अष्टषष्टिप्रमाणानि यानि क्षेत्राणि सूतज
ऋषय ऊचुः
अष्टषष्टिप्रमाणानि यानि क्षेत्राणि सूतज ॥
त्वयोक्तानि च तान्येव नामतो नः प्रकीर्तय
॥१॥तथान्यानि च तीर्थानि यानि संति धरातले ॥
तानि कीर्तय कार्त्स्न्येन परं कौतूहलं हि नः
॥२॥सूत उवाच
यानि प्रोक्तानि तीर्थानि भवद्भिर्द्विजसत्तमाः ॥
अष्टषष्टिप्रमाणानि तथा क्षेत्राणि भूतले
॥३॥तानि सर्वाणि भीतानि प्रविष्टानि रसातलम् ॥
तीर्थानि मुनिशार्दूलाः पापे ह्यत्र कलौ युगे
॥४॥एतदेव पुरा पृष्टः पार्वत्या परमेश्वरः ॥
यद्भवद्भिरहं पृष्टस्तीर्थयात्राकृते द्विजाः
॥५॥कैलासशिखरासीनः पुरा देवो महेश्वरः ॥
सर्वैर्गणगणैः सार्धमुपविष्टो वरासने
॥६॥प्रणाम करणार्थाय ह्यागतेष्वमरेषु च ॥
गतेषु तेषु विप्रेंद्रा सर्वेषु त्रिदिवालयम् ॥
अर्धासनगता देवी वाक्यमेतदुवाच ह
॥७॥देव्युवाच
देवदेव महादेव गंगाक्षालितशेखर ॥
वद मे तीर्थमाहात्म्यं यद्यहं वल्लभा तव
॥८॥तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संख्यया नामतो देव मह्यं कीर्तय सांप्रतम्
॥९॥यानि तीर्थान्यनेकानि क्षेत्राणि चैव मे प्रभो ॥
तानि कीर्तय देवेश सुगम्यं चैव देहिनाम् ॥
कीर्तनाच्च समग्राणां तीर्थानां लभ्यते फलम्
॥१०॥ईश्वर उवाच
तीर्थशब्दो वरारोहे धर्मकृत्येषु वर्तते ॥
धर्मस्थानेषु सर्वेषु तत्त्वं शृणु समाहिता
॥११॥माता तीर्थं पिता तीर्थं तीर्थ साधुसमागमः ॥
धर्मानुचिंतनं चैव तथैव नियमो यमः
॥१२॥पुण्याः कथा वरारोहे देवर्षीणां कृतास्तथा ॥
आश्रयाः सन्मुनींद्राणां देवानां च तथा प्रिये
॥१३॥भूमिभागाः पवित्राः स्युः कीर्त्यते तीर्थमित्युत ॥
तेषां संदर्शनादेव स्मरणाच्चावगाहनात् ॥
मुच्यंते जन्तवः पापैरपि जन्मशतोद्भवैः
॥१४॥तथा पातकिनो ये च ये च विश्वासघातकाः ॥
तेऽपि सर्वे तथा मुक्तास्तेषां चैवावगाहनात्
॥१५॥एवं पापानि संयांति नाशं सर्वांगसुन्दरि ॥
अपि ब्रह्मवधात्पापं यद्भवेदिह देहिनाम् ॥
तच्चापि तीर्थसंसर्गात्प्रलयं यात्यसंशयम्
॥१६॥ममापि करसंलग्नं कपालं ब्रह्मणः पुरा ॥
पतितं तीर्थसंसर्गात्तेषां चैवावगाहनात्
॥१७॥एवं सर्वेषु तीर्थेषु तथा ह्यायतनेषु च ॥
स्नातव्यं भक्तियुक्तेन चेतसा नान्यगामिना
॥१८॥यत्र स्नातैर्नरैः सम्यक्सर्वेषां लभ्यते फलम् ॥
ममाश्रयं विशालाक्षि सर्वपातकनाशनम् ॥
कामदं च तथा नॄणां नारीणां च विशेषतः
॥१९॥एतद्गुह्यतमं देवि मम नित्यव्यवस्थितम् ॥
न कस्याऽपि मयाख्यातं देवेंद्रस्यापि पृच्छतः
॥२०॥वाल्लभ्यात्तव मे भद्रे कथितं वै वरानने ॥
अष्टषष्टिः प्रगम्यानि भक्त्या तीर्थानि मानवैः
॥२१॥ममाश्रयाणि तान्येव सर्वपापहराणि च ॥
कामदानि वरारोहे मत्प्रभावादसंशयम्
॥२२॥यं यं कामं समाधाय तत्र तीर्थे पुमान्यदि ॥
कृत्वा स्नानं ततो देवमर्चयेच्च महेश्वरम्
॥२३॥सुकृतं मनसि ध्यात्वा यैर्नरैः पूजितो हरिः ॥
आस्तां तेषां वरारोहे दर्शनं स्पर्शनं तथा ॥
स्मरणादपि मुच्यंते नराः पापैः पुराकृतैः
॥२४॥एते शक्रादयो देवास्तेषु तीर्थेषु सुन्दरि ॥
मां पूज्य त्रिदिवं प्राप्तास्तथान्ये नारदादयः
॥२५॥तान्यहं ते प्रवक्ष्यामि विस्तरेण पृथक्पृथक् ॥
नामतः शृणु देवेशि समाहितमनाः स्थिता
॥२६॥वाराणसी प्रयागं च नैमिषं चापरं तथा ॥
गयाशिरः सुपुण्यं च पवित्रं कुरुजांगलम्
॥२७॥प्रभासं पुष्करं चैव विश्वेश्वरमथापरम ॥
अट्टहासं महेन्द्रं च तथैवोज्जयनी च या
॥२८॥मरुकोटिः शंकुकर्णं गोकर्णं क्षेत्रमुत्तमम् ॥
रुद्रकोटिः स्थलेशं च हर्षितं वृषभध्वजम्
॥२९॥केदारं च तथा क्षेत्रं क्षेत्रं मध्यमकेश्वरम् ॥
सहस्राक्षं तथा क्षेत्रं तथान्यत्कार्तिकेश्वरम्
॥३०॥तथैव वस्त्रमार्गं च तथा कनखलं स्मृतम् ॥
भद्रकर्णं च विख्यातं दण्डकाख्यं तथैव च
॥३१॥त्रिदण्डाख्यं तथा क्षेत्रं तथैव कृमिजांगलम् ॥
एकाम्रं च तथा क्षेत्रं क्षेत्रं छागलकं तथा
॥३२॥कालिंजरं च देवेशि तथान्यन्मण्डलेश्वरम् ॥
काश्मीरं मरुकेशं च हरिश्चंद्रं सुशोभनम्
॥३३॥पुरश्चंद्रं च वामेशं कुकुटेश्वरमेव च ॥
भस्मगात्रमथोकारं त्रिसंध्या विरजा तथा
॥३४॥अर्केश्वरं च नेपालं दुष्कर्णं करवीरकम् ॥
जागेश्वरं तथा देवि श्रीशैलं पर्वतोत्तमम्
॥३५॥अयोध्या चैव पातालं तथा कारोहणं महत् ॥
देविका च नदी पुण्या भैरवं पूर्वसागरः
॥३६॥सप्तगोदावरीतीर्थं तथैव समुदाहृतम् ॥
निर्मलेशं तथान्यच्च कर्णिकारं सुशोभनम्
॥३७॥कैलासं जाह्नवीतीरं जललिंगं च वाडवम् ॥
बदरीतीर्थवर्यं च कोटितीर्थं तथैव च
॥३८॥विंध्याचलो हेमकूटं गन्धमादनमेव च ॥
लिंगेश्वरं तथा क्षेत्रं लंकाद्वारं तथैव च
॥३९॥नलेश्वरं तु मध्येशं केदारं रुद्रजालकम् ॥
सुवर्णाख्यं च वामोरु तथान्यत्षष्टिकापथम्
॥४०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेशवरक्षेत्रमाहात्म्ये ऽष्टषष्टितीर्थवर्णनंनामाष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥