मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६७

3
नागरखण्डः · 267

तुलापुरुषदानमाहात्म्यवर्णनम्

सूत उवाच

तस्मादेषा महाराज शिवरात्रिर्विपश्चिता ॥

कर्तव्या पुरुषेणात्र लोकद्वयमभीप्सुना

॥१॥

आनर्त उवाच

मंकणेश्वरमाहात्म्यं मया विस्तरतः श्रुतम् ॥

शिवरात्रिसमोपेतं यत्त्वया परिकीर्तितम्

॥२॥

सांप्रतं वद मे कृत्स्नं सिद्धेश्वरसमुद्भवम् ॥

विस्तरेण महाभाग परं कौतूहलं हि मे

॥३॥

भर्तृयज्ञ उवाच

सिद्धेश्वर इति ख्यातो महादेवो महीपते ॥

तस्योत्पत्तिस्त्वया पूर्वं श्रुतात्र वदतो मम

॥४॥

सांप्रतं तत्फलं वच्मि तस्मिन्दृष्टे तु दानजम् ॥

यत्फलं जायते नॄणां चक्रवर्तित्व संभवम्

॥५॥

तुलापुरुषदानं च तत्र राजन्प्रशश्यते ॥

य इच्छेच्चक्रवर्तित्वं समस्ते धरणीतले

॥६॥

आनर्त उवाच

तुलापुरुषदानस्य यो विधिः परिकीर्तितः ॥

तं मे सर्वं समाचक्ष्व विस्तरेण महामुने

॥७॥

भर्तृयज्ञ उवाच

चंद्रसूर्योपरागे वा अयने विषुवे तथा ॥

तीर्थे वा पुरुषश्रेष्ठ तुलापुरुषसंभवम्

॥८॥

प्रशंसंति विधिं सम्यक्प्राप्ते वा चेंदुसंक्षये ॥

ब्राह्मणानां सुदांतानामनुष्ठानवतां सताम्

॥९॥

वेदाध्ययनयुक्तानां निर्दोषाणां च पार्थिव ॥

विभज्य स भवेद्देयो नैकस्य च कथंचन

॥१०॥

शुचौ देशे समे पुण्ये पूर्वोत्तरप्लवे शुभे ॥

मंडपं कारयेद्विद्वान् रम्यं ष़ोशहस्तकम् ॥

तन्मध्ये कारयेद्वेदिं चतुर्हस्त प्रमाणतः।

यजमानस्य हस्तेन हस्तैकेन समुच्छ्रिताम्

॥१२॥

चतुर्हस्तानि कुण्डानि चतुर्दिक्षु प्रकल्पयेत ॥

एकहस्तप्रमाणानि आयामव्यासविस्तरात् ॥

ऐशान्यामपरां वेदिं हस्तमात्रां न्यसेच्छुभाम् ॥

रत्निमात्रोत्थितां चैव ग्रहांस्तत्र प्रकल्पयेत्

॥१४॥

युग्मांश्च ऋत्विजः कार्याश्चतुर्दिक्षु यथाक्रमम् ॥

बह्वृचोऽध्वर्यश्चैव च्छंदोगाथर्वणावपि

॥१५॥

तूष्णीं तु देवताहोमस्तैः कार्यः सुसमाहितैः ॥

तल्लिंगैर्नृपतेमंत्रैः स्वशक्त्या जप एव च

॥१६॥

एकहस्तप्रविष्टं तु चतुर्हस्तोच्छ्रितं तथा ॥

स्तंभद्वयं तु कर्तव्यं वेदियाम्योत्तरे स्थितम्

॥१७॥

तन्मध्ये सुशुभं काष्ठं स्तंभजात्यं दृढं न्यसेत् ॥

चन्दनः खदिरो वाथ बिल्वोवाऽश्वत्थ एव वा

॥१८॥

तिंदुको देवदारुर्वा श्रीपर्णी वा वटोऽथवा ॥

अष्टौ वृक्षाः शुभाः शस्ताः स्तंभार्थं नृपसत्तम्

॥१९॥

शिक्यद्वय समोपेतां तन्मध्ये विन्यसेत्तुलाम् ॥

स्नातः शुक्लांबरधरः शुक्लमाल्यानुलेपनः ॥

पूरयित्वा समंताच्च लोकपालान्यथाक्रमम् ॥

स्तंभान्संपूजयत्पश्चाद्गन्धमाल्यानुलेपनैः

॥२१॥

तुलां च पार्थिवश्रेष्ठ पुण्याहं च प्रकीर्तयेत् ॥

यजमानो निजैः सर्वैरायुधैः कायसंस्थितैः

॥२२॥

पश्चिमां दिशमास्थाय प्राङ्मुखः श्रद्धयाऽन्वितः ॥

कृतांजलिपुटो भूत्वा इमं मंत्रमुदीरयेत्

॥२३॥

ब्रह्मणो दुहिता नित्यं सत्यं परममाश्रिता ॥

काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला

॥२४॥

त्वं तुले सत्यनामासि स्वभीष्टं चात्मनः शुभम् ॥

करिष्यामि प्रसादं मे सांनिध्यं कुरु सांप्रतम्

॥२५॥

ततस्तस्यां समारुह्य स्वशक्त्या यत्समाहृतम् ॥

दानार्थं पूर्वमायोज्यं शिक्येन्यस्मिन्नरोत्तम

॥२६॥

सुवर्णं रजतं वाऽथ वस्त्रं चान्यदभीप्सितम् ॥

यावत्साम्यं भवेद्राजन्नात्मनोऽभ्यधिकं च वा

॥२७॥

ततोऽभीष्टां समासाद्य देवतां शिक्यमाश्रितः ॥

उदकं जलमध्ये च तदर्थं प्रक्षिपेद्द्रुतम्

॥२८॥

सतिलं सहिरण्यं च साक्षतं विधिपूर्वकम् ॥

अवतीर्य ततः सर्वं ब्राह्मणेभ्यो निवेदयेत्

॥२९॥

यत्फलं प्राप्यते पश्चात्तदिहैकमनाः शृणु

॥३०॥

अजानता जानता वा यत्पापं तु भवेत्कृतम् ॥

तत्सर्वं नाशयेन्मर्त्यो दानस्यास्य प्रभावतः

॥३१॥

यावन्मात्रं कृतं पापमतीतं नृपसत्तम ॥

तावन्मात्रं क्षयं याति तुलापुरुषदानतः

॥३२॥

ईश्वराणां समादिष्टं कायक्लेशभयात्मनाम् ॥

पुरश्चरणमेतद्धि दानं तौल्यसमुद्भवम्

॥३३॥

एतद्दत्तं दिलीपेन कार्तवीर्येण भूपते ॥

पृथुना पुरुकुत्सेन तथान्यैरपि पार्थिवैः

॥३४॥

एतत्पुण्यं प्रशस्यं च सर्वकामप्रदं नृणाम्।

तुलापुरुषदानं च सर्वोपद्रवनाशनम्

॥३५॥

आधयो व्याधयो न स्युर्न वैधव्यं गदोद्भवम् ॥

संजायते नृपश्रेष्ठ न वियोगः स्वबन्धुभिः ॥

तुलापुरुषदानस्य फलमेतदुदाहृतम्

॥३६॥

तुलापुरुषदानस्य प्रदत्तस्य नृपोत्तम ॥

न शक्यते कथयितुं फलं यत्स्यात्कलौ युगे

॥३७॥

दक्षिणामूर्तिमासाद्य सिद्धेश्वरविभोः पुरः ॥

यः प्रयच्छति भूपाल सहस्रगुणितं फलम्

॥३८॥

तस्मात्सर्वप्रयत्नेन प्राप्य सिद्धेश्वरं विभुम् ॥

तुलापुरुषदानं च कर्तव्यं सुविवेकिना

॥३९॥

एकत्र सर्वतीर्थानि सर्वाण्यायतनानि च ॥

हाटकेश्वरजे क्षेत्रे कथितानि स्वयंभुवा

॥४०॥

सिद्धेश्वरः सुरश्रेष्ठ एकत्र समुदाहृतः ॥

तस्मिन्दृष्टे तथा स्पृष्टे पूजिते नृपसत्तम ॥

सर्वेषां लभते मर्त्यः फलं यत्परिकीर्तितम्

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीसिद्धेश्वरमाहात्म्ये तुलापुरुषदानमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६७ ॥