मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७२

3
नागरखण्डः · 272

युगस्वरूपवर्णनम्

ऋषय ऊचुः

यदेतद्भवता प्रोक्तमीशानस्य महीपतेः ॥

ईश्वरेण पुरा दत्तमायुर्यावत्स्ववासरम्

॥१॥

किंप्रमाणं भवेत्तस्य दिवसस्य ब्रवीहि नः ॥

सूत उवाच ॥

अहं वः कीर्तयिष्यामि प्रमाणं दिवसस्य तु

॥२॥

माहेश्वरस्य विप्रेन्द्राः श्रूयतां गदतः स्फुटम् ॥

निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः

॥३॥

लवद्वयं यवः प्रोक्तः काष्ठा ते दश पंच च ॥

त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलो मतः

॥४॥

क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका ॥

नाडिकाद्वितयेनैव मुहूर्तं परिकीर्तितम्

॥५॥

त्रिंशन्मुहूर्त्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥

मासस्त्रिंशदहोरात्रैद्वौ द्वौ मासावृतुं विदुः

॥६॥

ऋतुत्रयं चाप्ययनमयने द्वे तु वत्सरम् ॥

मानुषाणां हि सर्वेषां स एव परिकीर्तितः

॥७॥

स देवानामहोरात्रं पुराणज्ञाः प्रचक्षते ॥

अयनं चोत्तरं शुक्लं यद्देवानां दिनं च तत् ॥

यद्दक्षिणं तु सा रात्रिः शुभकर्मविगर्हिता

॥८॥

यथा सुप्तो न गृह्णाति किंचिद्भोगादिकं नरः ॥

तथा देवाश्च यज्ञांशान्न गृह्णन्ति कथं चन

॥९॥

अनेनैव तु मानेन मानवेन द्विजोत्तमाः ॥

लक्षैः सप्तदशाख्यैस्तु वत्सराणां प्रकीर्तितम्

॥१०॥

अष्टाविंशत्सहस्रैस्तु वत्सराणां कृतं युगम् ॥

तस्मिञ्छ्वेतोऽभवद्विष्णुर्भगवान्यो जगद्गुरुः

॥११॥

लोकाः पापविनिर्मुक्ताः शांता दांता जितेन्द्रियाः ॥

दीर्घायुषस्तथा सर्वे सदैव तपसि स्थिताः

॥१२॥

यो यथा जन्म चाप्नोति तथा स म्रियते नरः ॥

न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित्

॥१३॥

कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥

न जायते नृणां तत्र युगे तु द्विजसत्तमाः

॥१४॥

ततस्त्रेतायुगं भावि द्वितीयं मुनिसत्तमाः ॥

पादेनैकेन पापं तु रौद्रं धर्मे तदाविशत्

॥१५॥

ततो रक्तत्वमभ्येति भगवान्मधुसूदनः ॥

पापांशेऽपि च संप्राप्ते सस्पर्द्धो जायते जनः

॥१६॥

स्वर्गमार्गकृते सर्वे चक्रुर्यज्ञांस्ततः परम् ॥

अग्निष्टोमादिकांस्तत्र बहुहोमादिकांस्तथा

॥१७॥

देवलोकांस्ततो यांति मूलाद्यावच्चतुर्दश ॥

ब्रह्मलोकस्य पर्यंतं स्वकीयैर्य ज्ञकर्मभिः

॥१९॥

किंचित्स्वल्पायुषस्तत्र जायन्ते स्पर्धयाऽन्विताः ॥

परं तत्रापि नो यांति मृत्युं पुत्राः कथंचन

॥१९॥

जनके विद्यमाने च स्व ल्पदोषाः प्रकीर्तिताः ॥

कामक्रोधादयो ये च भवंति न भवंति च

॥२०॥

एकया वेलया तत्र वापितं सस्यमुत्तमम् ॥

सप्तवारान्प्रगृह्णंति वैश्याः कृषिपरायणाः

॥२१॥

सर्वा घटस्रवा गावो महिष्यश्च चतुर्गुणाः ॥

प्रयच्छंति तथा क्षीरमुष्ट्र्यस्तासां चतुर्गुणम्

॥२२॥

अजाविकास्तथा पादं नार्यः सर्वास्तथैव च ॥

वेदाध्ययनसंपन्नाः प्रतिग्रहविवर्जिताः ॥

शापानुग्रहकृत्येषु समर्थाः संभवंति च २३ ॥

क्षत्रियाः क्षात्रधर्मेण पालयंति वसुंधराम् ॥

न तत्र दृश्यते चौरो न च जारः कथंचन ॥

स्वधर्मनिरताः सर्वे वर्णाश्चैव व्यवस्थिताः

॥२४॥

तच्च द्वादशभिर्लक्षैर्वत्सराणां प्रकीर्तितम् ॥

षण्णवत्या सहस्रैस्तु द्वितीयं युगमुत्तमम्

॥२५॥

ततश्च द्वापरं भावि तृतीयं द्विजसत्तमाः ॥

द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ ॥

भगवान्वासुदेवश्च कपिलस्तत्र जायते

॥२६॥

तच्चाष्टलक्षमानेन वत्सराणां प्रकीर्तितम् ॥

चतुःषष्टिभिरन्यैस्तु सहस्राणां द्विजोत्तमाः

॥२७॥

कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥

षडेते तत्र जायंते ईर्ष्या चैव तु सप्तमी

॥२८॥

अथ संसेवितास्तैस्तु मानवाश्च परस्परम् ॥

विरुद्धांश्च प्रकुर्वंति नाप्नुवंति यथा दिवम्

॥२९॥

केचित्तत्रापि जायंते शांता दांता जितेंद्रियाः ॥

न सर्वेऽपि द्विजश्रेष्ठा यतोऽर्द्धं पातकस्य तु

॥३०॥

ततः कलियुगं प्रोक्तं चतुर्थं च सुदारुणम् ॥

एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम्

॥३१॥

कृष्णत्वं याति देवोऽपि तत्र चैव चतुर्भुजः ॥

एक पादोऽपि धर्मस्य यावत्तावत्प्रवर्तते

॥३२॥

पश्चान्नाशं समभ्येति यावत्तावच्छनैःशनैः ॥

प्रमाणं तस्य निर्दिष्टं लक्षाश्चत्वार एव हि

॥३३॥

द्वात्रिंशच्च सहस्राणि युगस्यैवांतिमस्य च ॥

कलिना तत्र संपृष्टा मर्त्याः सर्वे परस्परम्

॥३४॥

विबुधैस्ते प्रवर्तंते रागद्वेषपरायणाः ॥

यस्ययस्य गृहे वित्तं तथा नार्यो मनोरमाः

॥३६॥

तेनतेन समं मैत्रीं कलौ कुर्वंति मानवाः ॥

विधवानां यतीनां च सर्वेषां च तपस्विनाम्

॥३६॥

लोकद्वयविनाशः स्याद्यतश्चेतो न शुध्यति ॥

प्रावृट्कालेऽपि संप्राप्ते दुर्भिक्षेण प्रपीडिताः

॥३७॥

भ्रमंति च कलौ लोका गगनासक्तदृष्टयः ॥

जानाति चापि तनयः पिता चेन्निधनं व्रजेत् ॥

ततोहं गृहपो भूयां बांधवो ह्यपि बांधवम् ॥

स्नुषापि वेत्ति चित्तेन यदि श्वश्रूः क्षयं व्रजेत्

॥३९॥

मम स्याद्गृह ऐश्वर्यं तत्सर्वं नान्यथा व्रजेत् ॥

काव्यैरुपहता वेदाः पुत्रा जामातृकैस्तथा

॥४०॥

शालकैर्बांधवाश्चैव ह्यसतीभिः कुलस्त्रियः ॥

शूद्रास्तपस्विनश्चैव शूद्रा धर्मस्य सूचकाः

॥४१॥

ब्राह्मणानां ततः शूद्रा उपदेशं वदंति च ॥

अल्पोदकास्तथा मेघा अल्पसस्या च मेदिनी

॥४२॥

अल्पक्षीरास्तथा गावः क्षीरे सर्पिस्तथाऽल्पकम् ।

सर्वभक्षास्तथा विप्रा नृपा निष्करुणास्ततः ॥

कृष्या लज्जंति वैश्याश्च शूद्रा ब्राह्मणप्रेषकाः

॥४३॥

हेतुवादरता ये च भंडंविद्यापराश्च ये ॥

तेते स्युर्भूमिपालस्य सदाऽभीष्टाः कलौ युगे

॥४४॥

श्वःश्वःपापीयदिवसाः पृथिवी गतयौवना ।

अतिक्रांत शुभाः कालाः पर्युपस्थितदारुणाः

॥४५॥

यथायथा युगं भावि वृद्धिं यांति स्त्रियो नराः ॥

तथातथा प्रयांति स्म लघुतां जंतुभिः सह

॥४६॥

द्वादशमे चैव कन्या स्याद्भर्तृसंयुता

॥४७॥

ततः षोडशमे वर्षे नराः पलितयौवनाः ॥

शौचाचारपरित्यक्ता निजकार्यपरास्तथा

॥४८॥

भविष्यंति युगस्यांते नराः अंगुष्ठमात्रकाः ॥

गृहं च तेऽथ कुर्वंति बिलैराखुसमुद्भवैः

॥४९॥

तथा प्रावरणं तेषां कृमिवस्त्रं भविष्यति ॥

एकवर्णा भविष्यंति वर्णाः सर्वे ततः परः ॥

म्लेछीभूता दुराचारा धर्मकृत्यविदूषकाः

॥५॥

एवं जाते ततो लोके ब्राह्मणो हरिपिंगलः ॥

कल्किगोत्रसमुत्पन्नस्तान्सर्वा न्सूदयेत्ततः

॥९१॥

पश्चात्कृतयुगं भावि भूयोऽपि द्विजसत्तमाः

॥५२॥

एवं युगसहस्रेण संप्राप्तेन ततः परम् ॥

ब्रह्मणो दिवसं भावि रात्रिश्चैव ततः परम्

॥५३॥

ततश्चानेन मानेन षष्ट्या युक्तैस्त्रिभिः शतैः ॥

ब्रह्मणो वत्सरं भावि केशवस्य च तद्दिनम्

॥५४॥

आत्मीये जीविते ब्रह्म यावद्वर्षशतं स्थितः ॥

केशवोऽपि स्वमानेन वर्षाणां जीविते शतम्

॥५५॥

वर्षेण वासुदेवस्य दिनं माहेश्वरं भवेत् ॥

निजमानेन सोप्यत्र याव द्वर्षशतं स्थितः

॥५६॥

ततः शक्तिस्वरूपः स्यात्सोऽक्षयी कीर्त्यते यतः ॥

सदाशिवस्य निःश्वासः शैवं वर्षशतं भवेत् ॥

उच्छ्वासस्तु पुनस्तस्य शक्तिरूपेण संस्थितः

॥५७॥

सूत उवाच

एतद्वः सर्वमाख्यातं शिवशक्तिसमुद्भवम् ॥

यावदायुः प्रमाणं च मानुषाढ्यं च यद्भवेत्

॥५८॥

भवद्भिः शांकरं पृष्टो द्विजा अस्मि दिनं पुरा ॥

मया पुनस्तु सर्वेषां मर्त्यादीनां तु कीर्तितम्

॥५९॥

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगस्वरूपवर्णनंनाम द्विसप्तत्युत्तरद्विशततमोअध्यायः ॥ २७२ ॥