ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः
सूत उवाच
ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः ॥
पपात धरणीपृष्ठे पद्भ्यां गत्वा वनांतरम्
॥१॥अथाऽपश्यद्वियत्स्थानात्स त्रीन्प्रेतान्सु दारुणान् ॥
ऊर्ध्वकेशान्सुरक्ताक्षान्कृष्णदन्तान्कृशोदरान्
॥२॥तान्दृष्ट्वा भयसंत्रस्तो विशेषेण स भूपतिः ॥
निराशो जीविते कृच्छ्रादिदं वचनमब्रवीत्
॥३॥के यूयं विकृताकारा मया दृष्टा न कर्हिचित् ॥
एवंविधा नृलोकेऽत्र भ्रमता प्राग्विभीषणाः
॥४॥विदूरथो नरेन्द्रोऽहं क्षुत्पिपासातिपीडितः ॥
मृगलिप्सुरिह प्राप्तो वने जन्तुविवर्जिते
॥५॥ततस्तेषां तु यो ज्येष्ठो मांसादः प्रत्युवाच तम् ॥
कृतांजलिपुटो भूत्वा विनयावनतः स्थितः
॥६॥वयं प्रेता महाराज निवसामोऽत्र कानने ॥
स्वकर्मजनिताद्दोषाद्दुःखेन महता वृताः
॥७॥अहं मांसादकोनाम द्वितीयोऽयं विदैवतः ॥
कृतघ्नश्च तृतीयस्तु त्रयाणामेष पापकृत् ॥
राजोवाच ॥
सर्वेषां देहि नां नाम जायते पितृमातृजम् ॥
किमेतत्कारणं येन सर्वे यूयं स्वनामकाः
॥९॥तच्छ्रुत्वा प्राह मांसादः कर्मनामानि पार्थिव ॥
मिथः कृतानि संज्ञार्थमस्माभिः स्वयमेव हि
॥१०॥शृणुष्वाऽवहितो भूत्वा सर्वेषां नः पृथक्पृथक् ॥
कर्मणा येन संजातं प्रेतत्वमिह भूमिप
॥११॥वयं हि ब्राह्मणा जात्या वैदिशाख्ये पुरे नृप ॥
देवरातस्य विप्रस्य गृहे जाता महात्मनः
॥१२॥नास्तिका भिन्नमर्यादाः परदाररताः सदा ॥
पाप कर्मरतास्तत्र शुभकर्मविवर्जिताः
॥१३॥जिह्वालौल्यप्रसंगेन मया भुक्तं सदाऽऽमिषम् ॥
तेन मे कर्मजं नाम मांसादाख्यं व्यवस्थितम्
॥१४॥द्वितीयोऽयं महाराज यस्तिष्ठति तवाऽग्रतः ॥
अनेनाऽन्नं सदा भुक्तमकृत्वा देवतार्चनम्
॥१५॥तेन कर्मविपाकेन प्रेतयोनिं समाश्रितः ॥
विदैवत इति ख्यातो द्वितीयोऽयं सुपापकृत्
॥१६॥सदैवाऽनुष्ठिताऽनेन सुपापेन कृतघ्नता ॥
कृतघ्नः प्रोच्यते तेन कर्मणा नृपसत्तम
॥१७॥राजोवाच
आहारेण नृलोकेऽस्मिन्सर्वे जीवन्ति जन्तवः ॥
युष्माकं कतमो योऽत्र प्रोच्यतां मे सविस्तरम्
॥१८॥मांसाद उवाच
भोज्यकाले गृहे यत्र स्त्रीणां युद्धं प्रवर्तते ।
अपि मन्त्रौषधीप्रायं प्रेता भुंजति तत्र हि
॥१९॥भुज्यते यत्र भूपाल वेंश्वदेवं विना नरैः ॥
पाकस्याग्रमदत्त्वा च प्रेता भुंजति तत्र च
॥२०॥रात्रौ यत्क्रियते श्राद्धं दानं वा पर्ववर्जितम् ॥
तत्सर्वं नृपशार्दूल प्रेतानां भोजनं भवेत्
॥२१॥यस्मिन्नो मार्जनं हर्म्ये क्रियते नोपलेपनम् ॥
न मांगल्यं च सत्कारः प्रेता भुंजति तत्र हि
॥२२॥भिन्नभाण्डपरित्यागो यत्र न क्रियते गृहे ॥
न च वेदध्वनिर्यत्र प्रेता भुञ्जंति तत्र हि
॥२३॥यच्छ्राद्धं दक्षिणाहीनं क्रियाहीनं च वा नृप ॥
तथा रजस्वलादृष्टं तदस्माकं प्रजायते
॥२४॥हीनांगा ह्यधिकांगा वा यस्मिञ्च्छ्राद्धे द्विजातयः ॥
भुंजते वृषलीनाथास्तदस्माकं प्रजायते
॥२५॥अतिथिर्यत्र संप्राप्तः श्राद्धकाल उपस्थिते ॥
अपूजितो गृहाद्याति तच्छ्राद्धं प्रेततृप्तिदम्
॥२६॥किं वा ते बहुनोक्तेन शृणु संक्षेपतो नृप ॥
अस्माकं भोजनं नित्यं यत्त्वं श्रुत्वा विगर्हसि
॥२७॥यदन्नं केशसूत्रास्थिश्लेष्मादिभिरुपप्लुतम् ॥
हीनजात्यैश्च संस्पृष्टं तदस्माकं प्रजायते
॥२८॥राजोवाच
केन कर्मविपाकेन प्रेतत्वं जायते नृणाम् ॥
एतन्मे सर्वमाचक्ष्व मांसाद मम पृच्छतः
॥२९॥मांसाद उवाच
यो भवेन्मानवः क्षुद्रस्तथा पैशुन्यसूचकः ॥
मृष्टमांसाशने सक्तः स प्रेतो जायते नरः
॥३॥अकृत्वा देवकार्यं च तथा च पितृतर्पणम् ॥
योऽश्नात्यदत्त्वा भृत्येभ्यः स प्रेतो जायते नरः
॥३॥परदाररतश्चैव परवित्तापहारकः ॥
परापवादसंतुष्टः स प्रेतो जायते नरः
॥३२॥कन्यां यच्छति वृद्धाय नीचाय धनलिप्सया ॥
कुरूपाय कुशीलाय स प्रेतो जायते नरः
॥३३॥कुले जातां विनीतां च धर्मपत्नीं सुखोच्छ्रिताम् ॥
यस्त्यजेद्दोषनिर्मुक्तां स प्रेतो जायते नरः
॥३४॥देवस्त्रीगुरुवित्तानि यो गृहीत्वा न यच्छति ॥
विशेषाद्ब्राह्मणस्वं च स प्रेतो जायते नरः
॥३५॥परव्यसनसंतुष्टः कृतघ्नो गुरुतल्पगः ॥
दूषको देवविप्राणां स प्रेतो जायते नरः
॥३६॥दीयमानस्य वित्तस्य ब्राह्मणेभ्यः सुपापकृत् ॥
विघ्नमारभते यस्तु स प्रेतो जायते नरः
॥३७॥शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥
स प्रेतो जायते राजन्यद्यपि स्यात्षडंगवित्
॥३८॥कुलदेशोचितं धर्मं यस्त्यक्त्वाऽन्यत्समाचरेत् ॥
कामाद्वा यदि वा लोभात्स प्रेतो जायते नरः
॥३९॥एतत्ते सर्वमाख्यातं मया पार्थिवसत्तम ॥
येन कर्मविपाकेन प्रेतः संजायते नरः
॥४०॥राजोवाच
कृतेन कर्मणा येन न प्रेतो जायते नरः ॥
तन्मे कीर्तय मांसाद विस्तरेण विशेषतः
॥४१॥मांसाद उवाच
मातृवत्परदारान्यः परद्रव्याणि लोष्टवत् ॥
यः पश्यत्यात्मवज्जंतून्न प्रेतो जायते नरः
॥४२॥अन्नदानपरो नित्यं विशेषेणातिथिप्रियः ॥
स्वाध्यायव्रतशीलो यो न प्रेतो जायते नरः
॥४३॥समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः ॥
समो मानापमानेषु न प्रेतो जायते नरः
॥४४॥दानधर्मप्रवृत्तानां धर्ममार्गा नुयायिनाम् ॥
प्रोत्साहं वर्धयेद्यस्तु न प्रेतो जायते नरः
॥४९॥यूकामत्कुणदंशादीन्सर्वसत्त्वानि यो नरः ॥
पुत्रवत्पालयेन्नित्यं न प्रेतो जायते नरः
॥४६॥सदा यज्ञक्रियोपेतः सदा तीर्थपरायणः ॥
शास्त्रश्रवणसंयुक्तो न प्रेतो जायते नरः
॥४७॥वापीकूपतडागानामारामाणां विशे षतः ॥
आरोपकः प्रपाणां च न प्रेतो जायते नरः
॥४८॥एतद्वः सर्वमाख्यातं स्वगुह्यं वसुधाधिप ॥
निर्विण्णाः प्रेतभावेन तस्मात्त्वं नो गतिर्भव
॥४९॥गत्वा गयाशिरः पुण्यमेकैकस्य पृथक्पृथक् ॥
श्राद्धं देहि महीपाल त्रयाणामपि सादरम्
॥५०॥प्रेतत्वं याति येनेदं त्वत्प्र सादात्सुदारुणम् ॥
नाऽन्यथा मुक्तिरस्माकं भविष्यति कथंचन
॥५१॥राजोवाच
ईदृग्जातिस्मृतिर्यस्यां प्रेतयोनौ च खे गतिः ॥
धर्माधर्मपरिज्ञानं तच्च कस्मात्प्रनिंदसि
॥५२॥मांसाद उवाच
प्रेतयोनिरियं राजन्नवमी देवसंज्ञिता ॥
गुणत्रयसमायुक्ता शेषैर्दोषैः समंततः
॥५३॥एका जातिस्मृतिः सम्यगस्यामेवप्रजायते ॥
खेचरत्वं तथैवान्यद्धर्माधर्मविनिश्चयः
॥५४॥एतद्गुणत्रयं प्रोक्तं प्रेतयोनौ नृपोत्तम ॥
दोषानपि च ते वच्मि ताञ्च्छृणुष्व समाहितः
॥५५॥यदि तावद्वनादस्माद्यामोन्यत्र वयं नृप ॥
अदृष्टमुद्गराघातैर्नूनं हन्यामहे ततः
॥५६॥तथा धर्मक्रियाः सर्वा मानुषाणामुदाहृताः ॥
न प्रेतानां न देवानां नान्येषां मानुषं विना
॥५७॥पश्यामो दूरतो राजञ्जलपूर्णाञ्जला शयान् ॥
पिपासाकुलिताः श्रांता भास्करे वृषसंस्थिते
॥५८॥गच्छामः संनिधौ तेषां यदि पार्थिवसतम ॥
अदृष्टमुद्गराघातैर्वयं हन्यामहे ततः
॥५९॥तथा रसवती सिद्धाः पश्यामो दूरसंस्थिताः ॥
क्षुधाविष्टा गृहस्थानां गृहेषु विविधा नृप
॥६०॥तथा सुफलिनो वृक्षान्कलपक्षिभिरावृतान् ॥
स्निग्धान्सच्छाययोपेतान्सेवितुं न लभामहे
॥६१॥किंवा ते बहुनोक्तेन यद्यत्कर्म विगर्हितम् ॥
क्लेशदं च तदस्माकं स्वयमेवोपतिष्ठते
॥६२॥न च्छिद्रेण विनाऽस्माकं प्राणयात्रा प्रजायते ॥
न जलानि न च च्छाया न यानं न च वाहनम्
॥६३॥एतस्मात्कारणान्नित्यं भ्रमामश्छिद्रहेतवे ॥
प्राप्ते रात्रिमुखे राजन्न प्रातर्न च वासरे
॥६४॥यत्त्वं शंससि चाऽस्माकं खेचरत्वं महीपते ॥
व्यर्थं तदपि न श्रेयः शृणु तत्रापि कारणम्
॥६५॥क्रियते खेचरत्वेन किंकिं धर्मं विनिश्चयैः ॥
यतो न सिध्यते मोक्षो जाति स्मृत्यादिकं तथा
॥६६॥तस्माद्दोषादिमे राजन्गुणा यद्यपि कीर्तिताः ॥
प्रेतानां यान्समाश्रित्य काचित्सिद्धिर्न जायते
॥६७॥विषादो जायते भूयो गुणैरेतैर्नराधिप ॥
अशक्ताः प्रेतयोगाद्वै सर्वस्य शुभकर्मणः
॥६८॥राजोवाच
यदि यास्यामि भूयोऽहं गृहमस्मान्महावनात् ॥
तत्करिष्यामि सर्वेषां गयाश्राद्धमसंशयम्
॥६९॥तारयिष्यामि सर्वांश्च सर्वपापैः प्रयत्नतः ॥
अप्यात्मदेहदानेन सत्येनात्मानमालभे
॥७०॥यस्माद्धृद्गतशंका मे हृता युष्माभिरद्य वै ॥
येन तत्प्राप्य युष्माकमुपकारं करोम्यहम्
॥७१॥मांसाद उवाच
इतः स्थानान्महाराज नातिदूरे जलाशयः ।
अस्ति नानाद्रुमोपेतश्चित्ताह्लादकरः परः
॥७२॥तस्मादुदङ्मुखो गच्छ यत्र ते जलपक्षिणः ॥
दृश्यंते व्योममार्गेण प्रगच्छतः समंततः
॥७३॥सूत उवाच
अथासौ नृपशार्दूलः समुत्थाय शनैःशनैः ॥
सौम्यां दिशं समुद्दिश्य प्रतस्थे स तु दुःखितः
॥७४॥एवं प्रगच्छता तेन क्षुत्पिपासाकुलेन च ।
अदूरादेव संदृष्टं नीलं द्रुमकदंबकम् ॥
भ्रममाणैर्बकैर्हंसैः सारसैर्मद्गुभिस्तथा
॥७६॥स गत्वा सलिलं तत्र तद्वातेन महीपतिः ॥
आहूत इव शीतेन प्रययौ त्वरयान्वितः
॥७६॥अथाऽपश्यन्मनोहारि सौम्यसत्त्वनिषेवितम् ॥
आश्रमं ह्रदतीरस्थं तापसैः सर्वतो वृतम्
॥७७॥पुष्पितैः फलितैर्वृक्षैः समंतात्परिवेष्टितम् ॥
विचित्रैर्मधुरारावैर्नादितं विहगोत्तमैः
॥७८॥तत्रापश्यन्नगाधस्तात्तपस्विगणसेवितम् ॥
शिवधर्मपरं शांतं जैमिनिं मुनिसत्तमम् ॥
अथ गत्वा स राजेंद्रः प्रणिपत्य मुनीश्वरम् ॥
तथान्यानपि तच्छिष्यान्निपपात धरातले
॥८०॥ते दृष्ट्वाऽदृष्टपूर्वं तं राजलक्षणलक्षितम् ॥
धूलिधूसरितांगं च भस्मावृतमिवाचलम्
॥८१॥मन्यमाना महीपालं विस्मयोत्फुल्ललोचनाः ॥
प्रोचुश्च मधुरैर्वाक्यैराशीर्वादपुरःसरैः
॥८२॥कुतस्त्वमनुसंप्राप्तो वनेऽस्मिञ्जनवर्जिते ॥
एकाकी सुकुमारांगः पदातिः श्रमविह्वलः
॥९३॥पार्थिवस्येव लिंगानि दृश्यंते तव भूरिशः ॥
न विद्मो निश्चयं तस्माद्वदागमनकारणम्
॥८४॥अथोवाच नृपः कृच्छ्रात्पिपासा मां प्रबाधते ॥
तस्माद्वदत पानीयं यत्पीत्वा कीर्तयाम्यहम्
॥८५॥ततस्तैर्दर्शितं तोयं समीपे यन्महीपतेः ॥
सोऽपि पीत्वाऽवगाह्याथ वितृष्णः समपद्यत
॥८६॥ततः फलानि पक्वानि तरूणां पतितान्यधः ॥
सुमृष्टानि समादाय भक्षयामास वांछया
॥८७॥ततस्तृप्तिं परां प्राप्य गत्वा जैमिनिसंनिधौ ॥
उपविष्टः प्रणम्योच्चैस्तथान्यांश्च मुनीन्क्रमात्
॥८८॥उवाच च निजां वार्तां कृतांजलिपुटः स्थितः ॥
स पृष्टस्तापसैः सर्वैः सुविस्मयसमन्वितैः
॥८९॥विदूरथो महीपोऽहं माहिष्मत्यां कृतास्पदः ॥
मृगलिप्सुर्वने घोरे प्रविष्टः सैनिकैः सह
॥९०॥ततो मे भ्रममाणस्य प्रणष्टाः सर्वसैनिकाः ॥
गुल्मैरंतरिताश्चाऽन्ये न जानेऽहं कथं स्थिताः
॥९१॥आसीद्धयो ममाऽधस्ताज्जात्यः सर्वगुणान्वितः ॥
सोऽपि कर्मविपाकेन पञ्चत्वं समुपस्थितः ।
ा ९२ ॥
भ्रममाणस्त्वहं प्राप्त आयुःशेषतयात्र च ॥
तद्ब्रूत कः प्रदेशोऽयं कियद्दूरे च मे पुरी
॥९३॥ततस्ते तापसाः प्रोचुर्विद्महे न वयं पुरीम् ॥
त्वां च देशं च ते राजन्कोऽयं देशश्च कीर्त्यते
॥९४॥नरेन्द्रैर्नैव नः कार्यं न दिशैर्न पुरैर्नृप ॥
वनेचरा वयं नित्यं शिवाराधनतत्पराः
॥९५॥सर्वे शीर्णानि वृक्षाणां पुष्पाणि च फलानि च ॥
भक्षयामोऽथ पत्राणि शरी रस्थितिहेतुना
॥९६॥मानुषैः सह संसर्गं संभाषं च नराधिप ॥
न कुर्मो न च पश्यामो गच्छामोऽन्यत्र दूरतः
॥९७॥एकैकस्य तरोर्मूले दिवसं वा दिनद्वयम् ॥
तिष्ठामो न भवेद्येन ममत्वं तत्समुद्भवम्
॥९८॥कारणात्तव राजेंद्र निशामेतां वनस्पतौ ॥
नेष्यामोऽन्यत्र यास्यामः प्रभा तेऽन्यत्र कानने
॥९९॥एकाकिनं पदातिं च विशस्त्रं श्रमविह्वलम् ॥
त्वां दृष्ट्वा भूपतेऽस्माकं दया जाता ततोऽधिका ॥
एकाकी पार्थिवेन्द्रोऽयं नेष्यति च कथं निशाम् ॥
वनेऽस्मिन्मंत्रयित्वैवं ततोऽत्रैव व्यवस्थिताः
॥१०१॥तस्मादत्रैव नेष्यामः समेताः शर्वरीमिमाम् ॥
गंतव्यं प्रातरुत्थाय ततः सर्वैर्यदृच्छया १०२ ॥
एवं संवदतां तेषां भगवांस्तीक्ष्णदीधितिः ॥
अस्ताचलमनुप्राप्तः कुंकुमक्षोदसंनिभः
॥१०३॥अथ तास्तापसान्राजा प्रोवाच प्रणतः स्थितः ॥
संध्याकालः समायातः सांप्रतं मुनिसत्तमाः ॥
तस्मात्संध्याविधिः कार्यः सर्वैरेव यथोचितः
॥१०४॥अथ ते मुनयः सर्वे स च राजा तथा द्विजाः ॥
चक्रुः सायंतनं कर्म यथोद्दिष्टं पुरातनैः
॥१०५॥कामिभिः कामिनीलोकैः प्रियोक्तैरभिवां छिता ॥
असत्स्त्रीभिर्विशेषेण संप्राप्ता रजनी ततः
॥१०६॥पीयूषार्णववेलेव विषवृक्षलतेव च ॥
उलूकैश्चक्रवाकैश्च युगपद्या विलोक्यते
॥१०७॥उलूका राक्षसाश्चौराः कामिनः कुलटांऽगनाः ॥
यां वांछंति सदा सोत्काः सुवृष्टिमिव कर्षुकाः
॥१०८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांसादवचनादृष्याश्रमपदं प्राप्तस्य विदूरथस्य मुनिभिः सह संवादपूर्वकसांयतनकर्मादिविधानवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥