मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३०

3
नागरखण्डः · 30

सिद्धेश्वरोत्पत्तिवृत्तान्तवर्णनम्

ऋषय ऊचुः

तोषितः केन सिद्धेन तत्र सिद्धेश्वरो विभुः ॥

एतत्सर्वं समाचक्ष्व विस्तरात्सूतनन्दन

॥१॥

सूत उवाच

आसीत्सिद्धाधिपोनाम पुरा हंस इति स्मृतः ॥

अनपत्यतया तस्य कालश्चक्राम भूरिशः

॥२॥

ततश्चिन्ता प्रपन्नः स गत्वा देवपुरोहितम् ॥

पप्रच्छागिरसः पुत्रं विप्रश्रेष्ठं बृहस्पतिम्

॥३॥

भगवंश्चानपत्यस्य वार्द्धकं मे समागतम् ॥

तस्मादपत्यलाभाय ममोपायं प्रकीर्तय

॥४॥

तीर्थयात्रां व्रतं वापि शांतिकं वा द्विजोत्तम ॥

येन स्यात्संततिः शीघ्रं त्वत्प्रसादाद्बृहस्पते

॥५॥

बृहस्पतिश्चिरं ध्यात्वा सिद्धं प्राह ततः परम् ॥

चमत्कारपुरं क्षेत्रं गत्वा तत्र तपः कुरु

॥६॥

ततः प्राप्स्यसि सत्पुत्रं वंशोद्धारक्षमं शुभम् ॥

नान्यं पश्यामि सिद्धेश सुतोपायं शुभावहम्

॥७॥

ततस्तत्क्षेत्रमासाद्य स सिद्धः श्रद्धयान्वितः ॥

लिंगं संपूजयामास यथोक्तविधिना स्वयम्

॥८॥

ततश्चाराधयामास दिवानक्तमतंद्रितः ॥

बलि पूजोपहारेण गीतवाद्योच्छ्रयादिभिः

॥९॥

चांद्रायणैस्तथा कृच्छ्रैः पाराकैर्द्विजसत्तमाः ॥

तथा मासोपवासैश्च तोषयामास शंकरम्

॥१०॥

ततो वर्षसहस्राभ्यां तस्य तुष्टो महेश्वरः ॥

प्रोवाच दर्शनं गत्वा वृषारूढः सहोमया

॥११॥

हंसाद्य तव तुष्टोऽहं तस्मात्प्रार्थय वांछितम् ॥

अहं ते संप्रदास्यामि दुष्प्राप्यमपि निश्चितम्

॥१२॥

हंस उवाच

अपत्यार्थं समारंभो मयाऽद्य विहितः पुरा ॥

तस्मात्त्वं देहि मे पुत्रान्वंशोद्धारक्ष मान्विभो

॥१३॥

त्वया चैव सदा लिंगे स्थेयमत्र सुरोत्तम ॥

मम वाक्यादसंदिग्धं सर्वलोकहितार्थतः

॥१४॥

श्रीभगवानुवाच

अद्यप्रभृति लिंगेस्मिन्नाश्रयो मे भविष्यति ॥

तव वाक्येन सिद्धेश सत्यमेतन्मयोदितम्

॥५॥

यो मामत्र स्थितं मर्त्यः पूजयिष्यति भक्तितः ॥

तस्याहं संप्रदास्यामि चित्तस्थं सकलं फलम्

॥१६॥

यो मे लिंगस्य याम्याशां स्थित्वा मंत्रं जपिष्यति ॥

षडक्षरं प्रदास्यामि तस्यायुष्यं सुतान्वितम्

॥१७॥

एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥

हंसोऽपि च गृहं गत्वा पुत्रानाप महोदयान्

॥१८॥

तस्मात्सर्वप्रयत्नेन तल्लिंगं यत्नतो द्विजाः ॥

स्पर्शनीयं च पूज्यं च नमस्कार्यं प्रयत्नतः

॥१९॥

षडक्षरेण मन्त्रेण कीर्तनीयं च शक्तितः ॥

वांछद्भिर्वांछितान्कामान्दुर्लभांस्त्रिदशैरपि

॥२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवृत्तान्तवर्णनंनाम त्रिंशोऽध्यायः ॥ ३० ॥