मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ८९

3
नागरखण्डः · 89

एवं तत्र स्थिते नित्यं तस्मिन्मातृगणे द्विजाः

सूत उवाच

एवं तत्र स्थिते नित्यं तस्मिन्मातृगणे द्विजाः ॥

बालकानां क्षयो जज्ञे ब्राह्मणानां गृहेगृहे

॥१॥

तरुणानां विशेषेण चमत्कारपुरोत्तरे ॥

छिद्रमन्वेषमाणास्ता भ्रमंत्यखिलदेवताः

॥२॥

ततस्ते ब्राह्मणाः सर्वे ज्ञात्वा छिद्रसमुद्भवम् ॥

विघातं बालकानां च देवताभिर्विनिर्मितम्

॥३॥

अम्बावृद्धे समासाद्य पूजयित्वा प्रयत्नतः ॥

प्रोचुश्च दुःखसन्तप्ता विनयावनताः स्थिताः

॥४॥

रक्षार्थं सर्वविप्राणां चमत्कारेण भूभुजा ॥

भवद्भ्यां निर्मितः श्रेष्ठः प्रासादोऽयं मनोहरः

॥९॥

ह्रियंते बालका रात्रौ छिद्रं प्राप्य सहस्रशः ॥

युष्मदीयाभिरेताभिर्देवताभिः समन्ततः

॥६॥

प्रसादः क्रियतां तस्माद्ब्राह्मणानां महात्मनाम् ॥

नो चेत्पुरं परित्यज्य यास्यामोऽन्यत्र भूतले

॥७॥

तेषां तद्वचनं श्रुत्वा ततोंऽबा कृपयान्विता ॥

हत्वा पादप्रहारेण भूमिं चक्रे गुहां ततः

॥८॥

तस्यां स्वे पादुके न्यस्य ततः प्रोवाच देवताः ॥

सर्वास्ता नतसर्वांगीर्विनयेन समन्विताः

॥९॥

इमे मत्पादुके दिव्ये गुहामध्यगते सदा ॥

सर्वाभिः सेवनीये च न गन्तव्यं बहिः क्वचित्

॥१०॥

या काचिल्लौल्यमास्थाय निष्क्रमिष्यति मोहतः ॥

सा दिव्यभावनिर्मुक्ता शृगाली संभविष्यति

॥११॥

देवता ऊचुः

अत्र स्थाने महादेवि कोऽस्माकं प्रकरिष्यति ॥

पूजां को वात्र चाहारस्तस्माद्ब्रूहि सुरेश्वरि

॥१२॥

अम्बोवाच

अत्रागत्य विनिर्मुक्ता योगिनो ध्यानचिन्तकाः ॥

पूजां सम्यक्करिष्यंति सर्वासां भक्तिसंयुताः

॥१३॥

पादुके मे प्रपूज्यादौ मांस मद्यादिभिः क्रमात् ॥

अवाप्स्यंति च संसिद्धिं दुर्लभाममरैरपि

॥१४॥

ततस्तथेति ताः प्रोच्य गुहामध्ये व्यवस्थिताः ॥

परिवार्य शुभे तस्याः पादुके मोक्षदायिके

॥१५॥

ततस्तत्र समागत्य पुरुषा अपि दूरतः ॥

प्रपूज्य पादुके सम्यङ्मातॄस्ताश्च ततः परम् ॥

प्रयांति च परां सिद्धिं जन्म मृत्युविवर्जिताम्

॥१६॥

एतस्मिन्नंतरे नष्टा अग्निष्टोमादिकाः क्रियाः ॥

तीर्थयात्राव्रतान्येव संयमा नियमाश्च ये १७ ॥

ये चापि ब्राह्मणाः शांताः सदा मद्यस्य दूषणम् ॥

प्रकुर्वंति स्वहस्तेन तेऽपि मद्यैः पृथग्विधैः

॥१८॥

तर्पयंति तथा मांसैस्त्यक्ताशेषमखक्रियाः ॥

पादुके मातृभिर्जुष्टे तथा धूपानुलेपनैः

॥१९॥

एतस्मिन्नंतरे भीताः सर्वे देवाः सवासवाः ॥

दृष्ट्वा यज्ञक्रियोच्छेदं क्षुत्पिपासा समाकुलाः

॥२०॥

प्रोचुर्महेश्वरं गत्वा विनयावनताः स्थिताः ॥

स्तुत्वा पृथग्विधैः सूक्तैर्वेदोक्तैः शतरुद्रियैः

॥२१॥

देवा ऊचुः

हाटकेश्वरजे क्षेत्रे पादुके तत्र संस्थिते ॥

अंबाया मातृभिः सार्धं गुहामध्ये सुगुप्तके

॥२२॥

ब्राह्मणा अपिदेवेश मद्यमांसेन भक्तितः ॥

ताभ्यां पूजां प्रकुर्वंति प्रयांति परमां गतिम्

॥२३॥

नष्टा धर्मक्रिया सर्वा मर्त्यलोकेत्र सांप्रतम् ॥

अस्माकं संक्षयो जातो यज्ञभागं विना प्रभो

॥२४॥

तस्मात्त्वं कुरु देवेश यथा स्यात्पादुकाक्षयः ॥

प्रभवंति मखा भूमावस्माकं स्युः परा मुदः

॥२५॥

श्रीभगवानुवाच

या सा अंबेति विख्याता शक्तिः सा परमेश्वरी ॥

जगन्माताऽक्षया साक्षान्ममा पि जननी च सा

॥२६॥

तत्कथं संक्षयस्तस्याः कर्तुं केनापि शक्यते ॥

मनसापि महाभागाः पादुकानां विशेषतः

॥२७॥

परं तत्र करिष्यामि सुखोपायं सुरेश्वराः ॥

युष्मभ्यं पादुकायां च महत्त्वं येन जायते

॥२८॥

एवमुक्त्वा ततो ध्यानं चक्रे देवो महेश्वरः ॥

व्यावृत्यकमलं हृत्स्थमष्टपत्रं सकर्णिकम्

॥२९॥

तस्यांतर्गतमासीनमंगुष्ठाग्रमितं शुभम् ॥

द्वादशार्कप्रभं सूक्ष्मं स्वमात्मानं व्यलोकयत्

॥३०॥

तस्यैवं ध्यायमानस्य तृतीयनयनात्ततः ॥

श्वेतांबरधरा शुभ्रा निर्गता कन्यका शुभा

॥३१॥

अथ सा प्राह तं देवं प्रणिपत्य महेश्वरम् ॥

किमर्थं देव सृष्टास्मि ममादेशः प्रदीयताम्

॥३२॥

श्रीभगवानुवाच

हाटकेश्वरजे क्षेत्रे पादुके संस्थिते शुभे ॥

श्रीमातुर्जगतां मुख्ये ताभ्यां पूजां त्वमाचर

॥३३॥

कन्यकां संपरित्यज्य तवान्वयविवर्द्धिताम् ॥

यः करिष्यति तत्पूजामाहारः स्यात्स मातृषु

॥३४॥

कौमारब्रह्मचर्य्येण त्वयापि च सुभक्तितः ॥

ताभ्यां पूजा प्रकर्तव्या नो चेन्नाशमवाप्स्यसि

॥३५॥

तव पूजा करिष्यन्ति ये नरा भक्तितत्पराः ॥

मातॄणां संमतास्ते स्युः सर्वदैव सुखान्विताः

॥३६॥

एवमुक्त्वा ततस्तस्या मंत्रमार्गं यथोचितम् ॥

पूजामार्गं विशेषेण कथयामास विस्तरात् ॥

ततो विसर्जयामास दत्त्वा छत्रादिभूषणम् ॥

प्रतिपत्तिं महादेवस्तांश्च सर्वान्सुरेश्वरान्

॥३८॥

कुमार्युवाच

त्वयेतत्कथितं देव त्वदन्वयसमुद्भवाः ॥

कन्यकाः पूजयिष्यंति पादुके ते सुशोभने

॥३९॥

कौमारब्रह्मचर्य्येण भविष्यत्यन्वयः कथम् ॥

एतन्मे विस्तरात्सर्वं यथावद्वक्तुमर्हसि

॥४०॥

श्रीभगवानुवाच

यस्यायस्याः प्रसन्ना त्वं कन्यकाया वदिष्यसि ॥

मंत्रग्राममिमं सम्यक्त्वद्भावा सा भविष्यति

॥४१॥

एवं चान्या महाभागे पारंपर्येण कन्यकाः ॥

तव वंशोद्भवाः सर्वाः प्रभविष्यंति मंत्रतः ॥

४२ ततः सा तां समासाद्य पादुकासंभवां गुहाम् ॥

पूजां चक्रे यथान्यायं यथोक्तं त्रिपुरारिणा

॥४३॥

सूत उवाच

तदन्वयसमुत्थायाः कन्यकायाः करेण यः ॥

पादुकाभ्यां नरः पूजां प्रकरोति समाहितः ॥

इह लोके सुखं प्राप्य स स्यात्प्रेत्य सुखान्वितः

॥४४॥

तस्मात्सर्वप्रयत्नेन कन्याहस्तेन पादुके ॥

पूजनीये विशेषेण पूज्या सा चापि कन्यका

॥४५॥

वांछद्भिः शाश्वतं सौख्यमिह लोके परत्र च ॥

मानवैर्भक्तिसंयुक्तैरित्युवाच महेश्वरः

॥४६॥

एतद्वः सर्वमाख्यातं माहात्म्यं पादुकोद्भवम् ॥

श्रीमातुरनुषंगेण अंबादेव्या द्विजोत्तमाः

॥४७॥

यश्चैतच्छृणुयाद्भक्त्या चतुर्दश्यां समाहितः ॥

तथाष्टम्यां विशेषेण स प्राप्नोति परं पदम्

॥४८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीमातुः पादुकामाहात्मवर्णनंनामैकोननवतितमोऽध्यायः ॥ ८९ ॥