मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५५

3
नागरखण्डः · 155

क्षत्रियकृतनिजभार्यासंबोधनवर्णनम्

सूत उवाच

तथाऽन्ये तत्र तिष्ठंति वसवोऽष्टौ द्विजोत्तमाः ॥

स्थानमेकं समाश्रित्य सर्वदैव प्रपूजिताः

॥१॥

एकादश तथा रुद्रा आदित्या द्वादशैव तु ॥

देववैद्यौ तथा चान्यावश्विनौ तत्र संस्थितौ

॥२॥

देवतास्तत्र तिष्ठंति कोटिकोटिप्रनायकाः ॥

एकैका ब्राह्मणश्रेष्ठाः कलिकालभयाकुलाः

॥३॥

हाटकेश्वरजे क्षेत्रे यज्ञभागाप्तये सदा ॥

अष्टम्यां शुक्लपक्षे तु मधुमासे व्यवस्थिते

॥४॥

यस्तान्वसूञ्छुचिर्भूत्वा स्नात्वा धौतांबरो नरः ॥

तर्पयित्वा द्विजश्रेष्ठान्पश्चात्संपूजयेन्नरः

॥५॥

वसवस्त्वा कृण्वन्निति मन्त्रेणानेन भक्तितः ॥

नैवेद्यं च ततो दद्याद्वसवश्छंदसाविति

॥६॥

ततो धूपं सुगन्धं च यो यच्छति समाहितः ॥

वसवस्त्वां जेतु तथा मन्त्रमेतमुदीरयेत्

॥७॥

आरार्तिकं ततो भूयो यः करोति द्विजोत्तमाः ॥

वसवस्त्वां जेतु तथा श्रूयतां यत्फलं हि तत्

॥८॥

कन्याभिः कोटिभिर्यच्च पूजिताभिर्भवेत्फलम् ॥

वसूनां चैव तत्सर्वमष्टभिस्तैः प्रपूजितैः

॥९॥

तथा ये द्वादशादित्यास्तस्मिन्क्षेत्रे व्यवस्थिताः ॥

तान्स्थाप्य पूजयित्वा च सप्तम्यामर्कवासरे ॥

सम्यक्छ्रद्धासमोपेतः पुष्पगन्धानुलेपनैः

॥१०॥

पश्चात्तत्पुरतस्तेषां समस्तान्येकविंशतिः ॥

आदित्यव्रत संज्ञानि तस्य पुण्यफलं शृणु

॥११॥

कोटिद्वादशकं यस्तु सूर्याणां पूजयेन्नरः ॥

तत्फलं प्राप्नुयात्कृत्स्नं पूजयन्नात्र संशयः

॥१२॥

तथैकादशरुद्रा ये तत्र क्षेत्रे द्विजोत्तमाः ॥

एकस्थाने स्थितास्तेषां पूजया श्रूयतां फलम्

॥१३॥

यस्तान्पूजयते भक्त्या स्थापयित्वा सुरेश्वरान् ॥

चैत्रशुक्लचतुर्दश्यां जपेच्च शतरुद्रियम्

॥१४॥

एकादशप्रमाणेन कोटयस्तेन पूजिताः ॥

भवंति नात्र संदेहः सत्यमेतन्मयोदितम्

॥१५॥

यथा तावश्विनौ तत्र देववैद्यौ व्यवस्थितौ ॥

आश्विने मासि चाश्विन्यां पूर्णिमायां तथा तिथौ

॥१६॥

यस्तौ संपूजयित्वा तु ह्यश्विनीसूक्तमुच्चरेत् ।

द्विकोटि गुणितं पुण्यं सम्यक्तेन समाप्यते ।

एतद्वः सर्वमाख्यातं माहात्म्यं वसुसंभवम् ॥

आदित्यानां च रुद्राणामश्विनोर्द्विजसत्तमाः

॥१९८॥

सूत उवाच

तथाऽन्योऽपि च तत्रास्ति याज्ञवल्क्यप्रतिष्ठितः ॥

पुष्पादित्य इति ख्यातः सर्वकामप्रदो नृणाम्

॥१९॥

यो यं काममभिध्याय तं पूजयति मानवः ॥

स तं कृत्स्नमवाप्नोति यद्यपि स्यात्सुदुर्लभम्

॥२०॥

अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥

बहुवैरोऽरिनाशं च विद्यार्थी शास्त्रविद्भवेत्

॥२१॥

सप्तम्यामर्कवारेण यस्तं पश्यति मानवः ॥

मुच्येद्दिनोद्भवात्पापान्महतोऽपिद्विजोत्तमाः

॥२२॥

पूजया हि प्रणश्येत पापं वर्षसमुद्भवम् ॥

नाशं याति न संदेहस्तमः सूर्योदये यथा

॥२३॥

अष्टोत्तरशतं चैव यः करोति प्रदक्षिणाम् ॥

फलहस्तः स मुच्येत ह्याजन्ममरणादघात्

॥२४॥

प्रदक्षिणां प्रकुवाणो यो यं काममभीप्सति ॥

स तमाप्नोत्यसंदिग्धं निष्कामो मोक्षमाप्नुयात्

॥२५॥

संक्रांतौ सूर्यवारेण यः कुर्यात्स्नापनक्रियाम् ॥

अभीष्टं सिध्यते तस्य मेषे वा यदि वा तुले

॥२६॥

तस्मिन्सर्वप्रयत्नेन वांछद्भिरीप्सितं फलम् ॥

स देवो वीक्षणीयश्च पूजनीयो विशेषतः

॥२७॥

यद्देवैः सकलैर्दृष्टैश्चमत्कारपुरोद्भवैः ॥

फलमाप्नोति तद्दृष्टौ तेन तत्फलमाप्नुयात्

॥२८॥

ऋषय ऊचुः

याज्ञवल्क्येन देवोऽसौ यदि तावत्प्रतिष्ठितः ॥

पुष्पादित्यः कथं प्रोक्त एतन्नो वक्तुमर्हसि

॥२९॥

सूत उवाच

अत्र वः कीर्तयिष्यामि चेतिहासं पुरातनम् ॥

पुष्पादित्यो यथा जातो याज्ञवल्क्यप्रतिष्ठितः

॥३॥

अस्त्यत्र मेदिनीपृष्ठे सुपुरं वैदिशं महत् ॥

नानासौध समाकीर्णं वरप्राकारशोभितम्

॥३१॥

उद्यानशतसंकीर्णं तडागैरुपशोभितम् ॥

तत्रासीत्पार्थिवश्रेष्ठश्चित्रवर्मेति विश्रुतः

॥३२॥

न दुर्भिक्षं न च व्याधिर्न च चौरकृतं भयम् ॥

तस्मिञ्छासति धर्मज्ञे सततं धर्मवत्सले

॥३३॥

तत्पुरे क्षत्रियो जात्या मणिभद्र इति स्मृतः ॥

स वै धनेन संयुक्तः पितृपैतामहेन च

॥३४॥

तत्पुरं सकलं चैव स राजा मंत्रिभिः सह ॥

कुसीदाहृतवित्तेन वर्तते कार्य उत्थिते

॥३५॥

स च कायेन कुब्जः स्याज्जराव्याप्तस्तथैव च ॥

वलीपलितगात्रश्च ह्यत्यंतं च विरूपधृक्

॥३६॥

तथा चैव कुकीनाशः प्रभूतेऽपि धने सति ॥

न ददाति स पापात्मा कस्यचित्किञ्चिदेव हि ॥

न भक्षयति तृष्णार्तः स्वयमेव कथंचन

॥३७॥

एवंविधोऽपि सोऽतीवविरूपोऽपि सुदुर्मतिः ॥

प्रार्थयामास वै कन्यां स्वजात्यां वीक्ष्य सुंदरीम्

॥३८॥

बिंबोष्ठीं चारुदेहां च मुष्टिग्राह्यकृशोदरीम् ॥

पद्मपत्रविशालाक्षीं गूढगुल्फां सुकेशिकाम्

॥३९॥

रक्तां सप्तसु गात्रेषु त्रिगंभीरां तथा पुनः ॥

सर्वलक्षणसंपूर्णां जातीयां सुमनोरमाम्

॥४०॥

क्षत्रियाद्द्विजशार्दूला दरिद्रेण च पीडितात् ॥

तेन तत्सकलं वृत्तं भार्यायै संनिवेदितम्

॥४१॥

तच्छ्रुत्वा सा च दुःखेन मूर्च्छिता संबभूव ह ॥

संबोधिता ततस्तेन वाक्यैर्दृष्टांतसंभवैः

॥४२॥

क्षत्रिय उवाच

न सा विद्या न तच्छिल्पं न तत्कार्यं न सा कला ॥

अर्थार्थिभिर्न तज्ज्ञानं धनिनां यन्न दीयते

॥४३॥

इह लोके च धनिनां परोऽपि स्वजनायते ॥

स्वजनोऽपि दरिद्राणां कार्यार्थे दुर्जनायते

॥४४॥

अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः ॥

प्रवर्तंते क्रियाः सर्वाः पर्वतेभ्यो यथापगाः

॥४५॥

पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ॥

वंद्यते यदवन्द्योऽपि ह्यनुबंधो धनस्य सः

॥४६॥

अशनादिंद्रिया णीव स्युः कार्याण्यखिलानिह ॥

सर्वस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते

॥४७॥

अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ॥

जनितारमपि त्यक्त्वा निःस्वः संयाति दूरतः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्पादि त्यमाहालये मणिभद्रवृत्तांते मणिभद्राय कन्याप्रदानार्थं क्षत्रियकृतनिजभार्यासंबोधनवर्णनंनाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५५ ॥