मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०४

3
नागरखण्डः · 204

प्रेतश्राद्धकथनम्

आनर्त उवाच

प्रोक्ताऽस्माकं त्वया विप्र शुद्धिर्नागरसंभवा ॥

वंशजा विस्तरेणैव यथा पृष्टोऽसि सुव्रत

॥१॥

सांप्रतं शीलजां ब्रूहि नष्टवंशश्च यो भवेत् ॥

पितामहं न जानाति न च मातामहीं निजाम् ॥

तस्य शुद्धिः कथं कार्या नागरोऽस्मीति यो वदेत्

॥२॥

विश्वामित्र उवाच

एतदर्थं पुरा पृष्टो भर्तृयज्ञश्च नागरैः ॥

नष्टवंशकृते राजन्यथा पृष्टोऽस्मि वै त्व या

॥३॥

भर्तृयज्ञ उवाच

नष्टवंशस्तु यो ब्रूयान्नागरोऽस्मीति संसदि ॥

तस्य शीलं प्रविज्ञेयं ततः शुद्धिं समादिशेत्

॥४॥

नागराणां तु ये धर्मा व्यवहाराश्च केवलाः ॥

तेषु चेद्वर्तते नित्यं संभाव्यो नागरो हि सः

॥५॥

तस्य शुद्धिकृते देयं धटं ब्राह्मणसत्तमाः ॥

धटे तु शुद्धिमापन्ने ततोऽसौ शुद्धतां व्रजेत्

॥६॥

श्राद्धार्हः कन्यकार्हश्च सोमार्हश्च विशेषतः ॥

सामान्यपदयोग्यश्च समस्ते स्थानकर्मणि

॥७॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नरोत्तम ॥

द्वितीया जायते शुद्धिर्यथा नष्टान्वये द्विजे ॥

तस्माद्वद महाराज यद्भूयः श्रोतुमर्हसि

॥८॥

आनर्त उवाच

तस्मात्ते नागरा भूत्वा विप्राश्चाष्टकुलोद्भवाः ॥

सर्वेषामुत्तमा जाताः प्राधान्येन व्यवस्थिताः

॥९॥

तपसः किं प्रभावः स तेषां वा यजनोद्भवः ॥

विद्योद्भवोऽथवा विप्र किं वा दानसमुद्भवः

॥१०॥

विश्वामित्र उवाच

ते सर्वे गुणसंपन्ना यथान्ये नागरास्तथा ॥

विशेषश्चापरस्तेषां ते शक्रेण प्रतिष्ठिताः

॥११॥

तेन ते गौरवं प्राप्ताः सर्वेषां तु द्विजन्मनाम्

॥१२॥

आनर्त उवाच

कस्मिन्काले तु ते विप्राः शक्रे णात्र प्रतिष्ठिताः ॥

किमर्थं च वदास्माकं विस्तरेण महामते

॥१३॥

विश्वामित्र उवाच

हिरण्याक्ष इति ख्यातः पुराऽऽसीद्दानवो त्तमः ॥

अभवत्तस्य संग्रामः शक्रेण सह दारुणः

॥१४॥

तत्र देवासुरे युद्धे मृता भूरिदिवौकसः ॥

दानवाश्च महाराज परस्परजिगीषवः

॥१५॥

अथ ते दानवाः संख्ये शक्रेण विनिपातिताः ॥

विद्याबलेन ताञ्छुक्रः सजीवान्कुरुते पुनः

॥१६॥

देवाश्च निधनं प्राप्ता न जीवंति कथंचन ॥

कस्यचित्त्वथ कालस्य विष्णुं प्रोवाच वृत्रहा

॥१७॥

धारातीर्थमृतानां च प्रहारैः सन्मुखैः प्रभो ॥

या गतिश्च समादिष्टा तां मे वद जनार्दन

॥१८॥

पराङ्मुखा मृता ये च पलायनपरायणाः ॥

तेषामपि गतिं ब्रूहि यादृग्जायेतवाच्युत

॥१९॥

विष्णुरुवाच

धारातीर्थमृतानां च सन्मुखानां महाहवे ॥

यथा चोच्छिन्नबीजानां पुनर्जन्म न विद्यते

॥२०॥

ये पुनः पृष्ठदेशे तु हन्यते भयविक्लवाः ॥

भुज्यमानाः परैस्ते च प्रेताः स्युस्त्रिदशाधिप

॥२१॥

इन्द्र उवाच

केचिद्देवा मृता युद्धे युध्यमानाश्च सन्मुखाः ॥

तथैवान्ये मया दृष्टा हन्यमानाः पराङ्मुखाः ॥

प्रेतत्वं दानवानां च सर्वेषां स्यान्न वा प्रभो

॥२२॥

विष्णुरुवाच

असंशयं सहस्राक्ष हता युद्धे पराङ्मुखाः ॥

प्रेतत्वे यांति ते सर्वे देवा वा मानुषा यदि

॥२३॥

विषादग्नेः कुलघ्नानां तया चैवात्मघातिनाम् ॥

दंष्ट्रिभिर्हतदेहानां शृंगिभिश्च सुरेश्वर ॥

प्रेतत्वं जायते नूनं सत्यमेतदसंशयम्

॥२४॥

इन्द्र उवाच

कथं तेषां भवेन्मुक्तिः प्रेतत्वाद्दारुणाद्विभो ॥

एतन्मे सर्वमाचक्ष्व येन यत्नं करोम्यहम्

॥२५॥

श्रीभगवानुवाच

तेषां संयुज्यते श्राद्धं कन्यासंस्थे दिवाकरे ॥

कृष्णपक्षे चतुर्दश्यां नभस्यस्य सुरेश्वर

॥२६॥

गयायां भक्तिपूर्वं तु पितामहवचो यथा ॥

ततः प्रयांति ते मोक्षं सत्यमेतदसंशयम्

॥२७॥

इन्द्र उवाच

कस्मात्तत्र दिने श्राद्धं क्रियते मधुसूदन ॥

शस्त्रैर्विनिहतानां च सर्वं मे विस्तराद्वद

॥२८॥

श्रीभगवानुवाच

भूतप्रेतपिशाचैश्च कूष्मांडै राक्षसैरपि ॥

पुरा संप्रार्थितः शंभुर्दिने तत्र समागते ॥

अद्यैकं दिवसं देव कन्यासंस्थे दिवाकरे

॥२९॥

अस्माकं देहि येन स्यात्तृप्तिर्वर्षसमुद्भवा ॥

प्रदत्ते वंशजैः श्राद्धे दीनानां त्वं दयां कुरु

॥३०॥

श्रीभगवानुवाच

यः करिष्यति वै श्राद्धमस्मिन्नहनि संस्थिते ॥

कृष्णपक्षे चतुर्दश्यां नभस्यस्य च वंशजः ॥

भविष्यति परा प्रीतिर्यावत्संवत्सरः स्थितः

॥३१॥

यः पुनस्तु गयां गत्वा युष्मद्वंशसमुद्भवः ॥

करिष्यति तथा श्राद्धं तेन मुक्तिमवाप्स्यथ

॥३२॥

शस्त्रेण निहतानां च स्वर्गस्थानामपि ध्रुवम् ॥

न करिष्यति यः श्राद्धं तस्मिन्नहनि संस्थिते

॥३३॥

क्षुत्पिपासार्तदेहाश्च पितरस्तस्य दुःखिताः ॥

स्थास्यंति वत्सरं यावदेतदाह पितामहः

॥३४॥

तस्मात्सर्वप्रयत्नेन तस्मिन्नहनि कारयेत् ॥

अन्यमुद्दिश्य तत्सर्वं प्रेतानामिह जायते

॥३५॥

ततो भगवता दत्ता तेषां चैव तु सा तिथिः ॥

श्रा द्धकर्मणि संजाते विना शस्त्रहतं जनम्

॥३६॥

संमुखस्यापि संग्रामे युध्यमानस्य देहिनः ॥

कदाचिच्चलते चित्तं तीक्ष्णशस्त्रहतस्य च

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये शक्रविष्णुसंवादे प्रेतश्राद्धकथनंनाम चतुरधिकद्विशततमोऽध्यायः ॥ २०४ ॥