ततस्तु पंचमे चाह्नि संजाते ते द्विजोत्तमाः
सूत उवाच
ततस्तु पंचमे चाह्नि संजाते ते द्विजोत्तमाः ॥
श्वेतधौतांबराः सर्वे सुस्नाताः शुचयः स्थिताः
॥१॥चक्रुः सर्वाणि कर्माणि पुलस्त्येन प्रबोधिताः ॥
सदोमध्ये गताश्चैव ऋत्विग्वरणपूर्वकाः
॥२॥अध्वर्युणा समादिष्टान्प्रैषान्प्रोचुर्यथा क्रमम् ॥
होमार्थं दीप्तवह्नौ च ऋत्विग्भिः सुसमाहितैः
॥३॥एतस्मिन्नेव काले तु ह्युद्गात्रा कर्म योजितम् ॥
शंकुभिः क्रियते यच्च साम गीतिप्रसूचितम्
॥४॥सप्तावर्तं द्विजश्रेष्ठाः सदोमध्यगतेन च ॥
यत्राऽऽगच्छंति ते सर्वे देवा यज्ञांशलालसाः
॥५॥सोमपानकृते चैव विशेषेण मुदान्विताः ॥
प्रारब्धे सोमभक्ष्येऽथ गीते चोद्गातृनिर्मिते
॥६॥आगता कन्यका चैका सामगीतिसमुत्सुका ॥
शंकुकर्णनजं चित्रं वांछमाना विचक्षणा
॥७॥छन्दोगस्य सुता श्रेष्ठा देवशर्माभिधस्य च ॥
औदुम्बरीति नाम्ना सा सामश्रवणलालसा
॥८॥उद्गातारं च सदसि वचनं व्याजहार सा ॥
यथायथा प्रवर्तंते शंकवः सामसूचिताः
॥९॥दक्षिणाग्नौ द्रुतं गत्वा कुरु होमं यथोदितम् ॥
येन त्वं मुच्यसे पापान्न चेद्व्यर्थो भविष्यति
॥१०॥तस्यास्तद्वचनं श्रुत्वा साभिप्रायं द्विजोत्तमाः ॥
ततः स चिन्तयामास यावत्तद्व्याहृतं वचः
॥११॥ततः पप्रच्छ तां कन्यामुद्गाता विस्मयान्वितः ॥
कुतस्त्वमसि चाऽऽयाता सुता कस्य वदस्व मे
॥१२॥औदुम्बर्युवाच
पर्वतस्य सुता चास्मि विख्याता देवशर्मणः ॥
जातिस्मरा महाभाग प्राप्ता गन्धर्वलोकतः
॥१३॥उद्गातोवाच
गन्धर्वस्य सुता कस्य केन शप्तासि पुत्रिके ॥
कदा ते भविता मोक्षो मानुषत्वस्य कीर्त्तय
॥१४॥औदुम्बर्युवाच
नारदः पर्वतश्चैव गन्धर्वौ विदितौ जनैः ॥
पर्वतस्य सुता चास्मि शप्ताहं नारदेन हि
॥१५॥विपंचीं वादयन्स्वैरं दृष्टः स मुनिसत्तमः ॥
अजानंत्या च तानानां विशेषं मूर्च्छनोद्भवम् ॥
मया स हसितोऽतीव तानभंगतया गतः
॥१६॥ततः स कुपितो मह्यं ददौ शापं द्विजोत्तमः ॥
मिथ्यापहसितो यस्मादहं शापमतोऽर्हसि
॥१७॥मानुषाणामयं धर्मस्तस्मात्त्वं मानुषी भव ॥
मया प्रसादितः सोऽथ पित्रा सार्धं मुनीश्वरः
॥१८॥शापांतं कुरु मे नाथ बालिशाया विशेषतः ॥
मानुषत्वं च मे भूयात्सुस्थाने सुकुले विभो
॥१९॥सुस्थाने चांतकालश्च ब्राह्मणस्य निवेशने ॥
ततोऽहं तेन संप्रोक्ता चमत्कारपुरें शुभे
॥२०॥देवशर्मा तु विप्रेंद्रः कुलीनः सर्वशास्त्रवित् ॥
तस्य तु ब्राह्मणी नाम्ना सत्यभामेति विश्रुता
॥२१॥तस्या गर्भं समासाद्य मानुषत्वं समाचर ॥
यदा पैतामहो यज्ञस्तस्मिन्क्षेत्रे भविष्यति
॥२२॥उद्गातुः समये तस्य शंकोश्चैव विपर्यये ॥
तदा तु स त्वया वाच्यो ह्यस्थाने शंकुराहितः ॥
सर्वदेवसभा मध्ये तदा मोक्षो भविष्यति
॥२३॥इमां मे दैविकीं कांतां तनुं पश्य द्विजोत्तम ॥
विमानं पश्य चायातं पित्रा संप्रेषितं मम
॥२४॥उद्गातोवाच
तुष्टोऽहं ते विशालाक्षि यज्ञस्याऽविघ्नकारके ॥
न वृथा दर्शनं मे स्याद्विशेषाद्देवसंभवे ॥
वरं वरय मत्तस्त्वं तस्मादौदुम्बरीप्सितम्
॥२५॥औदुम्बर्युवाच
यदि मे यच्छसि वरं सन्तुष्टो ब्राह्मणोत्तम ॥
सर्वेषामेव देवानां पुरतश्च ददस्व तम्
॥२६॥अद्यप्रभृति यः कश्चिद्यज्ञं भूमौ समाचरेत् ॥
तस्मिन्सदसि मध्यस्था मूर्तिः कार्या यथा मम
॥२७॥ततो मत्पुरतश्चैव कार्यं शंकुप्रचारणम् ॥
स्वर्गस्थाया भवेत्तुष्टिर्मम तेन कृतेन च
॥२८॥सूत उवाच
तस्यास्तद्वचनं श्रुत्वा उद्गाता तामथाब्रवीत् ॥
अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति
॥२९॥सदोमध्ये तु तां स्थाप्य पूजयित्वा विलेपनैः ॥
वस्त्रैराभरणैश्चैव गन्धपुष्पानुलेपनैः
॥३०॥ततः शंकुप्रचारं तु करिष्यति तदग्रतः ॥
एतद्वाक्यं मया प्रोक्तं सर्वदेवसमा गमे
॥३१॥नान्यथा भावि भद्रं ते त्वं संतोषं परं व्रज ॥
त्वया विरहितं भद्रे सदःकर्म करिष्यति
॥३२॥वृथा भावि च तत्सर्वं यथा भस्महुतं तथा ॥
या नारी सदसो मध्ये फलैस्त्वां पूजयिष्यति
॥३३॥फलेफले कोटिगुणं तस्याः श्रेयो भविष्यति ॥
सफलाश्च दिशः सर्वा भविष्यंति न संशयः
॥३४॥वस्त्रमाभरणं या च पुष्पधूपादिकं तथा ॥
तुभ्यं दास्यति तत्सर्वं तस्याः कोटिगुणं फलम्
॥३५॥परं तावत्प्रतीक्षस्व मा विमानं समारुह ॥
देवि केनापि कार्येण तव पूजां समाचरे
॥३६॥देवा ऊचुः
युक्तं त्वया द्विजश्रेष्ठ वचनं समुदाहृतम् ॥
अस्माकमपि वाक्येन सत्यमेतद्भविष्यति
॥३७॥सूत उवाच
उद्गात्रा सैतमुक्ता च तिष्ठतिष्ठेत्यथोदिता ॥
देवी वरविमानेन गृहीता सांऽबरे स्थिता
॥३८॥एतस्मिन्नेव काले तु देवशर्मसुताऽभवत् ॥
देवी नगरमध्यस्थां सर्वा नार्यो द्विजोत्तमाः
॥३९॥कुतूहलात्समायातास्तस्या दर्शनलालसाः ॥
काचित्फलानि चादाय काचिद्वस्त्राणि भक्तितः ॥
यथार्हं पूजिता ताभिः सर्वाभिश्च द्विजोत्तमाः
॥४०॥श्रुत्वा स्वदुहितुः सोऽपि देवशर्मा समाययौ ॥
सपत्नीकः प्रहृष्टात्मा विस्मयोत्फुल्ललोचनः
॥४१॥सोऽपि यावत्प्रणामं च तस्याश्चक्रे द्विजोत्तमाः ॥
सपत्नीकस्तदा प्रोक्त्वा निषिद्धस्तु तथा तया
॥४२॥ताततात नमस्कारं मा मे कुरु सहांबया ॥
प्राप्ता स्वर्गगतिर्नाम मम नाशं प्रयास्यति
॥४३॥तिष्ठात्रैव सपत्नीको यावदद्य दिनं विभो ॥
त्वामादाय सपत्नीकं यास्यामि त्रिदिवालयम् ॥
अनेनैव शरीरेण याचयित्वा सुरोत्तमान्
॥४४॥ततस्तौ हर्षितौ तत्र पितरौ हि व्यवस्थितौ ॥
प्रेक्षमाणौ सुतायास्तां पूजां जनविनिर्मिताम् ॥
मन्यमानौ तदात्मानमधिकं सर्व देहिनाम्
॥४५॥तस्य ये स्वजनाः केचित्सर्वे तेऽपि द्विजोत्तमाः ॥
शंसमाना सुतां तां तु तत्समीपं व्यवस्थिताः
॥४६॥एतस्मिन्नंतरे प्राप्तो भृगुर्यत्र पितामहः ॥
निष्क्रम्य सदसस्तस्मात्कृताञ्जलिरुवाच तम्
॥४७॥उद्गात्रा देव चात्मीयो मार्गः श्रुतिविवर्जितः ॥
विहितः कन्यकां धृत्वा सदोमध्ये सुरेश्वर
॥४८॥देवत्वं जल्पितं तस्या नागर्याः सुरसंनिधौ ॥
सोमपानं तथा कुर्मो वयं तत्र तया सह
॥४९॥ततो विधिस्तमानीय पप्रच्छ द्विजसत्तमाः ॥
काऽसौ कन्या किमर्थं च सदोमध्ये धृता त्वया
॥५॥सोऽब्रवीच्छापभ्रष्टेयं गन्धर्वी ब्राह्मणालये ॥
अवतीर्णा विधेर्यज्ञे मुक्तिरस्याः प्रकीर्तिता
॥५१॥नारदेन पुरा देव कोपेन च तथा मुदा ॥
तस्या देव वरो दत्तो मया तुष्टेन सांप्रतम्
॥५२॥शंकुप्रचारं नो बाह्यं तव संपत्स्यते क्वचित् ॥
देवैः सर्वैः समानीता प्रतिष्ठां प्रपितामह
॥५३॥एतस्मिन्नंतरे प्राप्ताः कैलासाच्च द्विजोत्तमाः ॥
श्रुत्वा चौदुंबरीजातं माहात्म्यं धरणीतले
॥५४॥यज्ञे पैतामहे चैव हाटकेश्वरसंभवे ॥
क्षेत्रे पुण्यतमे तत्र पूजार्थं द्विजसत्तमाः
॥५५॥हृष्टा मातृगणा ये च अष्टषष्टिप्रमाणतः ॥
पूज्यंते ये च गन्धर्वैः सिद्धैः साध्यैर्मरुद्गणैः
॥५६॥पृथक्पृथग्विधै रूपैर्लोकविस्मयकारकैः ॥
नृत्यंत्यश्च हसंत्यश्च गायंत्यश्च तथापराः
॥५७॥तासां कोलाहलं श्रुत्वा ब्रह्मविष्णुपुरःसराः ॥
विस्मयं परमं प्राप्ताः सर्वे देवाः सवासवाः
॥५८॥किमेतदिति जल्पंतः प्रोत्थिता यज्ञमंडपात् ॥
एतस्मिन्नंतरे प्राप्ताः सर्वास्ता यत्र पद्मजः
॥५९॥प्रणम्य शिरसा हृष्टास्ततः प्रोचुस्तु सादरम् ॥
वयमेवं समायाताः श्रुत्वा ते यज्ञमुत्तमम्
॥६०॥आमंत्रिताश्च देवेश वायुना जगदायुना ॥
यज्ञभागा न चास्माकं विद्यंते यज्ञकर्मणि
॥६१॥एतान्येव दिनानीह नायातास्तेन पद्मज ॥
औदुंबरीं वयं श्रुत्वा ह्यपूर्वां तेन संगताः
॥६२॥सा दृष्ट्वा पूजिताऽस्माभिः प्रणिपातपुरःसरम् ॥
पर्वतस्य सुता यस्माद्गन्धर्वस्य महात्मनः
॥६३॥सर्वकामप्रदा स्त्रीणां सर्वदेवैः प्रतिष्ठिता ॥
स्थानं दर्शय चास्माकं त्वं देव प्रपितामह
॥६४॥अष्टषष्टिप्रमाणश्च गणोऽस्माकं व्यवस्थितः ॥
तच्छ्रुत्वा पद्मजो ज्ञात्वा संकीर्णं यतमंडपम् ॥
व्याप्तं देवगणैः सर्वैस्त्रयस्त्रिंशत्प्रमाणकैः
॥६५॥ततो मध्यगमाहूय स तदा नगरोद्भवम् ॥
श्रुताध्ययनसंपन्नं वृहस्पतिमिवापरम् ॥
अब्रवीच्छ्लक्ष्णया वाचा त्यक्ता मौनं पितामहः
॥६६॥त्वं गत्वा मम वाक्येन विप्रान्नागरसंभवान् ॥
प्रब्रूहि गोत्रमुख्यांश्च ह्यष्टषष्टिप्रमाणतः
॥६७॥एते मातृगणाः प्राप्ता अष्टषष्टिप्रमाणकाः ॥
एकैक गोत्रमुख्याश्च एकैकस्य प्रमाणतः
॥६८॥स्वेस्वे भूमिविभागे च स्थानं यच्छतु सांप्रतम् ॥
एतत्साहाय्यकं कार्यं भवद्भिर्मम नागराः ॥
प्रसादं प्रचुरं कृत्वा येन तुष्टिं प्रयांति च
॥६९॥ततः स सत्वरं गत्वा तान्समाहूय नागरान् ॥
प्रोवाच विनयोपेतः प्रणिपत्य ततः परम्
॥७०॥तच्छ्रुत्वा नागराः सर्वे संतोषं परमं गताः ॥
एकैकस्य गणस्यैव ददुः स्थानं निजं तदा
॥७१॥ततस्ताः मातरः सर्वाः प्रणिपत्य पितामहम् ॥
तदनन्तरमेवाथ गायत्रीं भक्तिपूर्वकम्
॥७२॥विप्रसंसूचिते स्थाने सर्वाश्चैव व्यवस्थिताः ॥
पूजितास्तर्पिताश्चैव बलिभिर्विविधैरपि
॥७३॥ततो गायन्ति ता हृष्टा नृत्यंति च हसंति च ॥
तर्पिता ब्राह्मणेन्द्रैश्च प्रोचुश्च तदनन्तरम्
॥७४॥न यास्यामो परं स्थानं स्थास्यामोत्रैव सर्वदा ॥
ईदृशा यत्र विप्रेन्द्राः सर्वे भक्तिसमन्विताः
॥७५॥ईदृशं च महाक्षेत्रं हाटकेश्वरसंभवम् ॥
एतस्मिन्नेव काले तु सावित्री तत्र संस्थिता
॥७६॥प्रणिपत्य द्विजैः सर्वैर्गच्छमाना निवारिता ॥
मा देवयजनं गच्छ सावित्रि पतिवल्लभे
॥७७॥ब्रह्मणा परिणीतास्ति गायत्रीति वरांगना
॥७८॥तच्छ्रुत्वा वचनं तेषां सावित्री भ्रांतलोचना ॥
दुःखशोकसमोपेता बाष्पव्याकुललोचना
॥७९॥दृष्ट्वा ता नृत्यमानाश्च गायमानास्तथैव च ॥
उत्कूर्दतीर्धरापृष्ठे संतोषं परमं गताः
॥८०॥शशापाथ च सावित्री बाष्पगद्गदया गिरा।
सपत्न्या मम यत्पूजां कृत्वा वै सुसमागताः
॥८१॥न प्रणामः कृतोऽस्माकं मम दुःखेन दुःखिताः ॥
तस्मान्नैवापरं स्थानं गमिष्यथ कथंचन
॥८२॥नागराणां च नो पूजा कदाचित्प्रभविष्यति ॥
न प्रासादोऽथ युष्माकं कदाचित्संभविष्यति
॥८३॥शीतकाले तु शीतेन ह्युष्णकाले च रश्मिभिः ॥
वर्षाकाले तु तोयेन क्लेशं यास्य थ भूरिशः
॥८४॥एवमुक्त्वा ततो देवी सा तत्रैव व्यवस्थिता ॥
नागराणां वरस्त्रीभिः सर्वाभिः परिवारिता
॥८५॥संबोध्यमाना सततं सुस्त्रीणां चेष्टितेन च ॥
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः
॥८६॥अस्तं गतो महाञ्छब्दः प्रस्थितो यज्ञमंडपे ॥
याज्ञिकानां तु विप्राणां सुमहाञ्छास्त्रसंभवः
॥८७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मातृगणगमनसावित्रीदत्त मातृगणशापवर्णनंनामाष्टाशीत्युत्तरशततमोऽध्यायः ॥ १८८ ॥