमिष्यंति कौतुकाच्छ्रद्धयाविताः

॥३५॥

राक्षसानां महाराज जातिः क्रूरतमा मता ॥

दृष्ट्वा मानुषमायांतं मांसस्येच्छा प्रजायते

॥३६॥

यदा कश्चिज्जनं कश्चिद्राक्षसो भक्षयिष्यति ।

आज्ञाभंगो ध्रुवं भावी मम भक्तिरतस्य च

॥३७॥

भविष्यंति कलौ काले दरिद्रा नृपमानवाः ॥

तेऽत्र स्वर्णस्य लोभेन देवतादर्शनाय च

॥३८॥

नित्यं चैवागमिष्यन्ति त्यक्त्वा रक्षःकृतं भयम् ।

तेषां यदि वधं कश्चिद्राक्षसात्प्रापयिष्यति

॥३९॥

भविष्यति च मे दोषः प्रभुद्रोहोद्भवः प्रभो ॥

तस्मात्कंचिदुपायं त्वं चिन्तयस्व यथा मम ।

आज्ञाभंगकृतं पापं जायते न गुरो क्वचित्

॥४०॥

तस्य तद्वचनं श्रुत्वा ततः स रघुसत्तमः ॥

बाढमित्येव चोक्त्वाथ चापं सज्जीचकार सः

॥४१॥

ततस्तं कीर्तिरूपं च मध्यदेशे रघूत्तमः ॥

अच्छिनन्निशितैर्बाणैर्दशयोजनविस्तृतम्

॥४२॥

तेन संस्थापितो यत्र शिखरे शंकरः स्वयम् ॥

शिखरं तत्सलिंगं च पतितं वारिधेर्जले

॥४३॥

एवं मार्गमगम्यं तं कृत्वा सेतुसमुद्भवम् ॥

वानरै राक्षसैः सार्धं ततः संप्रस्थितो गृहम्

॥४४॥

इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सेतुमध्ये श्रीरामकृतरामेश्वरप्रतिष्ठावर्णनंनामैको त्तरशततमोऽध्यायः ॥ १०१ ॥