दुःशीलेश्वरसंज्ञाप्राप्तिकारणवृत्तान्तवर्णनम्
सूत उवाच
तथान्यदपि तत्रास्ति दुर्वासःस्थापितं पुरा ॥
तल्लिंगं देवदेवस्य त्रिनेत्रस्य महात्मनः
॥१॥चैत्रमासि नरो यस्तु तमाराधयते द्विजाः ॥
नृत्यगीतप्रवाद्यैश्च त्रिकालं विहितक्षणः ॥
स नूनं तत्प्रसादेन गन्धर्वाधिपतिर्भवेत् १
॥२॥ऋषय ऊचुः
दुर्वासा नामकश्चायं केनायं स्थापितो हरः ॥
कस्मिन्काले महाभाग सर्वं नो विस्तराद्वद
॥३॥सूत उवाच
आसीत्पुरा निंबशुचो वैदिशे च पुरोत्तमे
॥४॥स च पूजयते लिंगं किंचिन्मठपतिः स्थितः ॥
स यत्किंचिदवाप्नोति वस्त्राद्यं च तथा परम्
॥५॥माहेश्वरस्य लोकस्य विक्रीणीते ततस्ततः ॥
ततो गृह्णाति नित्यं स हेम मूल्येन तस्य च
॥६॥न करोति व्ययं तस्य केवलं संचये रतः ॥
ततः कालेन महता मंजूषाऽस्य निरर्गला ॥
जाता हेममयी विप्राः कार्पण्यनिरतस्य च
॥७॥अथ संस्थाप्य भूमध्ये मंजूषां तां प्रपूरिताम् ॥
करोति व्यवहारं स कक्षां तां नैव मुंचति
॥८॥कदाचिद्देवपूजायां सोऽपि ब्राह्मणसत्तमाः ॥
विश्वासं नैव निर्याति कस्यचिच्च कथंचन
॥९॥कस्यचित्त्वथ कालस्य परवित्तापहारकः ॥
अलक्षद्ब्राह्मणस्तच्च दुःशीलाख्यो व्यचिंतयत्
॥१०॥ततः शिष्यो भविष्यामि विश्वासार्थं दुरात्मनः ॥
सुदीनैः कृपणैर्वाक्यैश्चाटुकारैः पृथग्विधैः
॥११॥आलस्यं च दिवानक्तं साधयिष्याम्यसंशयम् ॥
अन्यस्मिन्नहनि प्राप्ते दृष्ट्वा तं मठमध्यगम्
॥१२॥ततः समीपमगमद्दंडाकारं प्रणम्य च ॥
अब्रवीत्प्रांजलिर्भूत्वा विनयावनतः स्थितः
॥१३॥भगवंस्ते प्रभावोऽद्य तपसा वै मया श्रुतः
॥१४॥यदन्यस्तापसो नास्ति ईदृशोऽत्र धरातले ॥
तेनाहं दूरतः प्राप्तो वैराग्येण समन्वितः
॥१५॥संसारासारतां ज्ञात्वा जन्ममृत्युजरात्मिकाम् ॥
अर्थात्स्वप्नप्रतीकाशं यौवनं च नृणा मिह
॥१६॥यद्वत्पर्वतसंजाता नदी च क्षणभंगुरा ॥
पुत्राः कलत्राणि च वा ये चान्ये बांधवादयः
॥१७॥ते सर्वे च परिज्ञेया यथा पाप समागमाः ॥
तत्संसारसमुद्रस्य तारणार्थं ब्रवीहि मे
॥१८॥उपायं कंचिदद्यैव उपदेशे व्यवस्थितम् ॥
तरामि येन संसारं प्रसादात्तव सुव्रत
॥१९॥तस्य तद्वचनं श्रुत्वा रोमांचित तनूरुहः ॥
ज्ञात्वा माहेश्वरः कोऽयं चिंतावान्समुपस्थितः
॥२०॥यथा ब्रवीषि धन्योऽसि यस्य ते मतिरीदृशी ॥
तारुण्ये वर्तमानस्य सुकुमारस्य चैव हि ॥
तारुण्ये वर्तमानो यः शांतः सोऽत्र निगद्यते ॥
धातुषु क्षीयमाणेषु शमः कस्य न जायते
॥२२॥यद्येवं सुविरक्तिः स्यात्संसारोपरि संस्थिता ॥
समाराधय देवेशं शंकरं शशिशेखरम्
॥२३॥नान्यथा घोरजाप्येन तीर्यते भवसागरः ॥
मया सम्यक्परिज्ञातमेतच्छास्त्रसमागमात्
॥२४॥शूद्रो वा यदि वा विप्रो म्लेछो वा पापकृन्नरः ॥
शिवदीक्षासमोपेतः पुष्पमेकं तु यो न्यसैत् [
॥२५॥षडक्षरेण मंत्रेण लिंगस्योपरि भक्तितः ॥
स तां गतिमवाप्नोति यांयां यांतीह यज्विनः
॥५६॥यो ददाति प्रभक्त्या च शिवदीक्षान्विताय च ॥
वस्त्रोपानहकौपीनं स यज्ञैः किं करिष्यति
॥२७॥तच्छ्रुत्वा चरणौ तस्य दुःशीलोऽसौ तदाऽऽददे ॥
विन्यस्य स्वशिर स्ताभ्यां ततोवाक्यमुवाच ह
॥२८॥शिवदीक्षाप्रमाणेन प्रसादं कुरु मे प्रभो ॥
शुश्रूषां येन ते नित्यं प्रकरोमि समाहितः
॥२९॥ततोऽसौ तापसो विप्राश्चिंतयामास चेतमि ॥
दक्षोऽयं दृश्यते कोऽपि पुमांश्चैव समागतः
॥३०॥ममास्ति नापरः शिष्यस्तस्मादेनं करोम्यहम् ॥
ततोऽब्रवीत्करे गृह्य यद्येवं वत्स मे समम् ॥
समयं कुरु येन त्वां दीक्षयाम्यद्य चैव हि
॥३१॥त्वया कुटीरकं कार्यं मठस्यास्य विदूरतः ॥
प्रवेशो नैव कार्यस्तु ममात्रास्तं गते रवौ
॥३२॥दुःशील उवाच
तवादेशः प्रमाणं मे केवलं तापसोत्तम ॥
किं मठेन करिष्यामि विशेषाद्रा त्रिसंगमे
॥३३॥यः शिष्यो गुरुवाक्यं तु न करोति यथोदितम् ॥
तस्य व्रतं च तद्व्यर्थं नरकं च ततः परम्
॥३४॥तच्छ्रुत्वा तुष्टिमापन्नः शिवदीक्षां ततो ददौ ॥
तस्मै विनययुक्ताय तदा निंबशुचो मुनिः
॥३५॥ततःप्रभृति सोऽतीव तस्य शुश्रूषणे रतः ॥
रंजयामास तच्चित्तं परिचर्यापरायणः
॥३६॥मनसा चिन्तयानस्तु तन्मात्रार्थं दिनेदिने ॥
न च्छिद्रं वीक्षते किंचिद्वीक्षमाणोऽपि यत्नतः
॥३७॥शैवोऽपि च स कक्ष्यां तां तां मात्रां हेमसंभवाम् ॥
कथंचिन्मोक्षते भूमौ भोज्ये देवार्चनेऽपि न
॥३८॥ततोऽसौ चिन्तयामास दुःशीलो निजचेतसि ॥
मठे तावत्प्रवेशोऽस्ति नैव रात्रौ कथंचन
॥३९॥सूर्यास्तमानवेलायां यत्प्रयच्छति तत्क्षणात् ॥
परिघं सुदृढं पापस्तत्करोमि च किं पुनः
॥४०॥मठोऽयं सुशिलाबद्धो नैव खातं प्रजायते ॥
तुंगत्वान्न प्रवेशः स्यादुपायैर्विविधैः परैः
॥४१॥तत्किं विषं प्रयच्छामि शस्त्रैर्व्यापादयामि किम् ॥
दिवापि पशुमारेण पंचत्वं वा नयामि किम्
॥४२॥एवं चिन्तयतस्तस्य प्रावृट्काल उपस्थितः ॥
श्रावणस्यासिते पक्षे कर्कटस्थे दिवाकरे
॥४३॥प्राप्तो महेश्वरस्तस्य कोऽपि तत्र धनी द्रुतम् ॥
तेनोक्तं प्रणिपत्योच्चैः करिष्यामि पवित्रकम्
॥४४॥चतुर्द्दश्यामहं स्वामिन्यद्यादेशो भवेत्तव ॥
यद्यागच्छसि मे ग्रामं प्रसादेन सम न्वितः
॥४५॥सूत उवाच
तच्छ्रुत्वा तुष्टिमापन्नस्ततो निंबशुचो मुनिः ॥
तथेति चैवमुक्त्वा तं प्रेषयामास तत्क्षणात्
॥४६॥आगमिष्याम्यहं काले स्वशिष्येण समन्वितः ॥
करिष्यामि परं श्रेयस्तव वत्स न संशयः
॥४७॥अथ काले तु संप्राप्ते चिन्तयित्वा प्रभातिकम् ॥
प्रभातसमये प्राप्ते स शैवः प्रस्थितस्तदा ॥
दुःशीलेन समायुक्तः संप्रहृष्टतनूरुहः
॥४८॥ततो वै गच्छमानस्य तस्य मार्गे व्यवस्थिता ॥
पुण्या नदी सुविख्याता मुरला सागरंगमा
॥४९॥स तां दृष्ट्वाऽब्रवीद्वाक्यं वत्स शिष्य करोम्यहम् ॥
भवता सह देवार्चां मुरलायां स्थिरो भव
॥५०॥बाढमित्येव स प्रोक्त्वा संस्थितोऽस्यास्तटे शुभे ॥
सोऽपि निंबशुचस्तस्य रंजितः सर्वदा गुणैः
॥५१॥सुशिष्यं तं परिज्ञाय विश्वासं परमं गतः ॥
स्थगितां तां समादाय हेममात्रासमुद्भवाम्
॥५२॥जागेश्वरसमोपेतां स कन्थां व्याक्षिपत्क्षितौ ॥
पुरीषोत्सर्गकार्येण ततस्तोकांतरं गतः
॥५३॥यावच्चादर्शनं प्राप्तो वेतसैः परिवारितः ॥
तावन्मात्रां समादाय दुःशीलः प्रस्थितो द्रुतम् ॥
उत्तरां दिशमाश्रित्य प्रहृष्टेनांतरात्मना
॥५४॥अथासौ चागतो यावद्दुःशीलं नैव पश्यति ॥
केवलं दृश्यते कन्था जागेश्वरसमन्विता
॥५५॥ततः शीघ्रतरं शौचं किञ्चित्कृत्वा सुदुर्मनाः ॥
विनैवाचमनं प्राप्तः सा कन्था यत्र तिष्ठति
॥५६॥यावन्मात्राविहीनां च ततो ज्ञात्वा च तां हृताम् ॥
तेन शिष्येण मूर्च्छाढ्यो निपपात महीतले
॥५७॥ततश्च चेतनां प्राप्य कृच्छ्राच्चोत्थाय तत्क्षणात् ॥
शिलायां ताडयामास निजांगानि शिरस्तथा
॥५८॥हा हतोऽस्मि विनष्टोऽस्मि मुष्टस्तेन दुरात्मना ॥
किं करोमि क्व गच्छामि कथं तं वीक्षयाम्यहम्
॥५९॥ततस्तु पदवीं वीक्ष्य तस्य तां चलितो ध्रुवम् ॥
वृद्ध भावात्परिश्रांतो वावृत्य स मठं गतः
॥६०॥दुःशीलोऽपि समादाय मात्रां स्थानांतरं गतः ॥
ततस्तेन सुवर्णेन व्यवहारान्करोति सः
॥६१॥ततो गृहस्थतां प्राप्तः कृतदारपरिग्रहः ॥
वृद्धभावं समापन्नः संतानेन विवर्जितः
॥६२॥कस्यचित्त्वथ कालस्य तीर्थयात्रापरायणः ॥
भार्यया सहितो विप्रश्चमत्कारपुरं गतः
॥६३॥स्नात्वा तीर्थेषु सर्वेषु देवतायतनेषु च ॥
भ्रममाणेन संदृष्टो दुर्वासा नाम सन्मुनिः
॥६४॥निजदेवस्य सद्भक्त्या नृत्यगीतपरायणः ॥
तं च दृष्ट्वा नमस्कृत्य वाक्यमेतदुवाच सः
॥६५॥केनैतत्स्थापितं लिंगं निर्मलं शंकरोद्भवम् ॥
किं त्वं नृत्यसि गीतं च पुरोऽस्य प्रकरोषि च ॥
मुनीनां युज्यते नैव यदेतत्तव चेष्टितम्
॥६६॥दुर्वासा उवाच
मयैतत्स्थापितं लिंगं देवदेवस्य शूलिनः ॥
नृत्यगीतप्रियो यस्माद्देवदेवो महेश्वरः
॥६७॥न मेऽस्ति विभवः कश्चिद्येन भोगं करोम्यहम्
॥६८॥एतस्मिन्नंतरे प्राप्तश्चिर्भटिर्नाम योगवित् ॥
तेन पृष्टः स दुर्वासा वेदांतिकमिदं वचः
॥६९॥चिर्भटि असूर्या नाम ते लोका अंधेन तमसा वृताः ॥
तांस्ते प्रेत्याऽभिगच्छंति ये केचात्महनो जनाः
॥७०॥उपविश्य ततस्तेन तस्य दत्तस्तु निर्णयः ॥
दुःशीलेनापि तत्सर्व विज्ञातं तस्य संस्तुतम्
॥७१॥ततो विशेषतो जाता भक्तिस्तस्य हरं प्रति ॥
तं प्रणम्य ततश्चोच्चैर्वाक्यमेतदुवाच ह
॥७२॥भगवन् ब्राह्मणोऽस्मीति जात्या चैव न कर्मणा ॥
न कस्यचिन्मया दत्तं कदाचिन्नैव भोजनम् ॥
केवलं देवविप्राणां वंचयित्वा धनं हृतम् ॥
व्यसनेनाभिभूतेन द्यूतवेश्योद्भवेन च
॥७४॥तथा च ब्राह्मणेनापि मया शैवो गुरुः कृतः ॥
वंचितश्च तथानेकैश्चाटुभिर्विहृतं धनम्
॥७५॥तस्य सक्तं धनं भूयः साधुमार्गेण चाहृतम् ॥
स चापि च गुरुर्मह्यं परलोकमिहागतः
॥७६॥पश्चात्तापेन तेनैव प्रदह्यामि दिवानिशम् ॥
पुरश्चरणदानेन तत्प्रसादं कुरुष्व मे
॥७७॥अस्ति मे विपुलं वित्तं न संतानं मुनीश्वर ॥
तन्मे वद मुने श्रेयस्तद्वित्तस्य यथा भवेत् ॥
इह लोके परे चैव येन सर्वं करोम्यहम्
॥७८॥दुर्वासा उवाच
कृत्वा पापसहस्राणि पश्चाद्धर्मपरो भवेत् ॥
यः पुमान्सोऽतिकृच्छ्रेण तरेत्संसारसागरम्
॥७९॥दिनेनापि गुरुर्योऽसौ त्वया शैवो विनिर्मितः ।
अधर्मेणापि संजातः स गुरुस्तेन संशयः
॥८०॥ब्राह्मणो ब्रह्मचारी स्याद्ग्रहस्थस्तदनंतरम् ॥
वानप्रस्थो यतिश्चैव तत श्चैव कुटीचरः
॥८१॥बहूदकस्ततो हंसः परमश्च ततो भवेत् ॥
ततश्च मुक्तिमायाति मार्गमेनं समाश्रितः
॥८२॥त्वया पुनः कुमार्गेण यद्व्रतं ब्राह्मणेन च [।
शैवमार्गं समास्थाय तन्महापातकं कृतम्
॥८३॥दुःशील उवाच
सर्वेष्वेव हि वेदेषु रुद्रः संकीर्त्यते प्रभुः ॥
तत्किं दोषस्त्वया प्रोक्तस्तस्य दीक्षासमुद्भवः
॥८४॥दुर्वासा उवाच
सत्यमेतत्त्वया ख्यातं वेदे रुद्रः प्रकीर्तितः ॥
बहुधा वासुदेवोऽपि ब्रह्मा चैव विशेषतः
॥८५॥परं विप्रस्य या दीक्षा व्रतवंधसमुद्भवा ॥
गायत्री परमा जाप्ये गुरुर्व्रतपरो हि सः ॥
वैष्णवीं चाथ शैवीं च योऽन्यां दीक्षां समाचरेत्
॥८६॥ब्राह्मणो न भवेत्सोऽत्र यद्यपि स्यात्षडंगवित् ॥
अपरं लिंगभेदस्ते संजातः कपटादिषु
॥८७॥व्रतत्यागान्न संदेहस्तत्र ते नास्ति किंचन ॥
प्रायश्चित्तं मया सम्यक्स्मृतिमार्गेण चिंतितम्
॥८८॥दुःशील उवाच
सतां सप्तपदीं मैत्रीं प्रवदंति मनीषिणः ॥
मित्रतां तु पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु
॥८९॥अस्ति मे विपुलं वित्तं यदि तेन प्रसिद्ध्यति ॥
तद्वदस्व महाभाग येन सर्वं करोम्यहम्
॥९०॥दुर्वासा उवाच
एक एव ह्युपायोऽस्ति तव पातकनाशने ॥
तं चेत्करोषि मे वाक्याद्विशुद्धः संभविष्यसि
॥९१॥तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च ॥
द्वापरे तीर्थयात्रां च दानमेव कलौ युगे
॥९२॥सांप्रतं कलिकालोऽयं वर्तते दारुणाकृतिः ॥
तस्मात्कृष्णाजिनं देहि सर्वपापविशुद्धये
॥९३॥तथा च ते घृणाऽप्यस्ति गुरुवित्तसमुद्भवा ॥
तदर्थं कुरु तन्नाम्ना शंकरस्य निवेशनम्
॥९४॥येन तस्मादपि त्वं हि आनृण्यं यासि तत्क्षणात् ॥
अन्यत्रापि च तद्वित्तं यत्किंचिच्च प्रपद्यते
॥९५॥ब्राह्मणेभ्यो विशिष्टेभ्यो नित्यं देहि समाहितः ॥
तिलपात्रं सदा देहि सहिरण्यं विशेषतः
॥९६॥येन ते सकलं पापं देहान्नाशं प्रगच्छति ॥
अपरं चैत्रमासेऽहं सदाऽऽगच्छामि भक्तितः
॥९७॥कल्पग्रामात्सुदूराच्च प्रासादेऽत्र स्वयं कृते ॥
पुनर्यामि च तत्रैव व्रतमेतद्धि मे स्थितम्
॥९८॥तस्माच्चिंत्यस्त्वयाह्येष प्रासादो यो मया कृतः ॥
चिंतनीयं सदैवेह स्नानादिभिरनेकशः
॥९९॥दुःशील उवाच
करिष्यामि वचस्तेऽहं यथा वदसि सन्मुने
॥१००॥दुर्वासा उवाच
सर्वपापविशुद्ध्यर्थं दत्ते कृष्णाजिने द्विजः ॥
प्रयच्छ तिलपात्राणि गुप्तपापस्य शुद्धये
॥१०१॥सूत उवाच
तस्य तद्वचनं श्रुत्वा दत्तं तेन महात्मना ॥
ततः कृष्णाजिनं भक्त्या ब्राह्मणायाहिताग्नये
॥१०२॥दुर्वाससः समा देशाद्यथोक्तविधिना द्विजाः ।
यच्छतस्तिलपात्राणि तस्य नित्यं प्रभक्तितः
॥१०३॥गतपापस्य दीक्षां च ददौ निर्वाणसंभवाम् ॥
तथासौ गतपापस्य दीक्षां दत्त्वा यथाविधि
॥१०४॥ततः प्रोवाच मधुरं देहि मे गुरुदक्षिणाम्
॥१०५॥दुःशील उवाच
याचस्व त्वं प्रभो शीघ्रं यां ते यच्छामि दक्षिणाम् ॥
तां प्रदास्यामि चेच्छक्तिर्वित्तशाठ्यविवर्जिताम्
॥१०६॥दुर्वासा उवाच
कल्पग्रामं गमिष्यामि सांप्रतं वर्तते कलिः ॥
नाहमत्रागमिष्यामि यावन्नैव कृतं भवेत्
॥१०७॥अर्धनिष्पादितो ह्येष प्रासादो यो मया कृतः ॥
परिपूर्तिं त्वया नेय एषा मे गुरुदक्षिणा
॥१०८॥नृत्यगीतादिकं यच्च तथा कार्यं स्वशक्तितः ॥
पुरतोऽस्य बलिर्देयस्तथान्यत्कुसुमादिकम्
॥१०९॥एवमुक्त्वा गतः सोऽथ कल्पग्रामं मुनीश्वरः ॥
दुःशीलोऽपि तथा चक्रे यत्तेन समुदाहृतम्
॥११०॥सूत उवाच
एवं तस्य प्रभक्तस्य तत्कार्याणि प्रकुर्वतः ॥
तन्नाम्ना कीर्त्यते सोऽथ दुःशील इति संज्ञितः
॥१११॥चैत्रमासे च यो नित्यं तं च देवं प्रपश्यति ॥
क्षणं कृत्वा स पापेन वार्षिकेण प्रमुच्यते
॥११२॥यः पुनः स्नपनं तस्य सर्वं चैव करोति च ॥
त्रिंशद्वर्षोद्भवं पापं तस्य गात्रात्प्रणश्यति
॥११३॥यः पुनर्नृत्यगीताद्यं कुरुते च तदग्रतः ॥
आजन्ममरणात्पापात्सोऽपि मुक्तिमवाप्नुयात्
॥११४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुर्वासःस्थापित शिवलिंगस्य दुःशीलेश्वरसंज्ञाप्राप्तिकारणवृत्तान्तवर्णनं नाम चतुःसप्तत्युत्तर द्विशततमोऽध्यायः ॥ २७४ ॥