हाटकेश्वरक्षेत्रमाहात्म्येऽजागृहोत्पत्तिमाहात्म्यवर्णनम्
सूत उवाच
तथाऽन्यापि च तत्रास्ति देवता द्विजसत्तमाः ॥
अजागृहेति विख्याता सर्वरोगक्षयावहा
॥१॥अजापालो यदा राजा सर्वलोकहिते रतः ॥
अजारूपाः प्रयांति स्म व्याधयः सकला द्विजाः ॥
तदा रात्रौ समानीय तस्मिन्स्थाने दधाति सः
॥२॥ततस्तदाश्रयात्स्थानमजागृहमिति स्मृतम् ॥
सर्वैर्जनैर्धरा पृष्ठेदर्शनाद्व्याधिनाशनम्
॥३॥तत्रैश्वर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
अहं वः कीर्तयिष्यामि श्रोतव्यं सुसमाहितैः
॥४॥तत्रागतो द्विजः कश्चित्क्षेत्रे तापसरूपधृक् ॥
तीर्थयात्राप्रसंगेन रात्रौ प्राप्तः श्रमान्वितः
॥५॥अजावृंदमथालोक्य निविष्टं सुसुखान्वितम् ॥
रोमंथ कर्मसंयुक्तं विश्वस्तमकुतोभयम्
॥६॥स ज्ञात्वा मानुषेणात्र भवितव्यमसंशयम् ॥
न शून्याः पशवो रात्रौ स्थास्यंति विजने वने
॥७॥ततः फूत्कृत्य फूकृत्य दिवं यावन्न संदधे ॥
कश्चिद्वाचं प्रसुप्तश्च तावत्तत्रैव चिंतयन्
॥८॥अवश्यं मानुषेणात्र पशूनां रक्षणाय च ॥
आगंतव्यं कुतोऽप्याशु तस्मात्तिष्ठामि निर्भयः
॥९॥एवं तस्य प्रसुप्तस्य गता सा रजनी ततः ॥
ततस्त्वरितवत्तस्य सुश्रांतस्य द्विजोत्तमाः
॥१०॥अथ यावत्प्रभाते स प्रपश्यति निजां तनुम् ॥
तावत्कुष्ठादिभी रोगैः समंतात्परिवारिताम्
॥११॥अशक्तश्चलितुं स्थानादपि चैकं पदं क्वचित् ॥
तेजो हीनोऽपि रौद्रेण चिन्तयामास वै ततः
॥१२॥किमिदं कारणं येन ममैषा संस्थिता तनुः ॥
अकस्मादेव रोगोऽयं चलितुं नैव च क्षमः
॥१३॥एवं चिन्तयमानस्य तस्य विप्रस्य तत्क्षणात् ॥
द्वादशार्कप्रतीकाशः पुरुषः समुपागतः
॥१४॥तं यूथं कालयामास ततः संज्ञाभिराह्वयन् ॥
पृथक्त्वेन समादाय यष्टिं सव्येन पाणिना
॥१५॥अथापश्यत्स तं विप्रं व्याधिभिः सर्वतो वृतम् ॥
अशक्तं चलितुं क्वापि ततः प्रोवाच सादरम्
॥१६॥कस्त्वमेवंविधः प्राप्तः स्थाने चात्र द्विजोत्तम ॥
नास्ति राज्ये मम व्याधिः कस्यचित्कुत्रचित्स्फुटम्
॥१७॥अजोनाम नरेन्द्रोऽहं यदि ते श्रोत्रमागतः ॥
व्याधींश्च च्छागरूपेण रक्षामि जनकारणात्
॥१८॥तस्माद्ब्रूहि शरीरस्थो यस्ते व्याधिर्व्यवस्थितः ॥
येनाऽहं निग्रहं तस्य करोमि द्विजसत्तम
॥१९॥ब्राह्मण उवाच
तीर्थयात्रापरोऽहं च भ्रमामि क्षितिमंडले ॥
क्रमेणाऽत्र समायातः क्षेत्रेऽस्मिन्हाटकेश्वरे
॥२०॥निशावक्त्रे नृपश्रेष्ठ वासः संचिंतितो मया ॥
दृष्ट्वाऽमूंश्च पशून्भूप मानुषं भाव्यमेव हि
॥२१॥ततश्चात्र प्रसुप्तोऽहं पशूनामंतिके नृप
॥२२॥अथ यावत्प्रभातेऽहं प्रपश्यामि निजां तनुम् ॥
तावत्कुष्ठादिरोगैश्च समंतात्परिवारिताम्
॥२३॥नान्यत्किंचिन्नृपश्रेष्ठ कारणं वेद्मि तत्त्वतः ॥
किमेतेन नृपश्रेष्ठ भूयोभूयः प्रजल्पता ॥
बहुत्वात्कुरु तस्मान्मे यथा स्यान्नीरुजा तनुः
॥२४॥ततस्ते व्याधयः प्रोक्ता अजापालेन भूभुजा ॥
केनाज्ञा खंडिता मेऽद्य को वध्यः सांप्रतं मम
॥२५॥व्याधय ऊचुः
मा कोपं कुरु भूपाल कृत्येऽस्मिंस्त्वं कथंचन ॥
यस्मादेष द्विजो विष्टः सांप्रतं व्याधिभिस्त्रिभिः
॥२६॥राजयक्ष्मा च कुष्ठं च पामा च द्विजसत्तम ॥
एते संसर्गजा दोषास्त्रयोऽद्यापि प्रकीर्तिताः
॥२७॥एतेषां प्रथमौ यौ द्वौ निवृत्तिरहितौ स्मृतौ ॥
औषधैश्चैव मंत्रैश्च शेषा नाशं व्रजंति च
॥२८॥आभ्यां च ब्रह्मशापोस्ति येन नास्ति निवर्तनम् ॥
तस्मादत्र नृपश्रेष्ठ कुरु यत्ते क्षमं भवेत्
॥२९॥एतेन ब्राह्मणेनैते स्पृष्टा राजंस्त्रयोपि च ॥
तस्मात्तावत्तनुं चास्याविशतां तावसंशयम्
॥३०॥अपरं शृणु भूपाल वचनं नो मुखाच्च्युतम् ॥
हिताय सर्वजंतूनां तव श्रेयोविवृद्धये
॥३॥यत्र स्थानं चिरं तत्र मेदिन्यां विहितं नृप।
पुरीषं च समाविद्धा तेनैषा मेदिनी द्रुतम्
॥३२॥कालांतरेपि ये मर्त्या भूम्यामस्यां समागताः।
भूमेः स्पर्शं करिष्यंति ते भविष्यंति चेदृशाः
॥३३॥वयं शेषा महाराज व्याधयो ये व्यवस्थिताः।
त्वया मुक्त्वा भविष्यामो मन्त्रौषधवशानुगाः
॥३४॥नैतौ पुनस्तु दुर्ग्राह्यौ ब्रह्मशाप समुद्भवौ
॥३५॥तच्छ्रुत्वा पार्थिवः सोऽपि तस्मिन्स्थाने व्यवस्थितः ॥
तं ब्राह्मणं पुनः प्राह न भेतव्यं त्वया द्विज
॥३६॥अहं त्वां रक्षयिष्यामि व्याधेरस्मात्सुदारुणात् ॥
अत्र तस्मात्प्रतीक्षस्व कञ्चित्कालं ममाज्ञया
॥३७॥एवमुक्त्वा ततश्चक्रे तदर्थं सुमहत्तपः ॥
आराधयन्प्रभक्त्या च सम्यक्तां क्षेत्रदेवताम्
॥३८॥मुंडेनाथर्वशीर्षेण दिवारात्रमतंद्रितः ॥
क्षेत्रपालोत्थसूक्तेन वास्तुसूक्तेन च द्विजाः
॥३९॥सिद्धार्थै रक्तपुष्पैश्च गुग्गुलेन सुधूपितैः ॥
होमं कुर्वन्नृपः पश्चान्नीलरुद्रान्विशेषतः
॥४॥अथ नक्तावसानेन तस्य होमस्य चोत्थिता ॥
भित्त्वा धरातलं देवी मन्त्राकृष्टा विनिर्गता
॥४१॥देवता तस्य क्षेत्रस्य ततः प्रोवाच तं नृपम्
॥४२॥एकाहं तव भूपाल होमस्यास्य प्रभावतः ॥
विनिर्गता धरापृष्ठात्क्षेत्रस्यास्याधिपा स्मृता
॥४३॥तस्माद्वद महाभाग यत्ते कृत्यं करोम्यहम् ॥
परां तुष्टिमनुप्राप्ता तस्माद्ब्रूहि यदीप्सितम्
॥४४॥राजोवाच
अत्र स्थाने सदा स्थेयं त्वया देवि विशेषतः ॥
व्याधिसंसर्गजो दोषो भूमेरस्या यथा व्रजेत्
॥४५॥अद्यप्रभृति देवेशि तथा नीतिर्विधीयताम् ॥
नो चेदस्याः प्रसंगेन प्रभविष्यंति मानवाः
॥४६॥व्याधिग्रस्ता यथा विप्रो योऽयं संदृश्यते पुरः ॥
मयात्र व्याधयः कालं चिरं संस्थापिता यतः ॥
भविष्यति च मे दोषो नो चेद्देवि न संशयः
॥४७॥तथायं ब्राह्मणो रोगात्त्वत्प्रसादात्सुरेश्वरि ॥
मुक्तो भवतु मेदिन्यामत्र स्थेयं सदा त्वया
॥४८॥क्षेत्रदेवतोवाच
एतत्स्थानं मया सर्वं व्याधिदोषविवर्जितम् ॥
विहितं सर्वदैवात्र स्थास्येऽहमिह सर्वदा
॥४९॥सांप्रतं योऽत्र मे स्थाने व्याधिग्रस्तः समेष्यति ॥
पूजयिष्यति मां भक्त्या नीरोगः स भविष्यति
॥५०॥तस्मादद्य द्विजेंद्रोऽयं मां पूजयतु सादरम् ॥
भक्त्या परमया युक्तः शुचिर्भूत्वा समाहितः
॥५१॥अत्र क्षेत्रे पराऽन्यास्ति विख्याता चंद्रकूपिका।
तस्यां स्नातु यथान्यायं नित्यमेव महीपते
॥५२॥दक्षशापप्रशप्तेन या चंद्रेण पुरा कृता ॥
स्वस्नानार्थं क्षयव्याधिप्रग्रस्तेन महात्मना
॥५३॥तथा खण्डशिलानाम देवता चात्र तिष्ठति ॥
सौभाग्यकूपिकास्नानं कृत्वा तां च प्रपश्यतु
॥५४॥या कृता कामदेवेन कुष्ठग्रस्तेन वै पुरा ।
स्नपनार्थं च कुष्ठस्य विनाशाय च सादरम्
॥५५॥तथा चाप्सरसां कुण्डमत्रास्ति नृपसत्तम ॥
तत्र स्नात्वा रवेरह्नि ततः पामा प्रशाम्यति
॥९६॥सूत उवाच
ततः स ब्राह्मणः प्राप्य सुपुण्यां चन्द्रकूपिकाम् ॥
स्नानं कृत्वा च तां देवीं पूजयामास भक्तितः ॥
यावन्मासं ततो मुक्तः सत्वरं राजयक्ष्मणा ॥
५७ ततः सौभाग्यकूपीं तां दृष्ट्वा कामविनिर्मिताम् ॥
तथा स्नानं विधायाथ पश्यन्खंडशिलां च ताम्
॥५८॥तद्वन्मासेन निर्मुक्तः कुष्ठेन द्विजसत्तमाः ॥
तस्या देव्याः प्रभावेन कूपिकायां विशेषतः
॥५९॥ततश्चाप्सरसां कुंडे स्नात्वैकं रविवासरम् ॥
पामया संपरित्यक्तो बुद्ध्येव विषयात्मकः
॥६०॥ततः स ब्राह्मणो जातो द्वादशार्कसमप्रभः ॥
तोषेण महता युक्तो दत्ताशीस्तस्य भूपतेः
॥६१॥प्रययौ वांछितं देशमनुज्ञातश्च भूभुजा ॥
देवतायां प्रणामं च ताभ्यां कृत्वा पुनःपुनः
॥६२॥सोपि राजा सदोषांस्तानजारूपान्विलोक्य च ॥
स्वस्यैव ब्राह्मणं दृष्ट्वा तं तथा संप्रहर्षितः
॥६३॥स्वयं च प्रययौ तत्र यत्रस्थो हाटकेश्वरः ॥
तेनैव च शरीरेण निजकांतासमन्वितः
॥६४॥अजागृहे स्थिता यस्मात्सा देवी क्षेत्रदेवता ॥
अजागृहा ततः ख्याता सर्वत्रैव द्विजोत्तमाः
॥६५॥अद्यापि यक्ष्मणा ग्रस्तो यस्तां पूजयते नरः ॥
तैनैव विधिना सम्यक्स नीरोगो द्रुतं भवेत्
॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽजागृहोत्पत्तिमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३३ ॥