मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५६

3
नागरखण्डः · 256

रामनाममहिमवर्णनम्

गालव उवाच

एकदा भगवान्रुद्रः कैलासशिखरे स्थितः ॥

दधार परमां लक्ष्मीमुमया सहितः किल

॥१॥

गणानां कोटयस्तिस्रस्तं यदा पर्यवारयन् ॥

वीरबाहुर्वीरभद्रो वीरसेनश्च भृङ्गिराट्

॥२॥

रुचिस्तुटिस्तथा नन्दी पुष्पदन्तस्तथोत्कटः ॥

विकटः कण्टकश्चैव हरः केशो विघंटकः

॥३॥

मालाधरः पाशधरः शृङ्गी च नरनस्तथा ॥

पुण्योत्कटः शालिभद्रो महाभद्रो विभद्रकः

॥४॥

कणपः कालपः कालो धनपो रक्तलोचनः ॥

विकटास्यो भद्रकश्च दीर्घजिह्वो विरोचनः

॥५॥

पारदो घनदो ध्वांक्षी हंसक्री नरकस्तथा ॥

पंचशीर्षस्त्रिशीर्षश्च क्रोडदंष्ट्रो महाद्भुत

॥६॥

सिंहवक्त्रो वृषहनुः प्रचण्डस्तुंडिरेव च ॥

एते चान्ये च बहवस्तदा भवसमीपगाः

॥७॥

महादेव जयेत्युच्चैर्भद्रकालीसमन्विताः ॥

भूतप्रेतपिशाचानां समूहा यस्य वल्लभाः

॥८॥

अस्तुवंस्तं समीपस्था वसन्ते समुपागते ॥

वनराजिर्विभाति स्म नवकोरकशोभिता

॥९॥

दक्षिणानिलसंस्पर्शः कवीनां सुखकृद्बभौ ॥

वियोगिहृदयाकर्षी किंशुकः पुष्पशोभितः

॥१०॥

द्वन्द्वादिविक्रियाभावं चिक्रीडुश्च समंततः ॥

तस्मिन्विगाढे समये मनस्युन्मादके तथा

॥११॥

नंदी दंडधरः संज्ञां दृष्ट्वा चक्रे हरो परः ॥

अलं चापलदोषेण तपः कुर्वंतु भो गणाः

॥१२॥

तदा सर्वे वनमपि भूकांडजमभूत्पुनः ॥

गणास्ते तप आतस्थुर्दृष्ट्वा कान्तिंवसन्तजाम्

॥१३॥

ततः सा विश्वजननी पार्वती प्राह शंकरम् ॥

इयं ते करगा नित्यमक्षमाला महेश्वर

॥१४॥

त्वया किं जप्यते देव संदेहयति मे मनः ॥

त्वमेकः सर्व भूतानामादिकृत्सकलेश्वरः

॥१५॥

न माता न पिता बंधुस्तव जातिर्न कश्चन ॥

अहं तव परं किंचिद्वेद्मि नास्तीति किंचन

॥१६॥

श्रमेण त्वं समायुक्तो श्वासोच्छ्वासपरायणः ॥

जपन्नपि महाभक्त्या दृश्यसे त्वं मया सदा

॥१७॥

त्वत्तःपरतरं किचिद्यत्त्वं ध्यायसि चेतसा ॥

तन्मे कथय देवेश यद्यहं दयिता तव

॥१८॥

इति स्पृष्टस्तदा शंभुरुवाच हरिसेवकः ॥

हरेर्नामसहस्राणां सारं ध्यायामि नित्यशः

॥१९॥

जपामि रामनामांकमवातरं(?) ससप्तमम् ॥

चतुर्विशतिसंख्याकान्प्रादुर्भावान्हरेर्गुणान्

॥२०॥

एतेषामपि यत्सारं प्रणवाख्यं महत्फलम् ॥

द्वादशाक्षरसंयुक्तं ब्रह्मरूपं सना तनम्

॥२१॥

अक्षरत्रयसंबद्धं ग्रामत्रयसमन्वितम् ॥

सबिंदुं प्रणवं शश्वज्जपामि जपमालया

॥२२॥

वेदसारमिदं नित्यं द्व्यक्षरं सततोद्यतम् ॥

निर्मलं ह्यमृतं शांतं सदूपममृतोपमम्

॥२३॥

कलातीतं निर्वशगं निर्व्यापारं महत्परम् ॥

विश्वाधारं जगन्मध्यं कोटिब्रह्मांडबीजकम्

॥२४॥

जडं शुद्धक्रियं वापि निरंजनं नियामकम् ॥

यज्ज्ञात्वा मुच्यते क्षिप्रं घोरसंसारबंधनात्

॥२५॥

ओंकारसहितं यच्च द्वादशाक्षरबीजकम् ॥

जपतः पापकोटीनां दावाग्नित्वं प्रजायते

॥२६॥

एतदेव परं गुह्यमेतदेव परं महः ॥

एतद्धि दुर्लभं लोके लोकत्रयविभूषणम्

॥२७॥

प्राप्यते जन्मकोटीभिः शुभाशुभविनाशकम् ॥

एतदेव परं ज्ञानं द्वादशाक्षरचिन्तनम्

॥२८॥

चातुर्मास्ये विशेषेण ब्रह्मदं चिंतितप्रदम् ॥

एतदक्षरजं स्तोत्रं यः समाश्रयते सदा

॥२९॥

मनसा कर्मणा वाचा तस्य नास्ति पुनर्भवः ॥

द्वादशाक्षरसंयुक्तं चक्रद्वादशभूषितम्

॥३०॥

मासद्वादशनामानि विष्णोर्यो भक्तितत्परः ॥

शालग्रामेषु तान्युक्त्वा न्यसेदघहराणि च

॥३१॥

दिवसेदिवसे तस्य द्वादशाहफलं लभेत् ॥

द्वादशाक्षर माहात्म्यं वर्णितुं नैव शक्यते

॥३२॥

जिह्वासहस्रैरपि च ब्रह्मणापि न वार्यते ॥

महामन्त्रो ह्ययं लोके जप्यो ध्यातः स्तुतस्तथा

॥३३॥

पापहा सर्वमासेषु चातुर्मास्ये विशेषतः ॥

इदं रहस्यं वेदानां पुराणानामनेकशः

॥३४॥

स्मृतीनामपि सर्वासां द्वादशाक्षरचिन्तनम् ॥

चिंतनादेव मर्त्यानां सिद्धिर्भवति हीप्सिता

॥३५॥

पुण्यदानेन याम्येन मुक्तिर्भवति शाश्वती ॥

वर्णैस्तथाश्रमैरेव प्रणवेन समन्वितैः

॥३६॥

जपैर्ध्यानैः शमपरैर्मोक्षं यास्येत निश्चितम ॥

शूद्राणां चापि नारीणां प्रणवेन विवर्जितः

॥३७॥

प्रकृतीनां च सर्वासां न मन्त्रो द्वादशाक्षरः ॥

न जपो न तपः कार्यं कायक्लेशाद्विशुद्धिता

॥३८॥

विप्रभक्त्या च दानेन विष्णुध्यानेन सिद्ध्यति ॥

तासां मन्त्रो रामनाम ध्येयः कोट्यधिको भवेत्

॥३९॥

रामेति द्व्यक्षरजपः सर्वपापापनोदकः ॥

गच्छंस्तिष्ठञ्छयानो वा मनुजो रामकीर्तनात्

॥४०॥

इह निर्वर्ततो याति प्रान्ते हरिगणो भवेत् ॥

रामेति द्व्यक्षरो मन्त्रो मंत्रकोटिशताधिकः

॥४१॥

सर्वासां प्रकृतीनां च कथितः पापनाशकः ॥

चातुर्मास्येऽथ संप्राप्ते सोऽप्यनंतफलप्रदः

॥४२॥

चातुर्मास्ये महापुण्ये लभ्यते भक्तितत्परैः ॥

देववन्निष्फलं तेषां यमलोकस्यसेवनम्

॥४३॥

न रामादधिकं किंचित्पठनं जगतीतले ॥

रामनामाश्रया ये वै न तेषां यमयातना

॥४४॥

ये च दोषा विघ्नकरा मृतका विग्रहाश्च ये ॥

राम नामैव विलयं यांति नात्र विचारणा

॥४५॥

रमते सर्वभूतेषु स्थावरेषु चरेषु च ॥

अन्तरात्मस्वरूपेण यच्च रामेति कथ्यते ॥

रामेति मत्रराजोऽयं भयव्याधिनिषूदकः ॥

रणे विजयदश्चापि सर्वकार्यार्थसाधकः

॥४७॥

सर्वतीर्थफलः प्रोक्तो विप्राणामपि कामदः ॥

रामचन्द्रेति रामेति रामेति समुदाहृतः

॥४८॥

द्व्यक्षरो मन्त्रराजोऽयं सर्वकार्यकरो भुवि ॥

देवा अपि प्रगायंति रामनामगुणाकरम्

॥४९॥

तस्मात्त्वमपि देवेशि रामनाम सदा वद ॥

रामनाम जपेद्यो वै मुच्यते सर्वकिल्बिषैः

॥५०॥

सहस्रनामजं पुण्यं रामनाम्नैव जायते ॥

चातुर्मास्ये विशेषेण तत्पुण्यं दशधोत्तरम्

॥५१॥

हीनजातिप्रजातानां महदह्यति पातकम्

॥५२॥

रामो ह्ययं विश्वमिदं समयं स्वतेजसा व्याप्य जनांतरात्मना ॥

पुनाति जन्मांतरपातकानि स्थूलानि सूक्ष्माणि क्षणाच्च दग्ध्वा

॥५३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये रामनाममहिमवर्णनं नाम षट्पंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५६ ॥