विश्वामित्रराज्यपरित्यागवर्णनम्
सूत उवाच
गाधेस्तु याऽथ पत्नी च प्राशनाच्चरु कस्य वै ॥
सापि गर्भं दधे तत्र वासरे मन्त्रतः शुभा
॥१॥सा च गर्भसमोपेता यदा जाता द्विजोत्तमाः ॥
तीर्थयात्रापरा साध्वी जाता व्रतपरायणा
॥२॥वेदध्वनिर्भवेद्यत्र तत्र हर्षसमन्विता ॥
पुलकांचितसर्वांगी सा शुश्राव च सर्वदा ॥
त्यक्त्वा राज्योचितान्सर्वानलंकारान्सुखानि च
॥३॥अथ सापि द्विजश्रेष्ठा दशमे मासि संस्थिते ॥
सुषुवे सुप्रभं पुत्रं ब्राह्म्या लक्ष्म्या समावृतम्
॥४॥विश्वामित्रस्तथा ख्यातस्त्रैलोक्ये सचरा चरे ॥
ववृधे स महाभागो नित्यमेवाधिकं नृणाम्
॥५॥शुक्लपक्षं समासाद्य तारापतिरिवांबरे ॥
यदासौ यौवनोपेतः संजातो द्विजसत्तमाः
॥६॥राज्यक्षमस्तदा राज्ये गाधिना स नियोजितः ॥
अनिच्छमानः स्वं राज्यं पितृपैतामहं महत्
॥७॥वेदाध्ययनसंपन्नो नित्यं च पठते हि सः ॥
ब्राह्मणोचितमार्गेण गच्छमानो दिवानिशम्
॥८॥संस्थाप्याथ सुतं राज्ये बभूव वनगोचरः ॥
सकलत्रो महाभागो वानप्रस्थाश्रमे रतः
॥९॥विश्वामित्रोऽपि राज्यस्थो द्विजसंपूजने रतः ॥
द्विजैः सर्वैश्चचाराथ स्नानजाप्यपरायणः
॥१०॥कस्यचित्त्वथ कालस्य पापर्द्धिं समुपागतः ॥
प्रविवेश वनं रौद्रं नानामृगसमाकुलम्
॥११॥जघान स वने तत्र वराहान्संबरान्गजान् ॥
तरक्षांश्च रुरून्खड्गानारण्यान्महिषांस्तथा
॥१२॥सिंहान्व्याघ्रान्महासर्पाञ्छरभांश्च द्विजोत्तमाः ॥
मृगयासक्तचित्तः स भ्रममाणो महावने
॥१३॥मध्याह्नसमये प्राप्ते वृषस्थे च दिवाकरे ॥
क्षुत्पिपासापरिश्रांतो विश्वामित्रो द्विजोत्तमाः
॥१४॥आससादाश्रमं पुण्यं वसिष्ठस्य महात्मनः ॥
वसिष्ठोऽपि समालोक्य विश्वामित्रं नृपो त्तमम्
॥१५॥निजाश्रमे तु संप्राप्तं सानन्दं सम्मुखो ययौ ॥
दत्त्वा तस्मै तदार्घ्यं च मधुपर्कं च भूभुजे
॥१६॥अब्रवीच्च ततो वाक्यं स्वागतं ते महीपते ॥
वद कृत्यं करोम्येव गृहायातस्य यच्च ते
॥१७॥विश्वामित्र उवाच
मृगयायां परिश्रांतः पिपासाव्याकुलेन्द्रियः ॥
पानार्थमिह संप्राप्त आश्रमे ते मुनीश्वर
॥१८॥तत्पीतं शीतलं तोयं वितृष्णोऽहं व्यवस्थितः ॥
अनुज्ञां देहि मे ब्रह्मन्येन गच्छामि मंदिरम्
॥१९॥वसिष्ठ उवाच
मध्याह्न समयो रौद्रः सूर्योऽतीव सुतापदः ॥
तत्कृत्वा भोजनं राजन्नपराह्णे व्यवस्थिते ॥
गन्तासि निजमावासं भुक्त्वान्नं मम चाश्रमे
॥२०॥राजोवाच
चतुरंगेण सैन्येन मृगयामहमागतः
॥२१॥तवाश्रमस्य द्वारस्थं मम सैन्यं व्यवस्थितम् ॥
बुभुक्षितेषु भृत्येषु यः स्वामी कुरुतेऽशनम्
॥२२॥स याति नरकं घोरं त्यज्यते च गुणैर्द्रुतम् ॥
तस्मादाज्ञापय क्षिप्रं मां मुने स्वगृहाय भोः
॥२३॥वसिष्ठ उवाच
यदि ते सेवकाः संति द्वारदेशे बुभुक्षिताः ॥
सर्वानिहानय क्षिप्रं तृप्तिं नेष्याम्यहं परम्
॥२४॥अस्ति मे नन्दिनीनाम कामधेनुः सुशोभना ॥
वांछितं यच्छते सर्वं तपसा पार्थिवोत्तम
॥२५॥तृप्तिं नेष्यति ते सर्वं सैन्यं पार्थिवसत्तम ॥
तस्मादानीयतां क्षिप्रं पश्य मे धेनुजं फलम्
॥२६॥तच्छ्रुत्वा चानयामास सर्वं सैन्यं महीपतिः ॥
स्नातश्च कृतजप्यश्च सन्तर्प्य पितृदेवताः
॥२७॥ब्राह्मणान्वाचयित्वा च सिंहासनसमाश्रितः ॥
एतस्मिन्नंतरे धेनुः समाहूता च नंदिनी
॥२८॥वसिष्ठेन समाहूता विश्वामित्रपुरःस्थिता ॥
अब्रवीच्च तता वाक्यं वसिष्ठमृषि सत्तमम्
॥२९॥आदेशो दीयतां मह्यं किं करोमि प्रशाधि माम्
॥३०॥वसिष्ठ उवाच
पादप्रक्षालनाद्यं तु कुरुष्व वचनान्मम ॥
विश्वामित्रस्य राजर्षेर्यावद्भोजनसंस्थितिम्
॥३१॥खाद्यैः सर्वैस्तथा लेह्यैश्चोष्यैः पेयैः पृथविधैः ॥
कुरुष्व तृप्तिपर्यन्तं ससैन्यस्य महीपतेः ॥
अश्वानां च गजानां च घासादिभिर्यथाक्रमम्
॥३२॥सूत उवाच
बाढमित्येव साप्युक्त्वा ततस्तत्ससृजे क्षणात् ॥
यत्प्रोक्तं तेन मुनिना भृत्यानां चायुतं तथा
॥३३॥ततस्ते सर्वमादाय भृत्या भोज्यं ददुस्तथा ॥
एकैकस्य पृथक्त्वेन प्रतिपत्तिपुरःसरम्
॥३४॥एवं तया क्षणेनैव तृप्तिं नीतो महीपतिः ॥
ससैन्यः सपरीवारो गजोष्ट्राश्वैर्वृषैः सह
॥३५॥ततस्तु कौतुकं दृष्ट्वा विश्वामित्रो महीपतिः ॥
सामात्यो विस्म याविष्टो मन्त्रयामास च द्विजाः
॥३६॥अहो चित्रमहो चित्रं ययाऽकस्माद्वरूथिनी ॥
तृप्तिं नीतेयमस्माकं क्षुत्पिपासासमाकुला
॥३७॥तस्मात्संनीयतामेषा स्वगृहं धेनुरुत्तमा ॥
किं करिष्यति विप्रोऽयं निर्भृत्यो वनसंस्थितः
॥३८॥ततो वसिष्ठमाहूय वाक्यमेतदुवाच सः ॥
नंदिनी दीयतां मह्यं किं करिष्यसि चानया
॥३९॥त्वमेको वनसंस्थस्तु निर्द्वन्द्वो निष्परिग्रहः ॥
अथवा तव दास्यामि व्ययार्थे मुनिसत्तम ॥
वरान्ग्रामांश्च हस्त्यश्वानन्यांश्चापि यथेप्सितान्
॥४०॥वसिष्ठ उवाच
होमधेनुरियं राजन्नस्माकं कामदोहिनी ॥
अदेया गौर्महाराज सामान्यापि द्विजन्मनाम्
॥४१॥किं पुनर्नंदिनी यैषा सर्वकामप्रदायिनी ॥
अपरं शृणु राजेंद्र स्मृतिवाक्यमनुत्तमम्
॥४२॥गवां हि विक्रयार्थे च यदुक्तं मनुना स्वयम् ॥
गवां विक्रयजं वित्तं यो गृह्णाति द्विजोत्तमः
॥४३॥अन्त्यजः स परिज्ञेयो मातृविक्रयकारकः ॥
तस्मान्नाहं प्रदास्यामि नन्दिनीं तां महीपते
॥४४॥न साम्ना नैव भेदेन न दानेन कथंचन ॥
न दण्डेन महाराज तस्माद्गच्छ निजालयम्
॥४५॥विश्वामित्र उवाच
यत्किंचिद्विद्यते रत्नं पार्थिवस्य क्षितौ द्विज ॥
तत्सर्वं राजकीयं स्यादिति वित्तविदो विदुः
॥४६॥रत्नभूता ततो धेनुर्ममेयं नंदिनी स्थिता ॥
दण्डेनापि ग्रहीष्यामि साम्ना यच्छसि नो यदि
॥४७॥एवमुक्त्वा वसिष्ठं स विश्वामित्रो महीपतिः ॥
आदिदेश ततो भृत्यान्नदिनीयं प्रगृह्यताम्
॥४८॥अथ सा भृत्यवर्गेण नीयमाना च नंदिनी ॥
हन्यमाना प्रहारैश्च पाषाणैर्लकुटैरपि
॥४९॥अश्रुपूर्णेक्षणा दीना प्रहारैर्जर्जरीकृता ॥
कृच्छ्रादुपेत्य तं प्राह वसिष्ठं मुनिसत्तमम्
॥५०॥किं दत्तास्मि मुनिश्रेष्ठ त्वयाहं चास्य भूपतेः ॥
येन मां कालयंत्यस्य पुरुषाः स्वामिनो यथा
॥५१॥वसिष्ठ उवाच
न त्वां यच्छाम्यहं धेनो प्राणत्यागेऽपि संस्थिते ॥
तद्रक्षस्व स्वयं धेनो आत्मानं मत्प्रभावतः
॥५२॥एवमुक्ता तदा धेनुर्वसिष्ठेन महात्मना ॥
कोपाविष्टा ततश्चक्रे हुंकारान्दारुणांस्तथा
॥५३॥तस्या हुंकारशब्दैश्च निष्क्रांताः सायुधा नराः ॥
शबराश्च पुलिंदाश्च म्लेच्छाः संख्याविवर्जिताः
॥५४॥तैश्च भृत्या हताः सर्वे विश्वामित्रस्यभूपतेः ॥
ततः कोपाभिभूतोऽसौ विश्वामित्रो महीपतिः
॥५५॥सज्जं कृत्वा स्वसैन्यं तु चतुरंगं प्रकोपतः ॥
युद्धं चक्रे च तैः सार्धं मरणे कृतनिश्चयः
॥५६॥अथ ते सैनिका स्तस्य ते गजास्ते च वाजिनः ॥
पश्यतो निहताः सर्वे पुरुषैर्धेनुसंभवैः
॥५७॥विश्वामित्रं परित्यज्य शेषं सर्वं निपातितम् ॥
तं दृष्ट्वा वेष्टितं म्लेच्छैर्यु ध्यमानं महीपतिम्
॥५८॥कृपां कृत्वा वसिष्ठस्तु नन्दिनीमिदमब्रवीत् ॥
रक्ष नंदिनि भूपालं म्लेच्छैरेतैः समावृतम्
॥५९॥राजा हि यत्नतो रक्ष्यो यत्प्रसादादिदं जगत् ॥
सन्मार्गे वर्तते सर्वं न चामार्गे प्रवर्तते
॥६०॥ततस्तु नंदिनीं यावन्निषेधयितुमागताम् ॥
विश्वामित्रोऽसिमुद्यम्य प्रहर्तुमुपचक्रमे
॥६१॥वसिष्ठोऽपि समालोक्य वध्यमानां च तां तदा ॥
बाहुं संस्तंभयामास खड्गं तस्य च भूपतेः
॥६२॥अथ वैलक्ष्यमापन्नो विश्वामित्रो महीपतिः ॥
प्रोवाच व्रीडया युक्तो वसिष्ठं मुनिसत्तमम्
॥६३॥रक्ष मां त्वं मुनिश्रेष्ठ वध्यमानं सुदारुणैः ॥
म्लेच्छैः कुरुष्व मे बाहुं स्तम्भेन तु विवर्जितम्
॥६४॥ममापराधात्संनष्टं सर्वं सैन्यमनन्तकम् ॥
तस्माद्यास्याम्यहं हर्म्यं न युद्धेन प्रयोजनम्
॥६५॥दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेव च ॥
न तिष्ठति चिरं युद्धे यथाहं मदगर्वितः
॥६६॥सूत उवाच
एवमुक्तो वसिष्ठस्तु विश्वामित्रेण भूभुजा ॥
चकार तं भुजं तस्य स्तंभदोषविवर्जितम्
॥६७॥अब्रवीत्प्रहसन्वाक्यं विधाय स शुभं करम् ॥
गच्छ राजन्विमुक्तोऽसि स्तंभदोषेण वै मया
॥६८॥माकार्शीर्ब्राह्मणैः सार्धं विरोधं भूय एव हि ॥
अनुज्ञातः स तेनाथ विश्वामित्रो महीपतिः
॥६९॥सव्रीडं प्रययौ हर्म्यं पद्भ्यामेव द्विजोत्तमाः ॥
स्वपुरद्वारमासाद्य सुगुप्ते रजनीमुखे
॥७॥प्रलापमकरोत्तत्र बाष्पपर्याकुलेक्षणः ॥
. धिग्बलं क्षत्रियाणां च धिग्वीर्यं धिक्प्रजीवितम्
॥७१॥श्लाघ्यं ब्रह्मबलं चैकं ब्राह्म्यं तेजश्च केवलम्
॥७२॥एतत्कर्म मया कार्यं यथा स्याद्ब्रह्मजं बलम् ॥
त्यक्त्वा चैव निजं राज्यं चरिष्यामि महत्तपः।
एवं स निश्चयं कृत्वा राज्ये संस्थाप्य वै सुतम् ॥
नाम्ना विश्वसहं ख्यातं प्रजगाम तपोवनम्
॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रराज्यपरित्यागवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ १६७ ॥