मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ८६

3
नागरखण्डः · 86

सप्तविंशतिकामाहात्म्यवर्णनम्

सूत उवाच

अथान्यापि च तत्रास्ति सप्तविंशतिका तथा ॥

नक्षत्रैः स्थापिता देवी वांछितस्य प्रदायिनी

॥१॥

दक्षस्य तनया पूर्वं सप्तविंशतिसंख्यया ॥

उद्वाहिता हि सोमेन पूर्वं ब्राह्मणसत्तमाः

॥२॥

तासां मध्ये ऽभवच्चैका रोहिणी तस्य वल्लभा ॥

प्राणेभ्योऽपि सदासक्तस्तया सार्धं स तिष्ठति

॥३॥

ततो दौर्भाग्यसंतप्ताः सर्वा स्ता दक्षकन्यकाः ॥

वैराग्यं परमं गत्वा क्षेत्रेऽस्मिंस्तपसि स्थिताः

॥४॥

संस्थाप्य देवतां दुर्गां श्रद्धया परया युताः ॥

बलिपूजोपहारैस्तां पूजयंत्यः सुरेश्वरीम्

॥५॥

ततः कालेन महता तासां सा तुष्टिमभ्यगात् ॥

अब्रवीच्च प्रतुष्टोऽहं वरं दास्यामि पुत्रिकाः

॥६॥

तस्मात्तत्प्रार्थ्यतां चित्ते यद्युष्माकं व्यवस्थितम् ॥

सर्वं दास्याम्यसंदिग्धं यद्युष्माकं हृदि स्थितम्

॥७॥

ततः प्रोचुश्च ताः सर्वाः प्रसादात्तव वांछितम् ॥

अस्माकं विद्यते देवि यावत्त्रैलोक्यसंस्थितम्

॥८॥

एकं पत्युः सुखं मुक्त्वा यत्सौभाग्यसमुद्भवम् ॥

तस्मात्तद्देहि चास्माकं यदि तुष्टासि चंडिके

॥९॥

वयं दौर्भाग्यदोषेण सर्वाः क्लेशं परं गताः ॥

न शक्नुमः प्रियान्प्राणान्देहे धर्तुं कथंचन

॥१०॥

श्रीदेव्युवाच

अद्यप्रभृति युष्माकं सौभाग्यं पतिसंभवम् ॥

मत्प्रसादादसंदिग्धं भविष्यति सुखोदयम्

॥११॥

अन्यापि या पतित्यक्ता स्त्री मामत्र स्थितां सदा ॥

पूजयिष्यति सद्भक्तया चतुर्दश्यामुपोषिता

॥१२॥

सा भविष्यति सौभाग्ययु्क्ता पुत्रवती सती ॥

यावत्संवत्सरं तावदेकभक्तपरायणा

॥१३॥

अक्षारलवणाशा या नारी मां पूजयिष्यति ॥

न तस्याः पतिजं दुःखं दौर्भाग्यं वा भविष्यति

॥१४॥

आश्विनस्य सिते पक्षे संप्राप्ते नवमीदिने ॥

उपवासपरा या मां निशीथे पूजयिष्यति ॥

तस्याः सौभाग्यमत्युग्रं सर्वदा वै भविष्यति

॥१५॥

एवमुक्त्वा तु सा देवी विरराम द्विजोत्तमाः ॥

ताश्च सर्वाः सुसंहृष्टा जग्मुर्दक्षस्य मंदिरम्

॥१६॥

एतस्मिन्नंतरे दक्ष आहूतः शूलपाणिना ॥

प्रोक्तः कस्मात्त्वया चन्द्रो यक्ष्मणा संनियोजितः ॥

तदयुक्तं कृतं दक्ष जामाताऽयं यतस्तव

॥१७॥

दक्ष उवाच

अनेन तनया मह्यमष्टाविंशतिसंख्यया ॥

ऊढा अखण्डचारित्रास्तास्त्यक्ता दोषवर्जिताः ॥

मुक्त्वैकां रोहिणीं देव निषिद्धेन मयाऽसकृत्

॥१८॥

ततो मयाऽतिकोपेन नियुक्तो राजयक्ष्मणा ॥

असत्यजल्पको मन्दः कामदेववशं गतः

॥१९॥

श्रीभगवानुवाच

अद्यप्रभृति सर्वासां समं स प्रचरिष्यति ॥

मद्वाक्यान्नात्र संदेहः सत्यमेतन्मयोदितम्

॥२०॥

त्वयापि यद्वचः प्रोक्तमसत्यं स्यान्न तत्क्वचित् ॥

तस्मादेष क्षयं पक्षं वृद्धिं पक्षं प्रयास्यति

॥२१॥

दक्षोऽपि बाढमित्येव तत्प्रोक्त्वा च ययौ गृहम् ॥

चंद्रस्तु दक्षकन्यास्ताः समं पश्यति सर्वदा

॥२२॥

गच्छमानः क्षयं पक्षं वृद्धिं पक्षं च सद्द्विजाः ॥

सापि देवी ततः प्रोक्ता सप्तविंशतिका क्षितौ ॥

सर्वसौभाग्यदा स्त्रीणां तस्मिन्क्षेत्रे व्यवस्थिता

॥२३॥

यश्चैतत्पुरतस्तस्याः संप्राप्ते चाष्टमीदिने ॥

शुचिर्भूत्वा पठेद्भक्त्या स सौभाग्यमवाप्नुयात्

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तविंशतिकामाहात्म्यवर्णनंनाम षडशीतितमोऽध्यायः ॥ ८६ ॥