मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०५

3
नागरखण्डः · 205

गयाश्राद्धफलमाहात्म्यवर्णनम्

विष्णुरुवाच

एवं ज्ञात्वा सहस्राक्ष मम वाक्यं समाचर ॥

यदि ते वल्लभास्ते च ये हता रणमूर्धनि

॥१॥

युध्यमानास्तवाग्रे च गयाश्राद्धेन तर्पय ॥

तान्सर्वान्प्रेतभावाच्च येन मुक्तिं भजंति ते

॥२॥

पलायनपरा ये च पृष्ठदेशे हता मृताः

॥३॥

इन्द्र उवाच

वर्षेवर्षे तदा श्राद्धं प्रकरोति पितामहः ॥

गयां गत्वा दिने तस्मिन्पितॄणां दिव्यरूपिणाम्

॥४॥

तत्कथं देव गच्छामि तत्राहं श्राद्धसिद्धये ॥

तस्मात्कथय मे तेषां किंचिच्छ्राद्धाय भूतले ॥

मुक्तिदं येन गच्छामि तव वाक्याज्जनार्दन

॥५॥

विश्वामित्र उवाच

ततः स सुचिरं ध्यात्वा तमुवाच जनार्दनः ॥

अस्ति तीर्थं महत्पुण्यं तस्मादप्यधिकं च यत्

॥६॥

हाटकेश्वरजे क्षेत्रे कूपिकामध्यसंस्थितम् ॥

अमावास्यादिने तत्र चतुर्दश्याश्च देवप ॥

गया संक्रमते सम्यक्सर्वतीर्थसमन्विता

॥७॥

कन्यासंस्थे रवौ तत्र यः श्राद्धं कुरुते नरः ॥

अष्टवंशोद्भवैर्विप्रैः स पितॄंस्तारयेन्निजान्

॥८॥

अपि प्रेतत्वमापन्नान्किं पुनः स्वर्गसंस्थितान् ॥

तत्क्षेत्रप्रभवा विप्रा अष्टवंशसमुद्भवाः

॥९॥

तप उग्रं समास्थाय वर्तंते हिमपर्वते ॥

आनर्ताधिपतेर्दानाद्भीतास्तत्र समागताः

॥१०॥

तान्गृहीत्वा द्रुतं गच्छ तत्र संबोध्य गौरवात् ॥

सामपूर्वैरुपायैस्तैस्तेषामग्रे समाचर

॥११॥

श्राद्धं चैव यथान्यायं ततः प्राप्स्यसि वांछितम् ॥

ते चाऽपि सुखिनः सर्वे भविष्यंति समागताः

॥१२॥

त्वया सह प्रपूज्याश्च ह्यस्माभिः श्राद्धकारणात् ॥

तच्छ्रुत्वा सहसा शक्रः सन्तोषं परमं गतः

॥१३॥

हिमवंतं समुद्दिश्य प्रस्थितस्त्वरयाऽन्वितः ॥

वासुदेवोऽपि राजेंद्र क्षीराब्धिमगमत्तदा

॥१४॥

हिमवन्तं समाश्रित्य शक्रोऽपि ददृशे द्विजान् ॥

अष्टवंशसमुद्भूतान्विष्णुना समुदाहृतान्

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शक्रविष्णुसंवादे गयाश्राद्धफलमाहात्म्य वर्णनंनाम पञ्चोत्तरशततमोऽध्यायः ॥ २०५ ॥