मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५६

3
नागरखण्डः · 156

मणिभद्रकृतपुष्पब्राह्मणविडंबनवर्णनम्

सूत उवाच

एवं सम्बोधिता तेन सा भार्या विजने गता ॥

कन्याप्रदानस्य रुचिः संजाता तदनन्तरम्

॥१॥

ततः स पादौ प्रक्षाल्य मणिभद्रस्य सत्वरम् ॥

उदकं साक्षतं हस्ते कन्यादानकृते ददौ

॥२॥

सोऽपि हस्तकृते तोये तं क्षत्रियमुवाच ह ॥

अद्यैव कुरु मे शीघ्रं विवाहं कन्यया सह

॥३॥

यस्मादिच्छामि संस्थातुं तेन ते गृहमागतः ॥

क्षत्रिय उवाच ॥

नात्र नक्षत्रमर्हं तु न किंचिद्भगदैवतम्

॥४॥

विवाहस्य न वारस्तु प्रसुप्ते मधुसूदने ॥

अस्मिन्काले तु संप्राप्ते या कन्या परिणीयते

॥५॥

सा च संवत्सरान्मध्ये ध्रुवं वैधव्यमाप्नुयात् ॥

एवं दैवज्ञमुख्यानां श्रुतं प्रवदतां मया

॥६॥

तस्माच्छुभे तु संप्राप्ते नक्षत्रे भगदैवते ॥

त्वं विवाहय मे कन्यां प्रोत्थिते मधुसूदने ॥

येन क्षेमंकरी ते स्यात्तथा पुत्रप्रपौत्रिणी

॥७॥

मणिभद्र उवाच

नक्षत्रं वह्निदैवत्यं प्रसुप्तो मधुसूदनः

॥८॥

सांप्रतं वत्सरांतोऽयं विवाहे विहिते सति ॥

कामाग्निरुत्थितः काये सांप्रतं मां प्रबाधते

॥९॥

तस्मात्कुरु प्रसादं मे कन्याविवहितेन तु ॥

तव वित्तं प्रदास्यामि सुखी येन भविष्यसि

॥१०॥

सूत उवाच

तस्माच्च वित्तलोभेन क्षत्रियो द्विजसत्तमाः ॥

विवाहं कारयामास तत्क्षणादेव स द्विजाः

॥११॥

ददौ कन्यां सुदुःखार्तामश्रुपूर्णेक्षणां स्थिताम् ॥

सन्निधौ वह्निविप्राणां तदा तेन विवाहिता

॥१२॥

नीत्वा निजगृहं पश्चात्कामधर्मे नियोजिता ॥

अनिच्छंतीमपि सतीं तामतीव निरर्गलः

॥१३॥

सोऽपि निष्कामतां प्राप्य निर्भर्त्स्य च मुहुर्मुहुः ॥

भाषिकाभिरनेकाभिस्तापयित्वा च भामिनीम्

॥१४॥

शांतिं नीता ततस्तेन प्रत्यूषे समुपस्थिते ॥

भृत्यवर्गः समस्तोऽपि ततो निःसारितो गृहात्

॥१५॥

इर्ष्याधर्मं समास्थाय परमं द्विजसत्तमाः ॥

एक एव कृतस्तेन द्वारपालो नपुंसकः

॥१६॥

प्रोक्तं न च त्वया देयः प्रवेशोऽत्र गृहे मम ॥

भृत्यस्य भिक्षुकस्यैव वृद्धस्य व्रतिनस्तथा

॥१७॥

एवं कृत्वा विधानं तु ततश्चक्रे जनैः समम् ॥

व्यवहारक्रियाः सर्वा द्रव्यलक्षैः सहस्रशः

॥१८॥

श्वशुरस्यापि नो दत्तं किंचित्तेन दुरात्मना ॥

भार्यायाः श्वेतवस्त्राणि मुक्त्वाऽन्यन्नैव किंचन

॥१९॥

यामद्वयेऽपि संप्राप्ते दिनस्य गृहमागतः ॥

मितमन्नं तत स्तस्या भोजनार्थं प्रयच्छति

॥२०॥

यावन्मात्रं च सा भुंक्त एकविप्रान्वितः स्वयम् ॥

भुक्त्वा चैव ततो याति व्यवहारकृते बहिः

॥२१॥

आगच्छति पुनर्हर्म्यं संध्याकाल उपस्थिते ॥

साऽपि तिष्ठति हर्म्यस्था पत्नी तस्य दुरात्मनः

॥२२॥

वैराग्यं परमं प्राप्ता दुःखशोकसमन्विता ॥

मत्सीव पतिता तोयादन्यस्मिंस्तु स्थलांतिके

॥२३॥

चक्रवाकी विमुक्तेव संप्राप्ते दिवसक्षये ॥

हंसी हंसवियुक्तेव मृगीव मृगवर्जिता

॥२४॥

सोऽपि नित्यं ददौ भोज्यं विप्रस्यैकस्य च द्विजाः ॥

प्रोच्य तं ब्राह्मणं पूर्वं सामपूर्वमिदं वचः

॥२५॥

अधोवक्त्रेण भोक्तव्यं सदा विप्र गृहे मम ॥

यदि पश्यसि मे भार्यां संप्राप्स्यसि विडंबनाम्

॥२६॥

एवं विडंबितास्तेन ह्यूर्ध्ववक्त्रावलोकिनः ॥

ये चान्ये भयसंत्रस्ता न यांति च तदालयम्

॥२७॥

कस्यचित्त्वथ कालस्य पुष्पोनाम द्विजोत्तमः ॥

तीर्थयात्राप्रसंगेन संप्राप्तस्तत्पुरं प्रति

॥२८॥

पूर्वे वयसि संस्थश्च दर्शनीयतमाकृतिः ॥

क्षुत्क्षामः सुपरिश्रांतो मध्याह्ने समुपस्थिते

॥२९॥

परिभ्रमति वै नृणां स गृहाणि समंततः ॥

मणिभद्रः समादिष्टस्तस्य केनापि भोज्यदः

॥३॥

ततस्तं प्रार्थयामास गत्वा भोज्यं च स द्विजाः ॥

तेनापि स द्विजः प्रोक्तस्तदासौ द्विजसत्तमाः

॥३१॥

अधोवक्त्रेण भोक्तव्यं त्वया वीक्ष्या न मे प्रिया ॥

नो चेद्विडंबनां विप्र संप्राप्स्यसि न संशयः

॥३२॥

एवं ज्ञात्वा महाभाग यत्क्षेमं तत्समाचर

॥३३॥

पुष्प उवाच

क्षुत्क्षामस्य न मे कार्यं परदारविलोकनैः ॥

वेदाध्ययनयुक्तस्य तीर्थयात्रारतस्य च

॥३४॥

मणिभद्र उवाच

तदागच्छ मया सार्धं सांप्रतं मम मंदिरम् ॥

विशेषात्तव दास्यामि भोजनं दक्षिणान्वितम्

॥३५॥

एवं तौ संविदं कृत्वा ययतुर्ब्राह्मणोत्तमाः ॥

हट्टमार्गे गतौ तत्र यत्र षंढो व्यव स्थितः

॥३६॥

तत्पार्श्वे ब्राह्मणं धृत्वा प्रविष्टो गृहमध्यतः ॥

भार्यया श्रपयामास धान्यं मानमितं तदा

॥३७॥

ततो देवार्चनं कृत्वा वैश्वदेवांत आगतम् ॥

पुष्पमाहूय तत्पादौ प्रक्षाल्य च निवेश्य च

॥३८॥

कृत्वार्चनविधिं तस्य दत्त्वान्नं च सुसंस्कृतम् ॥

उपविश्य ततः पश्चाद्भोजनार्थं ततो द्विजाः।

पुष्पोऽपि वीक्षते तस्याः पादौ पंकजसंनिभौ

॥३९॥

यथायथा स कौतुक्याद्वीक्षते यौवनाश्रितः ॥

कौतुक्यात्तेन च ततस्तस्या वक्त्रं निरीक्षितम्

॥४०॥

ततश्चाकारयामास मणिभद्रः प्रकोपतः ॥

तं षण्ढमुक्तवाञ्जारं त्वमेनं च विडंबय

॥४१॥

ततस्तेन द्विजश्रेष्ठाः स पुष्पो मूर्ध्नि ताडितः

॥४२॥

अधो निपतितं भूमौ रुधिरेण परिप्लुतम् ॥

चरणाभ्यां समाकृष्य दूतो मार्गं समाश्रितः

॥४३॥

यावच्चतुष्पथं नीतो यत्र संचरते जनः ॥

हाहाकारो महानासीत्तस्मिन्पुरवरे तदा

॥४४॥

सर्वेषामेव पौराणां तदवस्थं विलोक्य तम् ॥

ततोऽन्यैः शीततोयेन सोभिषिक्तो दयान्वितैः

॥४५॥

कृत्वा वायुप्रदानं च गमितश्चेतनां प्रति ॥

स प्राप्य चेतनां कृच्छ्रात्तत्तोयात्तानथाब्रवीत्

॥४६॥

न मया विहितं चौर्यं परदारा न सेविताः ॥

पश्यध्वं मणिभद्रेण यथाहं क्लेशितो जनाः

॥४७॥

तीर्थयात्रापरो विप्रो ब्रह्मचर्यपरायणः ॥

भोजनार्थं समामन्त्र्य नीतोऽवस्थामिमां ततः

॥४८॥

किं नास्ति वात्र भूपालो येनैतदसमंजसम् ॥

ब्राह्मणस्य विशेषेण निर्दोषस्य महाजनाः

॥४९॥

जना ऊचुः

बहवस्तेन पापेन विप्राः पूर्वं विडंबिताः ॥

राजप्रसादयुक्तेन चेर्ष्यां प्राप्य शरीरिणा

॥५०॥

कोऽपि राजप्रसादान्न किंचिद्ब्रूतेऽस्य सम्मुखम् ॥

तस्मादुत्तिष्ठ गच्छामो दास्यामस्तेऽशनं वयम्

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादित्यमाहात्म्ये मणिभद्रकृतपुष्पब्राह्मणविडंबनवर्णनंनाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥