मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ७०

3
नागरखण्डः · 70

कार्तिकेयोत्पत्तिवृत्तांतवर्णनम्

सूत उवाच

तथान्यापि च तत्रास्ति शक्तिः पापप्रणाशिनी ॥

कार्तिकेयेन निर्मुक्ता हत्वा वै तारकं रणे

॥१॥

तथास्ति सुमहत्कुण्डं स्वच्छोदकसमावृतम् ॥

तेनैव निर्मितं तत्र यः स्नात्वा तां प्रपूजयेत् ॥

स पापान्मुच्यते सद्य आजन्ममरणांति कात्

॥२॥

ऋषय ऊचुः

कस्मिन्काले विनिर्मुक्ता सा शक्तिस्तेन नो वद ॥

किमर्थं स्वामिना तत्र किंप्रभावा वद स्वयम्

॥३॥

सूत उवाच

पुरासीत्तारकोनाम दानवोऽतिबलान्वितः ॥

हिरण्याक्षस्य दायादस्त्रैलोक्यस्य भयावहः

॥४॥

स ज्ञात्वा जनकं ध्वस्तं विष्णुना प्रभविष्णुना ॥

तपस्तेपे ततस्तीव्रं गोकर्णं प्राप्य पर्वतम्

॥५॥

यावद्वर्षसहस्रांतं शीर्णपर्णा शनः स्थितः ॥

ध्यायमानो महादेवं कायेन मनसा गिरा

॥६॥

वरुपूजोपहारैश्च नैवेद्यैर्विविधैस्ततः ॥

ततो वर्षसहस्रांते स दैत्यो दुःखसंयुतः

॥७॥

ज्ञात्वा रुद्रमसंतुष्टं ततो रौद्रं तपोऽकरोत् ॥

विनिष्कृत्त्यात्ममांसानि जुहोतिस्म हुताशने

॥८॥

ततस्तुष्टो महादेवो वृषारूढ उमापतिः ॥

सर्वैरेव गणैः सार्धं तस्य संदर्शनं ययौ

॥९॥

तत्र प्रोवाच संहृष्टस्तारनादेन नादयन् ॥

दिशः सर्वा महादेवो हर्ष गद्गदया गिरा

॥१०॥

भोभोस्तारक तुष्टोऽस्मि साहसं मेदृशं कुरु ॥

प्रार्थयस्व मनोऽभीष्टं येन ते प्रददाम्यहम्

॥११॥

तारक उवाच

अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥

यथा भवामि संग्रामे त्वां विहाय तथा कुरु

॥१२॥

भगवानुवाच

मत्प्रसादादसंदिग्धं सर्वमेतद्भविष्यति ॥

त्वया यत्प्रार्थितं दैत्य त्वमेको बलवानिह

॥१३॥

एवमुक्त्वा महादेवः स्वमेव भवनं गतः ॥

तारकश्चापि संहृष्टस्तथैवनिज मन्दिरम्

॥१४॥

ततो दानवसैन्येन महता परिवारितः ॥

गतः शक्रपुरीं योद्धुं विख्याताममरावतीम्

॥१५॥

अथाभवन्महायुद्धं देवानां दानवैः सह ॥

यावद्वर्षसहस्रांते मृत्युं कृत्वा निवर्तनम्

॥१६॥

तत्राभवत्क्षयो नित्यं देवानां रणमूर्धनि ॥

विजयो दानवानां च प्रसादाच्छूलपा णिनः

॥१७॥

ततश्चक्रुरुपायांस्ते विजयाय दिवौकसः ॥

वर्माणि सुविचित्राणि यन्त्राणि परिखास्तथा

॥१८॥

अन्यान्यपि शरीरस्य रक्षणार्थं प्रयत्नतः ॥

तथैव योधमुख्यानां विशेषाद्द्विजसत्तमाः

॥१९॥

ससृजुस्ते सुराधीशा दानवेभ्यो दिवानिशम्

॥२०॥

मुद्गरा भिंडिपालाश्च शतघ्न्योऽथ वरेषवः ॥

प्रासाः कुन्ताश्च भल्लाश्च तस्मिन्काले विनिर्मिताः ॥

विशेषाहवसंबन्धव्यूहानां प्रक्रियाश्च याः

॥२१॥

तथान्यानि विचित्राणि कूटयुद्धान्यनेकशः ॥

भीषिकाः कुहकाश्चैव शक्रजालानि कृत्स्नशः

॥२२॥

न च ते विजयं प्रापुस्तथापि द्विजसत्तमाः ॥

दानवेभ्यो महायुद्धे प्रहारैर्जर्जरीकृताः

॥२३॥

अथ प्राह सहस्राक्षो भयत्रस्तो बृहस्पतिम् ॥

दिनेदिने वयं दैत्यैर्विजयामो द्विजोत्तम

॥२४॥

यथायथा रणार्थाय सदुपायान्करोम्यहम् ॥

तथातथा पराभूतिर्जायते मे महाहवे

॥२५॥

तदुपायं सुराचार्य स्वबुद्ध्या त्वं प्रचिन्तय ॥

येन मे स्याज्जयो युद्धे तव कीर्तिरनिन्दिता ०

॥२६॥

सूत उवाच

ततो बृहस्पतिः प्राह चिरं ध्यात्वा शचीपतिम् ॥

प्रहृष्टवदनो ज्ञात्वा जयोपायं महाहवे

॥२७॥

मया शक्र परिज्ञातः स उपायो महाहवे ॥

जीयन्ते शत्रवो येन लीलयैवापि भूरिशः

॥२८॥

यदाभीष्टं वरं तेन प्रार्थितस्त्रिपुरांतकः ॥

तदैवं वचनं प्राह प्रणिपत्य मुहुर्मुहुः

॥२९॥

अजेयः सर्वदेवानां त्वत्प्रसादादहं विभो ॥

यथा भवामि संग्रामे त्वां विहाय तथा कुरु ॥

६.७०.३० न तं स्वयं महादेवः स्वशिष्यं सूदयिष्यति ॥

विषवृक्षमपि स्थाप्य कश्छिनत्ति पुनः स्वयम्

॥३१॥

यो वै पिता स पुत्रः स्याच्छ्रुतिवाक्यमिदं स्मृतम् ॥

तस्माज्जनयतु क्षिप्रं हरस्तन्नाशकृत्सुतम्

॥३२॥

येन सेनाधिपत्ये तं विनियोज्य महाहवम् ॥

कुर्मो दैत्यैः समं शस्त्रैः प्राप्नुयाम ततो जयम्

॥३३॥

एष एव उपायोऽत्र मया ते परिकीर्तितः ॥

विजयाय सहस्राक्ष नान्योऽस्ति भुवनत्रये

॥३४॥

ततो देवगणैः सर्वैः समेतः पाकशासनः ॥

तमर्थं प्रोक्तवाञ्छंभुं विनयावनतः स्थितः

॥३५॥

सुतस्य जननार्थाय कुरु यत्नं वृषध्वज ॥

येन सेनाधिपत्ये तं योजयामि दिवौकसाम्

॥३६॥

प्राप्नोम्यहं च संग्रामे विजयं त्वत्प्रसादतः ॥

निहत्य दानवान्सर्वांस्तारकेण समन्वितान्

॥३७॥

नान्यथा विजयो मे स्यात्संग्रामे दानवैः सह ॥

इति मां प्राह देवेज्यो ज्ञात्वा सम्यङ्महामतिः

॥३८॥

अथोवाच विहस्योच्चैः शंकरस्त्रिदशेश्वरम् ॥

करिष्यामि वचः क्षिप्रं तव शक्र न संशयः

॥३९॥

पुत्रमुत्पादयिष्यामि सर्वदैत्यविनाशकम् ॥

यं त्वं सेनापतिं कृत्वा जयं प्राप्स्यसि सर्वदा

॥४०॥

एवमुक्त्वा महादेवो गत्वा कैलास पर्वतम् ॥

गौर्या समं ततश्चक्रे कामधर्मं यथोचितम्

॥४१॥

हावैर्भावैः समोपेतं हास्यैरन्यैस्तदात्मिकैः ॥

यावद्वर्षसहस्रांतं दिव्यं चैव निमेषवत्

॥४२॥

अथ देवगणाः सर्वे भयसंत्रस्तमानसाः ॥

चक्रुर्मंत्रं तदर्थं हि तारकेण प्रपीडिताः

॥४३॥

सहस्रं वत्सराणां तु रतासक्तस्य शूलिनः ॥

अतिक्रांतं न देवानां तेन कृत्यं विनिर्मितम्

॥४४॥

तस्माद्गच्छामहे तत्र यत्र देवो महेश्वरः ॥

संतिष्ठते समं गौर्या कैलासे विजने स्थितः

॥४५॥

ततस्तत्रैव संजग्मुः सर्वे देवाः सवासवाः ॥

उद्वहन्तः परामार्तिं तारकारिसमुद्भवाम्

॥४६॥

अथ कैलासमासाद्य यावद्यांति भवांतिकम् ॥

निषिद्धा नंदिना तावन्न गंतव्यमतः परम्

॥४७॥

रहस्ये भगवान्सार्धं पार्वत्या समवस्थितः ॥

अस्माकमपि नो गम्यं तस्मात्तावन्न गम्यताम्

॥४८॥

ततस्तैर्विबुधैः सर्वैः प्रेषितस्तत्र चानिलः ॥

किं करोति महादेवः शीघ्रं विज्ञायतामिति

॥४९॥

अथ वायुर्गतस्तत्र यत्रास्ते भगवाञ्छिवः ॥

गौर्या सह रतासक्त आनन्दं परमं गतः

॥५०॥

अथ प्रचलिते शुक्रे स्थानादप्राप्तयोनिके ॥

देवेन वीक्षितो वायुर्नातिदूरे व्यवस्थितः

॥५१॥

ततो व्रीडा समोपेतस्तत्क्षणादेव चोत्थितः ॥

भावासक्तां प्रियां त्यक्त्वा मा मोत्तिष्ठेतिवादिनीम्

॥५२॥

अब्रवीदथ तं वायुं विनयावनतं स्थितम् ॥

किमर्थं त्वमिहायातः कच्चित्क्षेमं दिवौकसाम्

॥५३॥

वायुरुवाच

एते शक्रादयो देवा नंदिना विनिवारिताः ॥

तारकेण हतोत्साहास्तिष्ठंति गिरिरोधसि

॥५४॥

तस्मादेतान्समाभाष्य समाश्वास्य च सादरम् ॥

प्रेषयस्व द्रुतं तत्र यत्र ते दानवाः स्थिताः

॥५५॥

अथ तानाह्वयामाम तत्क्षणात्त्रिपुरांतकः ॥

संप्राह चविषण्णास्यः कृतांजलिपुटान्स्थितान्

॥५६॥

श्रीभगवानुवाच

युष्मत्कृते समारंभः पुत्रार्थं यो मया कृतः ॥

स्वस्थानाच्चलिते शुक्रे कृतो मोघोद्य वायुना

॥५७॥

एतद्वीर्यं मया धैर्यात्स्तंभितं लिंगमध्यगम् ॥

अमोघं तिष्ठते सर्वं क्व दधामि निवेद्यताम्

॥५८॥

येन संजायते पुत्रो दानवांतकरः परः ॥

सेनानाथश्च युष्माकं दुर्द्धरः समरे परैः

॥५९॥

एतत्कल्पाग्निसंकाशं धर्तुं शक्नोति नापरः ॥

विना वैश्वानरं तस्माद्दधात्वेष सनातनम्

॥६०॥

येन तत्र प्रमुञ्चामि सुताय विजयाय च ॥

एतद्वीर्यं महातीव्रं द्वादशार्कसमप्रभम्

॥६१॥

अथ प्राहुः सुराः सर्वे वह्निं संश्लाघ्य सादराः ॥

त्वं धारयाग्ने वक्त्रांते वीर्यमेतद्भवोद्भवम्

॥६२॥

ततः प्रसारयामास स्ववक्त्रं पावको द्रुतम् ॥

कुर्वञ्छक्रसमादेशमविकल्पेन चेतसा

॥६३॥

शंकरोऽप्यक्षिपत्तत्र कामबाणप्रपीडितः ॥

गौरीं भगवतीं ध्यायन्नानन्दं परमं गतः

॥६४॥

पावकोऽपि भृशं तेन कल्पाग्निसदृशेन च ॥

दह्यमानोऽक्षिपद्भूमौ शरस्तंबे सुविस्तरे

॥६५॥

एतस्मिन्नंतरे प्राप्ता भ्रममाणा इतस्ततः ॥

भार्यास्तत्र मुनीनां ताः षण्णां षट्कृत्तिकाः शुभाः

॥६६॥

तासां निदेशयामास स्वयमेव शतक्रतुः ॥

एतद्बीजं त्रिनेत्रस्य परिपाल्यं प्रयत्नतः

॥६७॥

अत्र संपत्स्यते पुत्रो द्वादशार्कसमप्रभः ॥

भवतीनामपि प्रायः पुत्रत्वं संप्रयास्यति

॥६८॥

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खंडे हाटकेश्वरक्षेत्रमाहात्म्ये कार्तिकेयोत्पत्तिवृत्तांतवर्णनंनाम सप्ततितमोऽध्यायः ॥ ६.७०.७० ॥