मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९

3
नागरखण्डः · 9

नागबिलपूर्तिवर्णनम्

सूत उवाच

अथ शक्रः समाहूय प्रोचे संवर्तकानिलम् ॥

हाटकेश्वरजेक्षेत्रे महान्नागबिलोऽस्ति वै

॥१॥

तं पूरय ममादेशाद्द्रुतं गत्वाऽभिपांसुभिः ॥

येन न स्याद्गतिस्तत्र कस्यचिन्मृत्युधर्मिणः

॥२॥

वायुरुवाच

तवादेशान्मया पूर्वं पूरितो विवरो यदा ॥

लिंगोद्भवस्तदा शापः प्रदत्तो मे पुरारिणा

॥३॥

यस्माल्लिंगं ममैतद्वै त्वया पांसुभिरावृतम् ॥

तस्मात्समानधर्मा त्वं गन्धवाहो भविष्यसि ॥

यद्वत्कर्पूरजं गन्धं समग्रं त्वं हि वक्ष्यसि ॥

अमेध्यसंभवं तद्वन्मम वाक्यादसंशयम्

॥५॥

तस्मात्कुरु प्रसादं मे विदित्वैतत्सुरेश्वर ॥

कृत्येऽस्मिन्स्म र्यतामन्यस्त्रिपुरारेर्बिभेम्यहम्

॥६॥

ततः संचिंतयामास पूरणं त्रिदशाधिपः ॥

तस्य नागबिलस्यैव नैव किंचिदवैक्षत

॥७॥

ततस्तं प्राह देवेज्यःस्वय मेव शतक्रतुम् ॥

कस्मात्त्वं व्याकुलीभूतः कृत्येऽस्मिंस्त्रिदशाधिप

॥८॥

अस्ति पर्वतमुख्योऽत्र नाम्ना ख्यातो हिमालयः ॥

तस्य पुत्रत्रयं जातं तच्च शक्र शृणुष्व मे

॥९॥

मैनाकः प्रथमः प्रोक्तो द्वितीयो नंदिवर्धनः ॥

रक्तशृंगस्तृतीयस्तु पर्वतः परिकीर्तितः

॥१०॥

स मैनाकः समुद्रांतः प्रविष्टः शक्र ते भयात् ॥

पक्षाभ्यां सहितोऽद्यापि स तत्रैव व्यवस्थितः

॥११॥

नंदिवर्धन इत्येष द्वितीयः परिकीर्तितः ॥

वसिष्ठाश्रमजो रन्ध्रस्ते न कृत्स्नः प्रपूरितः

॥१२॥

हिमाचलसमादेशाद्वसिष्ठस्य च सन्मुनेः ॥

देवभूमिं परित्यज्य स गतस्तत्र सत्वरम्

॥१३॥

तृतीयस्तिष्ठतेऽद्यापि रक्तशृंगः स्मृतोऽत्र यः ॥

तमानय सहस्राक्ष बिलं सार्पं प्रपूरय

॥१४॥

नान्यथा पूरितुं शक्यो बिलोऽयं त्रिदशाधिप ॥

तं मुक्त्वा पर्वत श्रेष्ठं सत्यमेतन्मयोदितम्

॥१५॥

सूत उवाच

तच्छ्रुत्वा देवपूज्यस्य वचनं त्रिदशाधिपः ॥

जगाम सत्वरं तत्र स यत्रास्ते हिमालयः

॥१६॥

ततः प्रोवाच तं गत्वा सामपूर्वमिदं वचः ॥

हिमाचलं गिरिश्रेष्ठं सिद्धचारणसेवितम्

॥१७॥

इन्द्र उवाच

हाटकेश्वरजे क्षेत्रे महान्नागबिलः स्थितः ॥

तेन गत्वा नरा देवं पाताले हाटकेश्वरम्

॥१८॥

पूजयिष्यंति ये केचिदपि पापपरायणाः ॥

मया सार्धं करिष्यंति ततः स्पर्द्धां नगोत्तम

॥१९॥

तस्मात्पुत्रमिमं तत्र रक्तशृंगं हिमालय ॥

प्रेषयस्व बिलो येन पूर्यते सोऽहिसंभवः

॥२०॥

कुरुष्व त्वं ममातिथ्यं गृहप्राप्तस्य पर्वत ॥

आत्मपुत्रप्रदानेन कीर्तिं प्राप्स्यस्यलौकिकीम्

॥२१॥

बाढमित्येव सोऽप्युक्त्वा पूजयित्वा च देवपम् ॥

ततः प्रोवाच तं पुत्रं रक्तशृंगं हिमालयः

॥२२॥

तवार्थाय सहस्राक्षः पुत्र प्राप्तो ममांतिकम् ॥

तस्माद्गच्छ द्रुतं तत्र यत्र नागबिलः स्थितः

॥२३॥

पूरयित्वा ममादेशात्तं त्वं शक्रस्य कृत्स्नशः ॥

सुखी भव सहानेन तथान्यैः सुरसत्तमैः

॥२४॥

रक्तशृंग उवाच

नाहं तत्र गमिष्यामि मर्त्य भूमौ कथंचन ॥

यत्र कण्टकिनो वृक्षा रूक्षाः फलविवर्जिताः

॥२५॥

न सिद्धा न च गंधर्वा न देवा न च किंनराः ॥

न च तीर्थानि रम्याणि न नद्यो विमलोदकाः

॥२६॥

तथा पापसमाचारा मनुष्याः शीलवर्जिताः ॥

दुष्टचित्ताः सदा सर्वे तिर्यग्योनिगता अपि

॥२७॥

तथा मम नगश्रेष्ठ पक्षौ द्वावपि कर्तितौ ॥

शक्रेण तेन नो शक्तिर्गंतुमस्ति कथंचन

॥२८॥

तस्मात्कंचित्सहस्राक्ष उपायं तत्कृते परम् ॥

चिंतयत्वेव मां मुक्त्वा सत्यमेतन्मयोदितम्

॥२९॥

शक्र उवाच

अह त्वां तत्र नेष्यामि स्वहस्तेन विदारितम् ॥

तत्रापि सुशुभा वृक्षा भविष्यंति तवाश्रयाः

॥३०॥

तथा पुण्यानि तीर्थानि देवतायतनानि च ॥

समंतात्ते भविष्यंति मुनीनामाश्रमास्तथा

॥३१॥

अत्रस्थस्य प्रभावो यस्तव पर्वत नंदन ॥

मद्वाक्यात्तत्र संस्थस्य कोटिसंख्यो भविष्यति

॥३२॥

तथा ये मानवास्तत्र पापात्मानोऽपि भूतले ॥

विपाप्मानो भविष्यंति सहसा तव दर्शनात्

॥३३॥

तस्माद्गच्छ द्रुतं तत्र मया सार्धं नगात्मज ॥

न चेद्वज्रप्रहारेण करिष्यामि सहस्रधा

॥३४॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा रक्तशृंगो भयान्वितः ॥

प्रविष्टः सहसागत्य तस्मिन्नागबिले गतः

॥३५॥

निमग्नो ब्राह्मणश्रेष्ठा नासाग्रं यावदेव हि ॥

शृंगैर्मनोरमैस्तुं गैः समग्रैः सहितस्तदा ॥

वृक्षगुल्मलताकीर्णै रम्यपक्षिनिषेवितैः

॥३६॥

एवं संस्थाप्य तं शक्रो हिमाचलसुतं नगम् ॥

ततः प्रोवाच सहृष्टो वरो मत्तः प्रगृह्यताम्

॥३७॥

रक्तशृंग उवाच

एष एव वरोऽस्माकं यत्त्वं तुष्टः सुरेश्वर ॥

किं वरेण करिष्यामि त्वत्प्रसादादहं सुखी

॥३८॥

इन्द्र उवाच

न वृथा दर्शनं मे स्यादपि स्वप्ने नगात्मज ॥

किं पुनर्दर्शने जाते कृते कृत्ये विशेषतः

॥३९॥

रक्तशृंग उवाच

अवश्यं यदि देयो मे वरः सर्वसुराधिप ॥

विभवो मे द्विजार्थाय सर्वः स्यात्सर्वदा विभो

॥४॥

इन्द्र उवाच

भविष्यति महीपालश्चमत्कार इति स्मृतः ॥

तव मूर्धनि विप्रार्थं स पुरं स्थापयिष्यति

॥४१॥

तत्र ब्राह्मणशार्दूला वेदवेदांगपारगाः ॥

विभवं तव निःशेषं भजिष्यंति प्रहर्षिताः

॥४२॥

तथाहं चैत्रमासस्य चतुर्दश्यां नगात्मज ॥

कृष्णायां स्वयमागत्य शृंगे मुख्यतमे तव

॥४३॥

पूजयिष्यामि देवेशं हाटकेश्वरसंज्ञितम् ॥

सर्वैर्देवगणैः सार्धं तथा किंनरगुह्यकैः

॥४४॥

तमेकं दिवसं चात्र शृंगे तव हरः स्वयम् ॥

अस्माभिः सहितस्तुष्टो निवासं प्रकरिष्यति

॥४५॥

प्रभावस्तेन ते मुख्य स्त्रैलोक्येऽपि भविष्यति ॥

स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम्

॥४६॥

सूत उवाच

एवमुक्त्वा सहस्राक्षस्ततः प्राप्तस्त्रिविष्टपम् ॥

रक्तशृंगोऽपि तस्थौ च व्याप्य नागबिलं तदा

॥४७॥

तस्योपरि सुमुख्यानि तीर्थान्यायतनानि च ॥

संजातानि मुनीनां च संजाताश्च तथाऽऽश्रमाः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागबिलपूर्तिवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥