मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६६

3
नागरखण्डः · 266

शिवारात्रिमाहात्म्यवर्णनम्

ऋषय ऊचुः

श्रुतानि मुख्यतीर्थानि तत्क्षेत्रप्रोद्भवानि च ॥

येषु स्नातो नरः स्म्यक्सर्व तीर्थफलं लभेत्

॥१॥

लिंगानि च महाभाग तत्र मुख्यानि यानि च ॥

यैर्दृष्टैर्लभ्यते श्रेयः सर्वेषां तानि नो वद

॥२॥

सूत उवाच

तत्र च मंकणाख्यं तु लिंगमस्ति सुशोभनम् ॥

तथा सिद्धेश्वरं नाम गौतमेश्वरसंयुतम्

॥३॥

कपालेश्वमन्यच्च चतुर्थं परिकीर्तितम् ॥

एकैकं सर्वलिंगानां फलं यच्छत्यसंशयम् ॥

यथोक्तविधिना सम्यग्यथोक्तं द्विजसत्तमाः

॥४॥

तत्र तावत्प्रवक्ष्यामि मंकणेश्वरजं फलम् ॥

मकाराक्षरयुक्तस्य लिंगस्यात्र द्विजोत्तमाः

॥५॥

शिवरात्रिं समासाद्य यस्तस्य पुरुषो द्विजाः ॥

कुर्याज्जागरणं रात्रौ निराहारः स्थितः शुचिः

॥६॥

सर्वलिंगोद्भवं चैव फलं दर्शनसंभवम् ॥

जायते नात्र संदेह इत्युवाच हरः स्वयम्

॥७॥

ऋषय ऊचुः

शिवरात्रिर्महाभाग कस्मिन्काले तु सा भवेत् ॥

विध्यानं चैव माहात्म्यं सर्वं नो विस्तराद्वद

॥८॥

सूत उवाच

माघस्य कृष्णपक्षे या तिथिश्चैव चतुर्दशी ॥

तस्या रात्रिः समाख्याता शिवरात्रिसमुद्भवा

॥९॥

तस्यां सर्वेषु लिंगेषु सदा संक्रमते हरः ॥

विशेषात्सर्वपुण्येषु ख्यातेयं मंकणेश्वरे

॥१०॥

ऋषय ऊचुः

शिवरात्रिः कथं जाता केनैषा च विनिर्मिता ॥

कस्माद्बहुफला जाता सर्वं नो विस्तराद्वद

॥११॥

सूत उवाच

अत्र वः कीर्तयिष्यामि पूर्ववृत्तं कथानकम् ॥

भर्तृयज्ञस्य संवादमश्वसेनस्य भूपतेः

॥१२॥

आनर्ताधिपतिः पूर्वमश्वसेन इति स्मृतः ॥

आसीद्धर्मपरो नित्यं वेदवेदागंपारगः

॥१३॥

भर्तृयज्ञः पुरा तेन इदं पृष्टः कुतूहलात् ॥

कलिकालं समुद्वीक्ष्य वर्धमानं दिनेदिने

॥१४॥

अश्वसेन उवाच

कलिकालकृते किंचिद्व्रतं मे वद सन्मुने ॥

स्वल्पायासं महत्पुण्यं सर्वपापप्रणाशनम्

॥१५॥

स्वल्पायुषः सदा मर्त्या ब्रह्मन्कृतयुगे पुरा ॥

त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ॥

तस्माद्वर्षव्रतं त्यक्त्वा किंचिदेकाह्निकं वद

॥१७॥

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ॥

न हि प्रतीक्षते मृत्युः कृतं वास्य न वा कृतम् ॥

तस्य तद्वचं श्रुत्वा भर्तृयज्ञ उदारधीः ॥

अब्रवीत्सुचिरं ध्यात्वा ज्ञात्वा दिव्येन चक्षुषा

॥१९॥

अस्ति राजन्व्रतं पुण्यं शिवरात्रीतिसंज्ञितम् ॥

एकाह्निकं महाराज सर्वपातकनाशनम्

॥२०॥

तत्र यद्दीयते दानं हुतं जप्तं तथैव च ॥

सर्वमक्षयतां याति रात्रि जागरणे कृते

॥२१॥

अपुत्रो लभते पुत्रानधनो धनमाप्नुयात् ॥

स्वल्पायुर्दीर्घमायु्ष्यं शत्रूणां चैव संक्षयम्

॥२२॥

यंयं काममभिध्यायन्व्रतमेतत्समाचरेत् ॥

तंतं समाप्नुयान्मर्त्यो निष्कामो मोक्षमाप्नुयात्

॥२३॥

कार्पण्येनाथ वित्तेन यदि कुर्यात्प्रजागरम् ॥

तथा वर्षकृतात्पापान्मुच्यते नात्र संशयः

॥२४॥

यानि कान्यत्र लिंगानि स्थावराणि चराणि च ॥

तेषु संक्रमते देवस्तस्यां रात्रौ यतो हरः

॥२५॥

शिवरात्रिस्ततः प्रोक्ता तेन सा हरवल्लभा ॥

प्रार्थितः स सुरैः सर्वैर्लोकानुग्रहकाम्यया

॥२६॥

भगवन्कलिकालेऽस्मिन्सर्वपापसमन्विते ॥

वर्षपापविशुद्ध्यर्थं दिनमेकं क्षितौ व्रज ॥

येन त्वत्पूजया पूता मर्त्याः शुद्धिमवाप्नुयुः

॥२७॥

ततो दत्तं हुतं तेषामस्माकमुपतिष्ठति ॥

यदुच्छिष्टं नरैर्दत्तं तद्वृथा जायतेऽखिलम्

॥२८॥

कलिकाले न चास्माकं किंचिदेवोपतिष्ठति ॥

अशुद्धैर्मानवैर्दत्तं प्रभूतमपि शंकर

॥२९॥

श्रीभगवानुवाच

माघमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर ॥

अहं यास्यामि भूपृष्ठे रात्रौ नैव दिवा कलौ

॥३०॥

लिंगेषु च समस्तेषु चलेषु स्थावरेषु च ॥

संक्रमिष्याम्यसंदिग्धं वर्षपापविशुद्धये

॥३१॥

तस्यां रात्रौ हि मे पूजां यः करिष्यति मानवः ॥

मंत्रैरेतैः सुरश्रेष्ठ विपाप्मा स भविष्यति

॥३२॥

ॐ सद्योजाताय नमः ॥

ॐ वामदेवाय नमः ॥

ॐ घोराय नमः ॥

ॐ तत्पुरुषाय नमः ॥

ॐ ईशानाय नमः ॥

एवं वक्त्राणि संपूज्य गन्धपुष्पानुलेपनैः ॥

वस्त्रैर्दीपैश्च नैवेद्यैस्ततोऽर्घं संप्रदापयेत् ॥

मंत्रेणानेन संपूज्य मां ध्यात्वा मनसि स्थितम् ॥

गौरीवल्लभ देवेश सर्वाद्य शशिशेखर ॥

वर्षपापविशुद्ध्यर्थमर्घो मे प्रतिगृह्यताम् ॥

ततः संपूजयेद्विप्रं भोजनाच्छादनादिभिः ॥

दत्त्वाथ दक्षिणां तस्मै वित्तशाठ्यं विवर्जयेत्

॥३५॥

धर्माख्यानकथाभिश्च सलास्यैस्तांडवैस्तथा

॥३६॥

एवं करिष्यते योऽत्र व्रतमेतत्सुरेश्वर ॥

वर्षपापविशुद्ध्यर्थं प्रायश्चित्तं भविष्यति

॥३७॥

तच्छ्रुत्वा त्रिदशाः सर्वे प्रणम्य शशिशेखरम् ॥

संप्रहृष्टा नरश्रेष्ठ स्वानि स्थानानि भेजिरे

॥३८॥

प्रेषयामासुरुर्व्यां च नारदं मुनिसत्तमम् ॥

प्रबोधनाय लोकानां शिवरात्रिकृते सदा

॥३९॥

सोऽपि गत्वा धरापृष्ठं श्रावयामास सर्वतः ॥

शिवरात्रेस्तु माहात्म्यं यदुक्तं शूलपाणिना

॥४०॥

ततः प्रभृति संजाता शिवरात्रिर्धरातले ॥

सर्वकामप्रदा पुण्या सर्वपातकनाशिनी

॥४१॥

अत्र वः कीर्तयिष्यामि पुरावृत्तं कथानकम् ॥

यद्वृत्तं नैमिषारण्ये लुब्धकस्यात्र कस्यचित्

॥४२॥

तत्रासील्लुब्धकः कश्चिज्जातिमात्रान्न कर्मतः ॥

व्यसेनानाभिभूतात्मा परवित्तापहारकः ॥

न कदाचिद्व्रतं तेन न दत्तं न जपः कृतः ॥

केवलं च हृतं वित्तं लोकानां छलसंश्रयात्

॥४४॥

कस्यचित्त्वथ कालस्य शिवरात्रिः समागता ॥

माघमासेऽसितेपक्षे सर्वपातकनाशिनी

॥४५॥

तत्रास्त्यायतनं पुण्यं देवदेवस्य शूलिनः ॥

तत्र जागरणं रात्रौ प्रारब्धं बहुभिर्ज्जनैः

॥४६॥

नारीभिर्नरशार्दूल भूषिताभिः सुभूषणैः ॥

अथासौ चिंतयामास चोरो दृष्ट्वाथ जागरम्

॥४७॥

गच्छामि यदि कांचित्स्त्रीं भूषणैः परिभूषिताम् ॥

निष्क्रांतां बाह्यतश्चास्य प्रासादस्याप्नुयामहम्

॥४८॥

ततो हत्वा समादाय भूषणानि व्रजाम्यहम् ॥

एवं निश्चित्य मनसा गतस्तस्य समीपतः।

कर्णिकारं समारुह्य स्थितो गुप्तस्ततो हि सः

॥५०॥

वीक्षमाणो दिशः सर्वा नारीनिष्क्रामणोद्भवाः ॥

चौरकर्मप्रवृत्तस्य शीतार्तस्य विशेषतः

॥५१॥

अल्पापि निद्रा नायाता न च नारी विनिर्गता ॥

तस्याधस्तात्ततो लिंगमभवत्तु धरोद्भवम् ॥

गत्वा च पत्राण्यादाय प्रचिक्षेपास्य चोपरि

॥५२॥

एतस्मिन्नेव काले तु प्रोद्गतस्तीक्ष्णदीधितिः ॥

असतीनां च चौराणां कामिनामसुखावहः

॥५३॥

ततो नराश्च नार्यश्च जग्मुः स्वंस्वं निकेतनम् ॥

उपचारपराः शांताः प्रणिपत्य महेश्वरम्

॥५४॥

सोऽपि चौरो निराशश्च क्षुत्क्षामः शीतविह्वलः ॥

अवतीर्य द्रुमात्तस्मादुपायं कंचिदाश्रितः

॥५५॥

ततः कालेन महता पंचत्वं समपद्यत ॥

जातो जातिस्मरः सोऽथ दशार्णाधिपतेर्गृहे

॥५६॥

उपवासप्रभावेन बलादपि प्रजागरात् ॥

शिवरात्रेस्तथा तस्य लिङ्गस्यापि प्रपूजया

॥५७॥

ततो राज्यं समासाद्य पितृपैतामहं महत् ॥

कारयामास लिंगस्य प्रासादं तस्य शोभनम्

॥५८॥

वर्षेवर्षे समाश्रित्य शिवरात्रौ प्रजागरात् ॥

उपवासपरोभूत्वा गीतवादित्रनिःस्वनैः

॥५९॥

धर्माख्यानकथाभिश्च गीतध्वनिभिरेव च ॥

पूर्वोक्तमंत्रैः संपूज्य अर्घं दत्त्वा विधानतः ॥

संतर्प्य ब्राह्मणान्कामैर्जगाम निलयं निजम्

॥६०॥

कस्यचित्त्वथ कालस्य शिवरात्रौ समागताः ॥

प्रासादे तत्र मुनयः प्राप्ता शाण्डिल्यपूर्वकाः

॥६१॥

शांडिल्योऽथ भरद्वाजो यवक्रीतोऽथ गालवः ॥

पुलस्त्यः पुलहो गार्ग्यस्तथान्ये बहवो नृप

॥६२॥

सोऽपि राजा बृहत्सेनो दशार्णाधिपतेः सुतः ॥

संप्राप्तो जागरं कर्तुं तस्य लिंगस्य चाग्रतः

॥६३॥

पूजयित्वा ततो देवं प्रणिपत्य मुनीश्वरान् ॥

उपविष्टस्तस्य चाग्रे ह्यनुज्ञातो द्विजोत्तमैः

॥६४॥

ततस्तस्याग्रतश्चक्रुः कथास्ते बहुधा नृप ॥

राजर्षीणामतीतानां ब्रह्मर्षीणां विशेषतः

॥६५॥

अथ कस्मिन्कथांते स तैः पृष्टो ब्रह्मवादिभिः ॥

कौतुकाविष्टचित्तैश्च विस्मयोत्फुल्ललोचनैः

॥६६॥

राजन्पृच्छामहे सर्वे वयं कौतूहलान्विताः ॥

यदि ब्रवीषि नः सत्यं देवतायतने स्थितः

॥६७॥

राजोवाच

यदि ज्ञास्यामि विप्रेंद्राः कथयिष्याम्यसंशयम् ॥

देवस्याग्रे च संपृष्टः सत्येनात्मानमालभे

॥६८॥

ऋषय ऊचुः

पुष्कलानि परित्यज्य कस्माद्दानान्यनेकशः ॥

जागरं कर्तुकामोऽत्र स्वदेशादुपतिष्ठसि

॥६९॥

वर्षेवर्षे सदा प्राप्ते नूनं त्वं वेत्सि कारणम् ॥

रहस्यं यदि ते न स्यात्तद्ब्रवीहि नराधिप

॥७०॥

सूत उवाच

सवैलक्ष्यं स्मितं कृत्वा ततः प्राह स दुर्मनाः ॥

रहस्यं परमं ह्येतदवाच्यं हि द्विजोत्तमाः

॥७१॥

तथापि च वदिष्यामि पृष्टो देवाग्रतो यतः

॥७२॥

ततः स कथयामास पूर्वदेहसमुद्भवम् ॥

मलिम्लुचस्ततो नूनं शिवरात्रिसमुद्भवम्

॥७३॥

चौर्यभावेन देवस्य पूजनं जागरस्तथा ॥

उपवासं विना तेन शिवरात्रौ पुरा कृतम्

॥७४॥

जातिस्मरणसंयुक्तं जन्मजातं यथातथम् ॥

ततस्ते मुनयः सर्वे साधुवादान्पृथग्विधान्

॥७५॥

नृपोत्तमस्य राजर्षेर्दत्त्वाशीर्भिः समन्वितान् ॥

रात्रौ जागरणं कृत्वा प्रजग्मुस्ते निजाश्रमान्

॥७६॥

सोऽपि राजासमभ्यर्च्य तं देवं तान्द्विजोत्तमान् ॥

जगाम स्वपुरं पश्चात्कृत्वा रात्रौ प्रजागरम्

॥७७॥

भर्तृयज्ञ उवाच

शिवरात्रिः समुत्पन्ना एवं भूमितले नृप ॥

एवंविधं च माहात्म्यं तस्यास्ते परिकीर्तितम्

॥७८॥

तस्मात्सर्वप्रयत्नेन कार्या स नृपसत्तम ॥

कलिकाले विशेषेण य इच्छेद्भूतिमात्मनः

॥७९॥

एषा कृता दिलीपेन नलेन नहुषेण च ॥

मान्धात्रा धुंधुमारेण सगरेण युयुत्सुना

॥८०॥

तथान्यैश्च विशेषेण सम्यक्छ्रद्धासमन्वितैः ॥

प्राप्ताश्च हृद्गताः कामा ये दिव्या ये च मानुषाः

॥८१॥

तथा चैव तु सावित्र्या श्रिया देव्या तु सीतया ॥

अरुंधत्या सरस्वत्या मेनया रंभया तथा

॥८२॥

इंद्राण्याथ दृषद्वत्या स्वधया स्वाहया तथा ॥

रत्या प्रीत्या प्रभावत्या गायत्र्या च नृपोत्तम ॥

सर्वाः प्राप्ताः प्रियान्कामानतिसौभाग्यसंयुतान्

॥८३॥

यश्चैतां पठते व्युष्टिं भावेन शिवसंनिधौ।

दिनजात्पातकात्सोऽपि मुच्यते नात्र संशयः

॥८४॥

नास्ति गंगासमं तीर्थं नास्ति देवो हरोपमः ॥

शिवरात्रेः परं नास्ति तपः सत्यं मयोदितम्

॥८५॥

सर्वरत्नमयो मेरुः सर्वाश्चर्यमयं तपः ॥

सर्वधर्ममयी राजञ्छिवरात्रिः प्रकीर्तिताः

॥८६॥

गरुडः पक्षिणां यद्वन्नदीनां सागरो यथा।

प्रधानः सर्वधर्माणां शिवरात्रिस्तथोत्तमा

॥८७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवारात्रिमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६६ ॥