चतुर्दशीशस्त्रहतश्राद्धनिर्णयवर्णनम्
भर्तृयज्ञ उवाच
येषां च शस्त्रमृत्युः स्यादपमृत्युरथापि वा ॥
उपसर्गान्मृतानां च विषमृत्युमुपेयुषाम्
॥१॥वह्निना च प्रदग्धानां जलमृत्युमुपेयुषाम् ॥
सर्पव्याघ्रहतानां च शृंगैरुद्बन्धनैरपि
॥२॥श्राद्धं तेषां प्रकर्तव्यं चतुर्दश्यां नराधिप ॥
तेषां तस्मिन्कृते तृप्तिस्ततस्तत्पक्षजा भवेत्
॥३॥आनर्त उवाच
कस्माच्छस्त्रहतानां च प्रोक्ता श्राद्धे चतुर्दशी ॥
नान्येषां दिवसे तत्र संशयोऽयं वदस्व मे
॥४॥एकोद्दिष्टं न शंसंति सपिण्डीकरणं परम् ॥
कस्मात्तत्र प्रकर्तव्यं वदैतन्मम विस्त रात्
॥५॥कस्मान्न पार्वणं तत्र क्रियते दिवसे स्थिते ॥
प्रेतपक्षे विशेषेण कृते श्राद्धेऽखिलेऽपि च
॥६॥भर्तृयज्ञउवाच
बृहत्कल्पे पुरा राजन्हिरण्याक्षो महासुरः ॥
बभूव बलवाञ्छूरः सर्वदेवभयंकरः
॥७॥ब्रह्मा प्रतोषितस्तेन विधाय विविधं तपः ॥
कृष्णपक्षे विशेषेण नभस्ये मासि संस्थिते
॥८॥ब्रह्मोवाच
परितुष्टोस्मि ते वत्स प्रार्थयस्व यथेप्सितम् ॥
अदेयमपि दास्यामि तस्मात्प्रार्थय मा चिरम्
॥९॥हिरण्याक्ष उवाच
भूताः प्रेताः पिशाचाश्च राक्षसा दैत्यदानवाः ॥
बुभुक्षिताः प्रयाचंते मां नित्यं पद्मसंभव
॥१०॥प्रेतपक्षे कृते श्राद्धे कन्यासंस्थे दिवाकरे ॥
एकस्मिन्नहनि प्रायस्तृप्तिः स्याद्वर्षसंभवा
॥११॥तत्त्वमद्य दिनं देहि तेभ्यः कमलसम्भव ॥
तेन तृप्तिं गताः सर्वे स्थास्यंत्यब्दं पितामह
॥१२॥श्रीब्रह्मोवाच
यः कश्चिन्मानवः श्राद्धं स्वपितृभ्यः प्रदास्यति ॥
प्रेतपक्षे चतुर्दश्यां नभस्ये मा सि संस्थिते
॥१३॥प्रेतानां राक्षसानां च भूतादीनां भविष्यति ॥
मम वाक्यादसंदिग्धं ये चान्ये कीर्तितास्त्वया
॥१४॥दुर्मृत्युना मृता ये च संग्रामेषु हताश्च ये ॥
एकोद्दिष्टे सुतैर्दत्ते तेषां तृप्तिर्भविष्यति
॥१५॥एवमुक्त्वा ततो ब्रह्मा ततश्चादर्शनं गतः ॥
हिरण्याक्षोऽपि संहृष्टः स्वमेव भवनं ययौ
॥१६॥यच्च शस्त्रहतानां च तस्मिन्नहनि दीयते ॥
एकोद्दिष्टं नरैः श्राद्धं तत्ते वक्ष्यामि कारणम्
॥१७॥संख्ये शस्त्रहता ये च निर्विकल्पेन चेतसा ॥
युध्यमाना न ते मर्त्ये जायते मनुजाः पुनः
॥१८॥पराङ्मुखाश्च हन्यंते पलायनपरायणाः ॥
ते भवंति नराः प्रेता एतदाह पितामहः
॥१९॥सम्मुखा अपि ये दैन्यं हन्यमाना वदंति च ॥
पश्चात्तापं च वा कुर्युः प्रहारैर्जर्जरीकृताः
॥२०॥तेऽपि प्रेता भवन्तीह मनुः स्वायंभुवोऽब्रवीत् ॥
कदाचिच्चित्तचलनं शूराणामपि जायते
॥२१॥तेषां भ्रांत्या दिने तत्र श्राद्धं देयं निजैः सुतैः ॥
अपमृत्युमृतानां च सर्वेषामपि देहिनाम्
॥२२॥प्रेतत्वं जायते यस्मात्तस्माच्छ्राद्धस्य तद्दिनम् ॥
श्राद्धार्हं पार्थिवश्रेष्ठ विशेषेण प्रकीर्तितम्
॥२३॥एकोद्दिष्टं प्रकर्तव्यं यस्मात्तत्र दिने नरैः ॥
सपिंडीकरणादूर्ध्वं तत्ते वक्ष्याभि कारणम्
॥२४॥यदि प्रेतत्वमापन्नः कदाचित्स्वपिता भवेत् ।
तृप्त्यर्थं तस्य कर्तव्यं श्राद्धं तत्र दिने नृप
॥२५॥पितामहाद्यास्तत्राह्नि श्राद्धं नार्हंति कुत्रचित् ॥
अथ चेद्भ्रांतितो दद्याद्धियते(?) राक्षसैस्तु तत्
॥२६॥ब्रह्मणो वचनाद्राजन्भूतप्रेतैश्च दानवैः ॥
तेनैकोद्दिष्टमेवात्र कर्तव्यं न तु पार्वणम्
॥२७॥पितृपक्षे चतुर्दश्यां कन्यासंस्थे दिवाकरे ॥
पितामहो न गृह्णाति पित्रा तेन समं तदा
॥२८॥न च तस्य पिता राजंस्तथैव प्रपितामहः
॥२९॥एतस्मात्कारणाद्राजन्पार्वणं न विधीयते ॥
तस्मिन्नहनि संप्राप्ते व्यर्थं श्राद्धं भवेद्यतः
॥३०॥नान्यस्थानोद्भवैर्विप्रैः श्राद्धकर्मव्रतानि च ॥
नागरो नागरैः कुर्यादन्यथा तद्वृथा भवेत्
॥३१॥अन्यस्थानोद्भवैर्विप्रैर्यच्छ्राद्धं क्रियते ध्रुवम् ॥
संपूर्णं व्यर्थतां याति नागराणां क्रियापरैः
॥३२॥अथाचारपरिभ्रष्टाः श्राद्धार्हा एव नागराः ॥
वलीवर्दसमानोऽपि ज्ञातीयो यदि लभ्यते ॥
किमन्यैर्बहुभिर्विप्रैर्वेदवेदांगपारगैः
॥३३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्ध कल्पे चतुर्दशीशस्त्रहतश्राद्धनिर्णयवर्णनंनाम द्वाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२२ ॥