माहात्म्यवर्णनम्
सूत उवाच
तथान्यापि च तत्रास्ति गौरी वै पञ्चपिंडिका ॥
लक्ष्म्या संस्थापिता चैव मानुषत्वंव्यवस्थया
॥१॥तस्या दर्शनमात्रेण नारी सौभाग्यमामुयात् ॥
ज्येष्ठे मासि सिते पक्षे वृषस्थे च दिवाकरे
॥२॥तस्या उपरि नारी या जलयन्त्रं दधाति वै ॥
स्राव्यमाणं दिवानक्तं सौभाग्यं परमं लभेत्
॥३॥यत्फलं लभते नारी समस्तैर्विहितैर्व्रतैः ॥
गौरीसमुद्भवैश्चैव दानैर्दत्तैस्तदिष्टजैः ॥
तत्फलं लभते सर्वं जलयन्त्रस्य कारणात्
॥४॥तस्मात्सर्वप्रयत्नेन स्त्रीभिः सौभाग्यकारणात् ॥
जलयन्त्रं विधातव्यं ज्येष्ठे गौर्याः प्रयत्नतः
॥५॥किं व्रतैर्नियमैर्वापि स्त्रीणां ब्राह्मणसत्तमाः ॥
जपैर्होमैः कृतैरन्यैर्बहुक्लेशकरैश्च तैः
॥६॥स्त्रीणां ब्राह्मणशार्दूला जलेयन्त्रे धृते सति ॥
गौर्या उपरि सद्भक्त्या वृषस्थे तीक्ष्णदीधितौ
॥७॥नैवं संजायते वंध्या काकवन्ध्या न जायते ॥
न दौर्भाग्यसमोपेता सप्तजन्मांतराणि सा
॥८॥ऋषय ऊचुः
गौरी चतुर्भुजा प्रोक्ता दृश्यते परमेश्वरी ॥
पञ्चपिंडा कथं जाता ह्येतं नः संशयं वद
॥१॥सूत उवाच
यदा च प्रलयो भावि तदा त्मानं करोत्यसौ ॥
पश्चपिंडीमयं विप्राः कुरुते रूपमुत्तमम्
॥१०॥एषा सा परमा शक्तिः सर्वं व्याप्य सुरेश्वरी ॥
तया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्
॥११॥पृथिव्यापश्च तेजश्च वायुराकाशमेव च ॥
सृष्ट्यर्थं रक्षयेदेषा ततः स्यात्पंचपिंडिका
॥१२॥यदस्यां पूजितायां तु प्रत्यक्षायां प्रजायते ॥
सहस्रत्रिगुणं तच्च यत्र स्यात्पञ्चपिण्डिका
॥१३॥ज्येष्ठे मासि विशेषेण जलयंत्रार्चनेन च ॥
अत्र वः कीर्तयिष्यामि त्विति हासं पुरातनम्
॥१४॥यद्वृत्तं काशिराजस्य भार्याया द्विजसत्तमाः ॥
यच्च प्रोक्तं पुरा लक्ष्म्या विष्णवे परिपृष्टया
॥१५॥लक्ष्मी रुवाच
काशिराजः पुरा ह्यासीज्जयसेन इति श्रुतः ॥
तस्य भार्यासहस्रं तु ह्यासीद्रूपसमन्वितम्
॥१६॥अथ चान्या प्रिया तेन लब्धा भार्या सुशोभना ॥
मनुष्यत्वव्यवस्थाया मम चांशकला हि या ॥
सुता मद्राधिराजस्य विष्वक्सेनस्य धीमतः
॥१७॥सा गत्वा प्रातरुत्थाय शुभे गंगातटे तदा ॥
पञ्चपिंडात्मिकां गौरीं कृत्वा कर्द्दमसंभवाम्
॥१८॥ततः संपूजयामास मन्त्रैः पंचभिरेव च ॥
ततो गन्धैः परैर्माल्यैर्धूपै र्वस्त्रैः सुशोभनैः
॥१९॥नैवेद्यैः परमान्नैश्च गीतैर्नृत्यैः प्रवादितैः ॥
ततो विसृज्य तां देवीं तदुद्देशेन वै ततः
॥२०॥दत्त्वा दानानि भूरीणि गौरिणीनां द्विजन्मनाम् ॥
ततश्च गृहमभ्येति भूरिवादित्रनिःस्वनैः
॥२१॥यथायथा च तां पूजां तस्या गौर्या करोति सा ॥
तथातथा तु सौभाग्यं तस्याश्चाप्यधिकं भवेत्
॥२२॥सर्वासां च सपत्नीनां सौभाग्यं वाधिकं भवेत्
॥२३॥अथ तस्याः सपत्न्यो याः सर्वा दुःखसमन्विताः ॥
दृष्ट्वा सौभाग्यवृद्धिं तां तस्या एव दिनेदिने
॥२४॥एकाः प्रोचुः कर्म चैतद्यदेषा कुरुते सदा ॥
मृन्मयांश्च समादाय पूजयेत्पंचपिंडकान्
॥२५॥अन्यास्तां मंत्रसंसिद्धां प्रवदंति महर्षयः ॥
अन्या वदन्ति पुण्यानि ह्यस्याः पूर्वकृतानि च
॥२६॥एवं तासां सुदुःखानां महान्कालो जगाम ह ॥
कस्यचित्त्वथ कालस्य सर्वाः संमंत्र्य ता मिथः
॥२७॥तस्याः संनिधिमाजग्मुस्तस्मिन्नेव जलाशये ॥
यत्र सा पूजयेद्गौरीं कृत्वा तां पञ्च पिंडिकाम्
॥२८॥ततः सर्वाः समालोक्य त्यक्त्वा गौरीप्रपूजनम् ॥
संमुखी प्रययौ तूर्णं कृतांजलिपुटा स्थिता
॥२९॥स्वागतं वो महा भागा भूयः सुस्वागतं च वः ॥
कृत्यं निवेद्यतां शीघ्रं येनाशु प्रकरोम्यहम्
॥३०॥सपत्न्य ऊचुः
वयं सर्वाः समायाताः कौतुके तवांतिकम् ॥
दौर्भाग्यवह्निनिर्दग्धास्तव सौभाग्यजेनच
॥३१॥तस्माद्वद महाभागे मृन्मयां पंचपिंडिकाम् ॥
नित्यमर्चयसि त्वं किं सौभा ग्यस्य विवर्धनम्
॥३२॥किं ते कारणमेतद्धि किं वा मन्त्रसमुद्भवः ॥
प्रभावोऽयं महाभागेगुह्यं चेन्नो वदस्व नः
॥३३॥पद्मावत्युवाच
रहस्यं परमं गुह्यं यत्पृष्टास्मि शुभाननाः ॥
अवक्तव्यं वदिष्यामि भवतीनां तथापि च
॥३४॥गौरीपूजनकाले तु यस्माच्चैव समागताः ॥
सर्वा मम भगिन्यः स्थ ईर्ष्याधर्मो न मेऽस्ति च
॥३५॥अहमासं पुरा कन्या पुरे कुसुमसंज्ञिते ॥
वीरसेनस्य शूद्रस्य वणिक्पुत्रस्य धीमतः ॥
तेन दत्ताऽस्मि धर्मेण विवाहार्थं महात्मना
॥३६॥ततो विवाहसमये मम दत्तानि वृद्धये ॥
पंचाक्षराणि श्रेष्ठानि योषिता दीक्षया सह ॥
गौरी पूजाकृते चैव प्रोक्ता चाहं ततः परम्
॥३७॥यावत्पुत्रि त्वमात्मानमेतैः पूजयसेऽक्षरैः ॥
जलपानं न कर्तव्यं तावच्चैव कथञ्चन
॥३८॥येन संप्राप्स्यसेऽभीष्टं तत्प्रभावाद्यदीप्सितम् ॥
तथेति च मया प्रोक्तं तस्याश्चैव वरानने
॥३९॥ततो विवाहे निर्वृत्ते गताऽहं पतिना सह ॥
श्वशुर स्तिष्ठते यत्र श्वश्रूश्चैव सुदारुणा ॥
6,177.४० ॥
गौरीपूजाकृते मां च निवारयति सर्वदा ॥
ततोऽहं भयसन्त्रस्ता गौरीभक्तिपरायणा ॥
जलार्थं यत्र गच्छामि तस्मिंश्चैव जलाश्रये
॥४१॥ततः कर्द्दममादाय मन्त्रैः पंचभिरेवच ॥
तैरेव पूजयाम्येव गौरीं भक्तिपरायणा
॥४२॥प्रक्षिपामि तत स्तोये ततो गच्छामि मन्दिरम् ॥
कस्यचित्त्वथ कालस्य भर्ता मे प्रस्थितः शुभः ॥
देशांतरं वणिग्वृत्त्या सोऽपि मार्गं तमाश्रितः
॥४३॥स गच्छन्मरुमार्गेण मां समादाय स्नेहतः ॥
संप्राप्तो निर्जलं देशं सुरौद्रं मरुमंडलम्
॥४४॥तथा रौद्रतरे काले वृषस्थे दिवसाधिपे।
ततः सार्थः समस्तश्च विश्रांतः स्थलमध्यगः
॥४५॥कूपमेकं समाश्रित्य गम्भीरं जलदोपमम् ॥
एतस्मिन्नेव काले तु मया दृष्टः समीपगः ॥
तोयाकारो मरु द्देशस्तश्चित्ते विचिन्तितम्
॥४६॥यत्तच्च दृश्यते तोयं समीपस्थं तथा बहु ॥
अत्र स्नात्वा शुचिर्भूत्वा गौरीमभ्यर्च्य भक्तितः ॥
पिबामि सलिलं पश्चात्सुस्वादु सरसीभवम्
॥४७॥ततः संप्रस्थिता यावत्प्रगच्छामि पदात्पदम् ॥
यावद्दूरतरं यामि तावत्सा मृगतृष्णिका
॥४८॥एतस्मिन्न न्तरे प्राप्तो नभोमध्यं दिवाकरः ॥
वृषस्थो येन दह्यामि ह्युपरिष्टाच्छुभानना
॥४९॥अधोभागे सुतप्ताभिर्वालुकाभिः समंततः ॥
तृष्णार्ताऽहं ततस्तस्मिन्मरुदेशे समाकुला
॥५०॥ततश्च पतिता भूमौ विस्फोटकसमावृता ॥
ततो मया स्मृता चित्ते कथा भारतसंभवा
॥५१॥नृगेण तु यथा यज्ञो वालुकाभिर्विनिर्मितः ॥
कूपान्तः क्षिप्यमाणेन तृणलोष्टांबुवर्जितम्
॥५२॥भक्तिग्राह्यास्ततो देवास्तुष्टास्तस्य महात्मनः ॥
तदहं वालुकाभिश्च पूजयामि हरप्रियाम्
॥५३॥तेन तुष्टा तु सा देवी मम राज्यं प्रयच्छति ॥
अद्य देहान्तरे प्राप्ते मनोभीष्टमनंतकम् ॥
५४ ततस्तु पंचभिर्मन्त्रैस्तैरेव स्मृतिमागतैः ॥
पंचभिर्मुष्टिभिर्देवी वालुकोत्थैः प्रपूजिता
॥५५॥ततः पञ्चत्वमापन्ना तत्कालेऽहं वरांगनाः ॥
दशार्णाधिपतेर्जाता सदने लोकविश्रुते
॥५६॥जातिस्मरणसंयुक्ता तस्या देव्याः प्रसादतः ॥
भवतीनां कनिष्ठास्मि ज्येष्ठा सौभाग्यतः स्थिता
॥५७॥एत स्मात्कारणाद्गौरीं मुक्त्वैतान्पञ्चपिण्डकान् ॥
कर्द्दमेन विधायाथ पूजयामि दिनेदिने
॥५८॥एतद्गुह्यं मया ख्यातं भवतीनामसंशयम् ॥
सत्येनानेन मे गौरी मनोभीष्टं प्रयच्छतु
॥५९॥लक्ष्मीरुवाच
ततः सर्वाः सपत्न्यस्ताः कृतांजलिपुटाः स्थिताः ॥
मामूचुर्विनयाद्वाचा प्रणिपत्य मुहुर्मुहुः
॥६॥प्रसादं कुरु चास्माकं दीयतां मन्त्रपंचकम् ॥
तदेव येन ते देवी तुष्टा सा परमेश्वरी
॥६१॥मया प्रोक्ताश्च ता सर्वाः प्रार्थयध्वं यथेच्छया ॥
अहं सर्वं प्रदास्यामि तत्सत्यं वचनं मम
॥६२॥ततो देव मया प्रोक्तं तासां तन्मंत्रपंचकम् ॥
शिष्यत्वं गमितानां च वाङ्मनःकायकर्मभिः
॥६३॥विष्णुरुवाच
ममापि वद देवेशि कीदृक्तन्मन्त्रपञ्चकम् ॥
यत्त्वयाऽनुष्ठितं पूर्वं तया तासां निवेदि तम्
॥६४॥लक्ष्मीरुवाच
नमः पृथिव्यै क्षांतीशि नम आपोमये शुभे ॥
तेजस्विनि नमस्तुभ्यं नमस्ते वायुरूपिणि
॥६५॥आकाशरूपसंपन्ने पंचरूपे नमोनमः
॥६६॥एभिर्मन्त्रैर्मया पूर्वं पूजिता परमेश्वरी ॥
तेन राज्यं मया प्राप्तं सर्वस्त्रीणां सुदुर्लभम्
॥६७॥ततश्च स्थापिता देवी कृत्वा रत्नमयी शुभा ॥
हाटकेश्वरजे क्षेत्रे मया तत्र सुरेश्वर
॥६८॥तां या पूजयते नारी सद्योऽपि पतिवल्लभा ॥
जायते नात्र सन्देहः सर्वपापविवर्जिता
॥६९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पञ्चपिंडिकोत्पत्ति माहात्म्य वर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ॥ १७७ ॥