मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४१

3
नागरखण्डः · 41

तस्यैवोत्तरदिग्भागे देवस्य जलशायिनः

सूत उवाच

तस्यैवोत्तरदिग्भागे देवस्य जलशायिनः ॥

स्थानमस्ति सुविख्यातं सर्वपातकनाशनम्

॥१॥

यस्तत्पूजयते भक्त्या शयने बोधने हरेः ॥

उपवासपरो भूत्वा स गच्छेद्वैष्णवं पदम्

॥२॥

अशून्यशयनानाम द्वितीया दयिता तिथिः ॥

सदैव देवदेवस्य कृष्णा सुप्तस्य या भवेत्

॥३॥

तस्यां यः पूजयेत्तत्र तं देवं जलशायिनम् ॥

शास्त्रोक्तेन विधानेन स गच्छति हरेः पदम्

॥४॥

ऋषय ऊचुः

जलशायी कथं तत्र संप्राप्तः सूतनन्दन ॥

पूज्यते विधिना केन तत्सर्वं विस्तराद्वद

॥५॥

सूत उवाच

पुरासीद्बाष्कलिर्नाम दानवेन्द्रो महाबलः ॥

अजेयः सर्वदेवानां गन्धर्वोरगरक्षसाम्

॥६॥

अथासौ भूतलं सर्वं वशीकृत्वा महाबलः ॥

ततो दैत्यगणैः सार्द्धं जगाम त्रिदशालयम्

॥७॥

तत्राभवन्महायुद्धं देवासुरविनाशकम् ॥

देवानां दानवानां च क्रुद्धानामितरेतरम्

॥८॥

वर्षाणामयुतं तावदहन्यहनि दारुणम् ॥

तत्रासृक्कर्दमो जातः पर्वतश्चास्थि संभवः

॥९॥

ततो वर्षसहस्रांते दशमे समुपस्थिते ॥

जितस्तेन सहस्राक्षः ससैन्यः सपरिग्रहः

॥१०॥

ततः स्वर्गं परित्यज्य सर्वदेवगणैः सह ॥

जगाम शरणं विष्णोः श्वेतद्वीपं प्रतिश्रयम्

॥११॥

यत्रास्ते भगवान्विष्णुर्योगनिद्रावशंगतः ॥

शयानः शेषपर्यंके लक्ष्म्या संवाहितांघ्रियुक्

॥१२॥

ततो वेदोद्भवैः सूक्तैः स्तुतिं चक्रुः समंततः ॥

तस्य देवस्य सद्भक्ताः सर्वे देवाः सवासवाः

॥१३॥

अथोत्थाय जगन्नाथः प्रोवाच बलसूदनम् ॥

कच्चित्क्षेमं सहस्राक्ष सांप्रतं भुवनत्रये ॥

यत्त्वं देवगणैः सार्द्धं स्वयमेव इहागतः

॥१४॥

शक्र उवाच

बाष्कलिर्नाम देत्येन्द्रो हरलब्धवरो बली ॥

अजेयः संगरे देवैस्तेनाहं विजितो रणे

॥१५॥

संस्थितिश्च कृता स्वर्गे सांप्रतं मधु सूदन ॥

तेनैष शरणं प्राप्तो देवैः सार्द्धं सुरोत्तम

॥१६॥

हिरण्याक्षभयाद्देवा हिरण्यकशिपोः पुरा ॥

त्वया त्राता वयं सर्वे तथान्येषां दुरात्मनाम्

॥७॥

तस्मादस्मादपि त्राहि दानवाद्बलवत्तरात् ॥

बाष्कलेर्नास्ति देवेश त्वां मुक्त्वान्या परा गतिः

॥८॥

श्रीभगवानुवाच

अहं तं निग्रहीष्यामि संप्राप्ते समये स्वयम् ॥

तस्मात्त्वं समयंयावत्कुरु शक्र तपो महत्

॥१९॥

येन ते जायते शक्तिस्तपोवीर्येण वासव ॥

वधाय तस्य दैत्यस्य बलयुक्तस्य बाष्कलेः

॥२०॥

शक्र उवाच

कस्मिन्क्षेत्रे जगन्नाथ करोमि सुमहत्तपः ॥

तस्य दैत्यस्य नाशार्थं तद स्माकं प्रकीर्तय

॥२१॥

सूत उवाच

तच्छ्रुत्वा भगवान्विष्णुः प्रोवाचाथ पुरंदरम् ॥

चिरं मनसि निश्चित्य क्षेत्राण्यायतनानि च

॥२२॥

चमत्कारपुरं क्षेत्रं शक्र सिद्धिप्रदायकम् ॥

तस्मात्तत्र द्रुतं गत्वा तद्वधार्थं तपः कुरु

॥२३॥

शक्र उवाच

न वयं भवता हीना यास्यामोऽन्यत्र केशव ॥

बाष्कलेर्दानवेन्द्रस्य भयाद्भीताः कथंचन

॥२४॥

तस्मादागच्छ तत्र त्वं स्वयमेव सुरेश्वर ॥

त्वया संरक्षितो येन करोमि सुमहत्तपः

॥२६॥

सूत उवाच

ततः स भगवान्विष्णुस्तथेत्युक्त्वा सुरैः सह ॥

चमत्कारपुरं क्षेत्रमाजगाम सह श्रिया

॥२६॥

अथ देवगणाः सर्वे तत्र गत्वा तदाऽऽश्रमान् ॥

चक्रुः पृथक्पृथग्घृष्टास्तपोऽर्थं कृतनिश्चयाः

॥२७॥

वासुदेवोऽपि संस्मृत्य क्षीरोदं तत्र सागरम् ॥

आनिनायाशु विस्तीर्णं ह्रदे तस्मिन्पुरातने

॥२८॥

चकार शयनं तत्र श्वेतद्वीपे यथा पुरा ॥

स्तूयमानः सुरैः सर्वैः समंताद्विनयान्वितैः

॥२९॥

अथाषाढस्य संप्राप्ते द्वितीयादिवसे शुभे ॥

कृष्णपक्षे सहस्राक्षं स्वयमेव बृहस्पतिः ॥

प्रोवाच वचनं श्लक्ष्णं बाष्पव्याकुल लोचनम्

॥३०॥

बृहस्पतिरुवाच

अशून्यशयनानाम द्वितीयाद्य पुरंदर ॥

अतीव दयिता विष्णोः प्रसुप्तस्य जलाशये

॥३१॥

अस्यां संपूजितो विष्णुर्यावन्मासचतुष्टयम् ॥

ददाति सकलान्कामान्ध्यातश्चेतसि सर्वदा ॥

शास्त्रोक्तविधिना सम्यग्व्रतस्थो जलशायिनम्

॥३२॥

एवं स चतुरो मासान्द्वितीयादिवसे हरिम् ॥

पूजयित्वा सहस्राक्षस्तेजसा सहितोऽभवत्

॥३३॥

तं दृष्ट्वा तेजसा युक्तं परितुष्टो जनार्दनः ॥

प्रोवाच शक्र गच्छाद्य वधार्थं तस्य बाष्कलेः ॥

सर्वैर्देवगणैः सार्धं विजयस्ते भविष्यति

॥३४॥

शक्र उवाच

बिभेमि तस्य देवाहं दानवेन्द्रस्य दुर्मतेः ॥

त्वया विना न गच्छामि सार्धं सर्वैः सुरैरपि

॥३५॥

श्रीभगवानुवाच

त्वया सह सहस्राक्ष चक्रमेतत्सुदर्शनम् ॥

गमिष्यति वधार्थाय मदीयं सुरविद्विषाम्

॥३६॥

एवमुक्त्वा हरिश्चक्रं प्रमुमोच सुदर्शनम् ॥

वधार्थं दानवेन्द्राणां शक्रेण सहितं तदा

॥३७॥

शक्रोऽपि सहितस्तेन गत्वा चक्रेण कृत्स्नशः ॥

सर्वानुत्सादयामास दानवान्रणमूर्धनि

॥३८॥

स चापि बाष्कलिस्तेन च्छिन्नश्चक्रेण कृत्स्नशः ॥

पपात धरणीपृष्ठे वज्राहत इवाचलः

॥३९॥

तथान्ये बहवः शूरा दानवा बलदर्पिताः ॥

हत्वा सुदर्शनं चक्रं भूयः प्राप्तं हरेः करम्

॥४०॥

तेऽपि शक्रादयो देवाः प्रहृष्टा गतसंशयाः ॥

भूयो विष्णुं समेत्याथ प्रोचुर्नत्वा ततः परम् ॥

४१ प्रभावात्तव देवेश हताः सर्वेऽमरारयः ॥

प्राप्तं त्रैलोक्यराज्यं च भूयो निहतकंटकम्

॥४२॥

तस्मात्कीर्तय यत्कृत्यं तच्च श्रेयस्करं मम ॥

सदा स्यात्पुंडरीकाक्ष तथा शत्रुभयावहम्

॥४३॥

श्रीभगवानुवाच

मयात्रैव सदा स्थेयं रूपेणानेन वासव ॥

सर्वलोकहितार्थाय ह्रदे पुण्य जलाश्रये

॥४४॥

त्वया तस्मात्समागम्य चातुर्मास्यं शचीपते ॥

प्रयत्नेन प्रकर्तव्यमशून्यशयनं व्रतम्

॥४५॥

न भवंति सहस्राक्ष येन ते परि पंथिनः ॥

तथाभीष्टफलावाप्तिर्मत्प्रसादादसंशयम्

॥४६॥

अन्योऽपि यो नरो भक्त्या पूजयिष्यति मामिह ॥

संप्राप्स्यति स ताँल्लोकान्दुर्लभांस्त्रि दशैरपि

॥४७॥

तस्माद्गच्छ सहस्राक्ष कुरु राज्यं त्रिविष्टपे ॥

भूयोऽप्यत्रैव देवेश द्रष्टव्योऽस्मि न संशयः ॥

कार्यकाले समायाते श्वेतद्वीपे यथा तथा

॥४८॥

सूत उवाच

ततः प्रणम्य तं दृष्ट्वा प्रजगाम शतक्रतुः ॥

वासुदेवोऽपि तत्रैव स्थितो लोकहिताय च

॥४९॥

एवं तत्र द्विजश्रेष्ठा जलशायी जनार्दनः ॥

सर्वलोकहितार्थाय संस्थितः परमेश्वरः

॥५०॥

यस्तं पूजयते भक्त्या श्रद्धया परया युतः ॥

चातुर्मास्ये विशेषेण स याति परमां गतिम्

॥५१॥

तथा देवगणैः सर्वैर्द्वारका तत्र सा कृता ॥

संपूज्य तु नरा यांति चातुर्मास्ये त्रिविष्टपम्

॥५२॥

शेषकालेऽपि चित्तस्थान्कामान्मर्त्यः समाप्नुयात् ॥

तस्मात्सर्वप्रयत्नेन पूज्या सा द्वारका नरैः ॥

सर्वेष्वपि हि कालेषु चातुमास्ये विशेषतः

॥५३॥

एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥

आख्यानं देवदेवस्य सुपुण्यं जलशायिनः

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युत्पत्तिवर्णनंनामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥