दशरथशनैश्चरसंवादवर्णनम्
सूत उवाच
एवं तस्मिन्गते भूपे ह्यजापाले रसातलम् ॥
तत्पुत्रश्चाभवद्राजा मंत्रिभिस्तु पुरस्कृतः
॥१॥यो नित्यमगमत्स्वर्गे वासवं रमते सदा ॥
शनैश्चरो जितो येन रोहिणीं परिभेदयन्
॥२॥गृहे यस्य स्वयं विष्णुर्भूत्वा चैव चतुर्विधः ॥
रावणस्य विनाशार्थं जन्म चक्रे प्रहर्षितः
॥३॥तेनागत्यात्र सत्क्षेत्रे तोषितो मधुसूदनः ॥
प्रासादं शोभनं कृत्वा ततश्चैव प्रतिष्ठितः
॥४॥तस्यापि विश्रुता वापी स्वयं तेन विनिर्मिता ॥
राजवापीति लोकेऽस्मिन्विख्यातिं परमां गता
॥५॥तस्यां यः कुरुते श्राद्धं संप्राप्ते पञ्चमीदिने ॥
प्रेतपक्षे विशेषेण स नरः स्यात्सतां प्रियः
॥६॥ऋषय ऊचुः
कथं तेन जितः सौरी रोहिणीशकटं च यत् ॥
भिंदानस्तोषितस्तेन कथं नारायणो वद
॥७॥सूत उवाच
तस्मिञ्छासति धर्मज्ञे स्वधर्मेण वसुन्धराम् ॥
अतिसौख्यान्वितो लोकः सर्वदैव व्यजायत
॥८॥बहुक्षीरप्रदा गावः सस्यानि गुणवंति च ॥
कामवर्षी च पर्जन्यो यथर्त्तुफलिता द्रुमाः
॥९॥कस्यचित्त्वथ कालस्य दैवज्ञैस्तस्य भूपतेः ॥
कथितं रोहिणीभेदं रविपुत्रः करिष्यति
॥१०॥तस्यानंतरमेवाशु दुर्भिक्षं संभविष्यति ॥
अनावृष्टिश्च भविता रौद्रा द्वादश वार्षिकी ॥
यया संपत्स्यते सर्वं भूतलं गतमानवम्
॥११॥तेषां तद्वचनं श्रुत्वा स राजा कुपितोऽभ्यगात् ॥
शनैश्चरं समुद्दिश्य विमानमधिरुह्य च
॥१२॥तस्य तुष्टेन संदत्तं विमानं कामगं पुरा ॥
शक्रेण तत्र संतिष्ठञ्छनैश्चरमुपाद्रवत्
॥१३॥ततः सूर्यपथं मुक्त्वा ततश्चंद्रस्य पार्थिवः ॥
नक्षत्रसरणिं प्राप्य सज्यं कृत्वा महद्धनुः ॥
१४ तत्र बाणं समारोप्य शनैश्चरमुपाद्रवत् ॥
प्रोवाच पुरतः स्थित्वा सूर्यपुत्रमधोमुखम्
॥१५॥त्यजैनं रोहिणीमार्गं सांप्रतं त्वं शनैश्चर ॥
मद्वाक्यादन्यथाऽहं त्वां नयिष्यामि यमक्षयम्
॥१६॥एतेन निशिताग्रेग शरेणा नतपर्वणा ॥
दिव्यास्त्रमंत्रयुक्तेन सत्यमेतद्ब्रवीम्यहम्
॥१७॥तस्य तद्वचनं श्रुत्वा तादृग्रौद्रतमं महत् ॥
मन्दो विस्मयमापन्नस्ततश्चेदमभाषत
॥१८॥कस्त्वं ब्रूहि महाभाग मम मार्गं रुणत्सि यः ॥
अगम्यं केनचिल्लोके सर्वैरपि सुरासुरैः
॥१९॥राजोवाच
अहं दशरथो नाम सूर्यवंशोद्भवो नृपः ॥
अजस्य तनयः प्राप्तः कामं वारयितुं क्रुधा
॥२०॥मंद उवाच
न त्वया सह संबंधः कश्चिदस्ति महीपते ॥
मम यत्त्वं प्रकोपाढ्यो मन्मार्गं हंतुमिच्छसि
॥२१॥राजोवाच
रोहिणीसंभवं त्वं हि शकटं भेदयिष्यसि ॥
सांप्रतं मम दैवज्ञैर्वाक्यमेतदुदाहृतम्
॥२२॥तस्मिन्मन्द त्वया भिन्ने न वर्षति शतक्रतुः ॥
एतद्वदति दैवज्ञा ज्योतिःशास्त्रविचक्षणाः
॥२३॥जाते वृष्टिनिरोधेऽथ जायंतेऽन्नानि न क्षितौ ॥
अन्नाभावात्क्षयं यांति ततो भूभितले जनाः
॥२४॥जनोच्छेदे ततो जाते अग्निष्टोमादिकाः क्रियाः ॥
न भवंति धरा पृष्ठे ततः स्यादेव संक्षयः
॥२५॥एतस्मात्कारणाद्रुद्धो मार्गस्ते सूर्यसंभव ॥
रोहिणीं गंतुकामस्य सत्यमेतन्मयोदितम्
॥२६॥शनिरुवाच
गच्छ पुत्र निजं गेहं ममापि त्वं च रोचसे ॥
तुष्टोऽहं तव वीर्येण न त्वन्येन महीपते
॥२७॥न केनचित्कृतं कर्म यदेतद्भवता कृतम् ॥
न करिष्यति चैवान्यो देवो वा मानवोऽथ वा
॥२८॥नाहं पश्यामि भूपाल कथंचिदपि तूर्ध्वतः ॥
यतो दृष्टिविनिर्दग्धं भस्मसाज्जायतेऽखिलम्
॥२९॥जातमात्रेण बालेन मया पादौ निरीक्षितौ ॥
तातस्य सहसा दग्धौ ततोऽहं वारितोंऽबया
॥३०॥न त्वया पुत्र द्रष्टव्यं किंचिदेव कथंचन ॥
प्रमाणं यदि ते धर्मो मातृवाक्यसमुद्भवः
॥३१॥तस्मात्त्वया महत्कर्म कृतमीदृक्सुदुष्करम् ॥
प्रजानां पार्थिवश्रेष्ठ त्यक्त्वा दूराद्भयं मम
॥३२॥तस्मा त्तव कृते नाहं भेदयिष्यामि रोहिणीम् ॥
कथंचिदपि भूपाल युगांतररशतेष्वपि
॥३३॥वरं वरय चास्माकं तस्मादद्य भविष्यति ॥
हृतत्स्थितं दुर्लभं भूप सर्वेषामिह देहिनाम्
॥३४॥राजोवाच
तव यो वासरे प्राप्ते तैलाभ्यंगं करोति वै ॥
तस्याऽन्यदिवसं यावत्पीडा कार्या न च त्वया
॥३५॥तिलदानं करोत्येवं लोहदानं च यस्तव ॥
करोति दिवसे शक्त्या यावद्वर्षं त्वया हि सः
॥३६॥रक्षणीयः सुकृच्छ्रेषु संकटेषु सदैव हि ॥
त्वयि गोचरपीडायां संस्थिते चार्कसंभव
॥३७॥यः कुर्याच्छांतिकं सम्यक्तिलहोमं च भक्तितः ॥
वासरे तव संप्राप्ते समिद्भिश्च तथाऽक्षतैः
॥३८॥तस्य सार्धानि वर्षाणि सप्त कार्या प्रयत्नतः ॥
त्वया रक्षा महाभाग वरं चेन्मम यच्छसि
॥३९॥सूत उवाच
एवमित्येव संप्रोच्य विरराम ततः परम् ॥
शनैश्चरो महीपालवचनाद्द्विजसत्तमाः
॥४०॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं सुविस्तरात् ॥
भवद्भिः सूर्यपुत्रस्य राज्ञा दशरथेन हि ॥
संवादं रोहिणीभेदे सञ्जातं समुपस्थिते
॥४१॥यश्चैतत्पठते नित्यं शृणुयाद्यो विशेषतः ॥
शनैश्चरकृता पीडा तस्य नाशं प्रगच्छति
॥४२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशरथशनैश्चरसंवादवर्णनंनाम षण्णवतितमोऽध्यायः ॥ ९६ ॥