मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५

3
नागरखण्डः · 25

विष्णुपदीगंगामाहाम्यवर्णनम्

सूत उवाच

तत्राश्चर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥

तद्वोऽहं संप्रवक्ष्यामि गंगामाहात्म्यसंभवम्

॥१॥

चमत्कारपुरे विप्रः पुरासीत्संशितव्रतः ॥

चंडशर्मेति विख्यातो रूपौदार्यगुणान्वितः

॥२॥

स यदा यौवनोपेतस्तदा वेश्यानुरागकृत् ॥

श्रोत्रियोऽप्यभवद्विप्रो यौवनोद्भारपीडितः

॥३॥

स कदाचिन्निशीथेऽथ तृषार्तश्च समुत्थितः ॥

प्रार्थयामास तां वेश्यां पानीयं पातुमुत्सहे

॥४॥

अथ सा सलिलभ्रांत्या करकं मद्यसंभवम् ॥

समादाय ददौ पानं तस्मै निद्राकुलाय च

॥५॥

मुखमध्यगते मद्ये सोऽपि तां कोपसंयुतः ॥

वेश्यां प्रभर्त्सयामास धिग्धिक्शब्दैर्मुहुर्मुहुः

॥६॥

किमिदंकिमिदं पापे त्वया कर्म विगर्हितम् ॥

कृतं यन्मुखमध्ये मे प्रक्षिप्ता निंदिता सुरा

॥७॥

ब्राह्मण्यमद्य मे नष्टं मद्यपानादसंशयम् ॥

प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये

॥८॥

एवमुक्त्वा विनिष्क्रम्य तद्गृहाद्दुःखसंयुतः ॥

रुरोदाथ तदा गत्वा करुणं निर्जने वने

॥९॥

ततः प्रभातवेलायां स्नात्वा वस्त्रसमन्वितः ॥

त्यक्त्वा गात्रस्य रोमाणि समस्तानि द्विजोत्तमाः

॥१०॥

संप्राप्तो विप्रमुख्यानां सभा यत्र व्यवस्थिता ॥

पठंति सर्वशास्त्राणि वेदांतानि च कृत्स्नशः

॥११॥

अथासौ प्रणिपत्योच्चैः प्रोवाच द्विजसत्तमान् ॥

जलभ्रांत्या सुरा पीता मया कुरुत निग्रहम्

॥१२॥

अथ ते धर्मशास्त्राणि प्रविचार्य पुनःपुनः ॥

तमूचुर्ब्राह्मणाः सर्वे प्रायश्चित्तकृते स्थितम्

॥१३॥

ब्राह्मणा ऊचुः

अज्ञानाज्ज्ञानतो वापि सुरां चेद्ब्राह्मणः पिबेत् ॥

अग्निवर्णं घृतं पीत्वा तावन्मात्रंविशु ध्यति

॥१४॥

स त्वं वांछसि चेच्छुद्धिमग्निवर्णं घृतं पिब ॥

यावन्मात्रा सुरा पीता तावन्मात्रं विशुद्धये

॥१५॥

स तथेति प्रतिज्ञाय घृतमादाय तत्क्षणात् ॥

चक्रे वह्निसमं यावत्पानार्थं द्विजसत्तमाः

॥१६॥

तावत्तस्य पिता प्राप्तः श्रुत्वा वार्तां सभार्यकः ॥

किमिदं किमिदं पुत्र ब्रुवाणो दुःख संयुतः ॥

अश्रुपूर्णेक्षणो दीनो वाष्पगद्गदया गिरा

॥१७॥

ततः स कथयामास सर्वरात्रिसमुद्भवम् ॥

वृत्तांतं तच्च विप्राणां प्रायश्चित्तं यथोचितम्

॥८॥

अथ स ब्राह्मणान्प्राह सर्वांस्तान्द्विजसत्तमाः ॥

प्रायश्चित्तं सुतायास्मै ममान्यत्संप्रदीयताम्

॥९॥

संचिन्त्य धर्मशास्त्राणि विचार्य च पुनः पुनः ॥

सर्वस्वमपि दास्यामि पुत्रहेतोरसंशयम्

॥२०॥

ततस्ते ब्राह्मणाः सर्वे भूयोभूयश्च सादरम् ॥

विचिंत्य धर्मशास्त्राणि तमूचुर्मुनिसत्तमाः

॥२॥

नान्यदस्ति सुरापाने प्रायश्चित्तं द्विजन्मनाम् ॥

मौंजीहोमं विना विप्र यद्युक्तं तत्समाचर

॥२२॥

ततः स स्वसुतं प्राह नैव त्वं कर्तुमर्हसि ॥

यच्छ दानानि विप्रेभ्यस्तीर्थयात्रां समाचर

॥२३॥

ततः शुद्धिं समाप्नोषि क्रमान्नियमसंयुतः ॥

व्रतैश्च विविधैश्चीर्णैः सत्यमेतद्ब्रवीम्यहम्

॥२४॥

न ब्राह्मणसमादिष्टं प्रायश्चित्त विशुद्धये

॥२५॥

पुत्र उवाच

एतन्मम महाभागा यद्ब्रुवंति व्रतादिकम् ॥

तस्मात्कार्यो मया तात मौंजीहोमो न संशयः

॥२६॥

यन्मया तु कृतं बाल्ये तत्सर्वं क्षंतुमर्हसि

॥२७॥

सूत उवाच

तस्य तं निश्चयं ज्ञात्वा स पिता सुतवत्सलः ॥

सर्वस्वं प्रददौ रुष्टो मरणे कृतनिश्चयः

॥२८॥

साऽपि तस्य सती भार्या कृत्वा मृत्युविनिश्चयम् ॥

तमुवाच सुतं दृष्ट्वा सर्वं दत्त्वा गृहादिकम्

॥२९॥

आवाभ्यां संप्रविष्टाभ्यां वह्नौ पुत्र ततस्तदा ॥

मौंजीहोमस्त्वया कार्यो मां तातं यदि मन्यसे

॥३०॥

ततस्तौ दम्पती हृष्टौ यावद्वह्निसमीपगौ ॥

संजातौ मरणार्थाय स च ताभ्यां समुद्भवः

॥३१॥

तावत्प्राप्तो मुनिर्नाम शांडिल्यो वेदपारगः ॥

तीर्थयात्राप्रसंगेन तत्र देशे द्विजोत्तमाः

॥३२॥

स वृत्तांतं समाकर्ण्य कोपसंरक्तलोचनः ॥

अब्रवीद्ब्राह्मणान्सर्वान्भर्त्समानो मुहुर्मुहुः

॥३३॥

अहो मूढतमा यूयं यदेतद्ब्राह्मणत्रयम् ॥

वृथा मृत्युमवाप्नोति निग्रहे सुगमे सति

॥३४॥

अत्र कात्यायनेनोक्तं यद्वचः सुमहात्मना ॥

तच्छृण्वन्तु द्विजाः सर्वे प्रायश्चित्ती तथाप्ययम्

॥३५॥

चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥

प्रायश्चित्तानि दीयंते यत्र गंगा न विद्यते

॥३६॥

अत्र विष्णुपदी गंगा तत्क्षेत्रे तु द्विजोत्तमाः ॥

तस्यां स्नानं करोत्वेष ततः शुद्धिमवाप्स्यति

॥३७॥

मौंजीहोमः प्रमाणं स्यान्मुनिवाक्येन चेद्भवेत् ॥

तदेतदपि वाक्यं हि कात्यायनमुनेः स्फुटम्

॥३८॥

ततस्ते ब्राह्मणाः सर्वे हर्षेण महतान्विताः ॥

साधुसाध्विति तं प्रोच्य प्रोचुः सत्यमिदं मुने

॥३९॥

ततः प्रबोध्य तं विप्रं निन्युस्तत्र द्विजोत्तमाः ॥

यत्र विष्णुपदी गंगा स्वयमेव व्यवस्थिता

॥४०॥

तत्र स ब्राह्मणो यावद्गंगातोयसमुद्भवम् ॥

गंडूषं कुरुते वक्त्रे तावच्छुद्धो बभूव सः ॥

उदरादखिलं तोयं निष्क्रांतं द्विजसत्तमाः

॥४१॥

ततोऽवगाहते यावत्तस्यास्तोयं सुशोभनम् ॥

तावदाकाशसंभूता गम्भीरोवाच भारती

॥४२॥

शुद्धोऽयं ब्राह्मणः साक्षाद्विष्णुपद्याः समागमात् ॥

स्नानादाचमनादेव तस्माद्यातु गृहं निजम्

॥४३॥

ततस्ते ब्राह्मणाः सर्वे चंडशर्मादयश्च ये ॥

दिष्ट्यादिष्ट्येति जल्पन्तः स्वानि हर्म्याणि भेजिरे

॥४४॥

सूत उवाच

एवं प्रभावा सा विप्रा गंगा विष्णुपदी स्थिता ॥

तस्य क्षेत्रस्य सीमांते पश्चिमे पापनाशिनी

॥४५॥

एतद्वः सर्वमाख्यातं विष्णुपद्याः समुद्भवम् ॥

माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये विष्णुपदीगंगामाहाम्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥