मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ११

3
नागरखण्डः · 11

चमत्कारः कथं राजा मुक्तः कुष्ठेन सूतज

ऋषय ऊचुः

चमत्कारः कथं राजा मुक्तः कुष्ठेन सूतज ॥

कथं तेन तपस्तप्तं कियत्कालं च भूभुजा

॥१॥

कतमे ब्राह्मणास्ते वै शंखतीर्थं प्रदर्शितम् ॥

यैस्तस्य रोगमुक्त्यर्थं दुःखितस्य महात्मनः

॥२॥

कतमं शंखतीर्थं तत्कस्मिन्स्थाने व्यवस्थितम् ॥

किंप्रभावं च निःशेषं सर्वं विस्तरतो वद

॥३॥

सूत उवाच

अहं वः कीर्तयिष्यामि कथामेतां मनोहराम् ॥

सर्वपापहरां विप्राश्चमत्कारनृपोद्भवाम्

॥४॥

स भ्रांतः सर्वतीर्थानि प्रभासाद्यानि कृत्स्नशः ॥

तपस्वी नियताहारो भिक्षान्नकृतभोजनः

॥५॥

पृच्छमानो भिषग्मुख्यानौषधानि मुहुर्मुहुः ॥

मंत्रान्मंत्रविदश्चैव रोगनाशाय नित्यतः

॥६॥

न लेभे किंचिदिष्टं वा स मंत्रं भेषजं च वा ॥

तीर्थं वा नृपशार्दूलो येन स्याद्व्याधिसंक्षयः

॥७॥

ततश्च पार्थिवश्रेष्ठो वैराग्यं परमं गतः ॥

एकाकी यतचित्तात्मा सर्वसत्त्वविराजिते

॥९७॥

निवासमकरोत्तस्मिन्क्षेत्रे पुण्यतमे चिरम् ॥

शीर्णपर्णफलाहारो भूमौ शेते सदा निशि ॥

अन्य स्याऽन्यस्य वृक्षस्य मदाहंकारवर्जितः

॥९॥

ततः कतिपयाहस्य भ्रममाणो महीपतिः ॥

सोऽपश्यद्ब्राह्मणश्रेष्ठांस्तीर्थयात्राश्रयान्बहून्

॥१०॥

ततः प्रणम्य तान्विप्रानुपविष्टान्धरातले ॥

विश्वामित्राश्रमस्यांते प्रोवाच विनयान्वितः ॥

राजोवाच ॥

अहं नाम्ना चमत्कारः पार्थिवः सूर्यवंशजः ॥

आनर्त्ताधिपतिर्व्याप्तः कुष्ठेन द्विजसत्तमाः

॥२॥

अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥

भेषजं वाऽथ मंत्रो वा येन कुष्ठं प्रशाम्यति

॥१३॥

ममोपरि दयां कृत्वा वदध्वं द्विजसत्तमाः ॥

कुष्ठग्रस्तशरीरं च परं कृच्छ्रमुपागतम्

॥४॥

अथवा वित्थ नो यूयं त्यक्ष्यामीह कलेवरम् ॥

प्रविश्याग्निं जलं वाऽपि भक्षयित्वाऽथ वा विषम्

॥१५॥

तस्य तद्वचनं श्रुत्वा सर्वे ते द्विजसत्तमाः ॥

प्रोचुः कृपासमाविष्टास्ततस्तं पृथिवीश्वरम्

॥१६॥

अस्ति पार्थिवशार्दूल स्थानादस्माददूरतः ॥

शंखतीर्थमिति ख्यातं सर्वरोगक्षयावहम्

॥१७॥

ये नरा व्याधिना ग्रस्ताः काणाश्चांधास्तथा जडाः ॥

हीनांगाश्चाऽधिकांगाश्च कुरूपा विकृताननाः

॥१८॥

तेऽपि चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः ॥

भवंति नीरुजः सद्यश्चित्रासंस्थे निशाकरे

॥१९॥

अस्माभिः शतशो दृष्टा द्वादशार्कसमप्रभाः ॥

कामदेवसमाकारास्तेजोवीर्यसमायुताः

॥२०॥

राजोवाच

शंखतीर्थं कथं ज्ञेयं मया ब्राह्मणसत्तमाः ॥

कथं चैव समुत्पन्नं वदध्वं मम विस्तरात्

॥२१॥

ब्राह्मणा ऊत्रुः ॥

आसीत्पूर्वं मुनिश्रेष्ठो लिखिताख्यो महीतले ॥

शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः

॥२२॥

अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित् ॥

कन्दमूलफलाहारः सदैव तपसि स्थितः

॥२३॥

कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ ॥

शंखः स्वादुफलार्थाय पीडितोतिबुभुक्षया

॥२४॥

स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः ॥

आत्मीयानीति मन्वानः फलानि जगृहे ततः

॥२५॥

भक्षयामास भूरीणि पक्वानि मधुराणि च ॥

एतस्मिन्नन्तरे प्राप्तो लिखितः शिष्यसंयुतः

॥२६॥

स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः

॥२७॥

अदत्तानि मया पाप फलानि हृतवानसि ॥

कस्मात्त्वं चौर्यरूपेण नानुबन्धमवेक्षसे

॥२८॥

शंख उवाच

सत्यमेतद्द्विजश्रेष्ठ यत्त्वया परिकीर्तितम् ॥

फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे

॥२९॥

तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥

इह लोकः परश्चैव येन मे स्यात्सुखावहः

॥३०॥

ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात् ॥

चकर्त कोपमाविष्टो वार्यमाणोऽपि तापसैः

॥३१॥

छिन्नहस्तोऽपि शंखस्तु तपश्चक्रे सुदारुणम् ॥

विशेषेण समासाद्य स्वाश्रमे भूय एव तु

॥३२॥

ततस्तुष्टो महादेवस्तस्य कालेन केन चित् ॥

प्रोवाच दर्शनं गत्वा तं च शंखमुनीश्वरम्

॥३३॥

महेश्वर उवाच

भोभो मुने महासत्त्व दुष्करं कृतवानसि ॥

वरं गृहाण मत्तस्त्वं मनसा समभीप्सितम्

॥३४॥

शंख उवाच

यदि तुष्टोसि मे देव वरं चेद्यच्छसि प्रभो ॥

स्यातां मे तादृशौ हस्तौ भूयोऽपि सुरसत्तम

॥३५॥

तथेदं मम नामांकं तीर्थं स्यात्सुरसत्तम ॥

विख्यातं सर्वलोकेषु सर्वपापहरं नृणाम्

॥३६॥

हीनांगो वाधिकांगो वा व्याधिना ग्रस्त एव च ॥

अत्र स्नानं करोत्याशु स भूयः स्यात्पुनर्नवः

॥३७॥

भगवानुवाच

एतत्तीर्थं तु विख्यातं तव नाम्ना भविष्यति ॥

अद्यप्रभृति विप्रेन्द्र देहिनां पापनाशनम्

॥३८॥

हीनांगो वाधिकांगो वा योऽत्र स्नानं करिष्यति ॥

चैत्रे शुक्ले निराहारश्चित्रासंस्थे निशाकरे ॥

सुवर्णांगः स तेजस्वी भविष्यति न संशयः

॥३९॥

सकामो यदि विप्रेंद्र ध्यायमानः सुरूपताम् ॥

निष्कामो वा परं स्थानं गमि ष्यति शिवात्मकम्

॥४०॥

अत्र श्राद्धे कृते ब्रह्मंश्चतुर्दश्यां निशाकरे ॥

चित्रास्थिते प्रयास्यंति पितरस्तृप्तिमुत्तमाम्

॥४१॥

अद्यैव विप्रशार्दूल चैत्रशुक्लांत उत्तमः ॥

अपराह्णे निशानाथश्चित्रायोगं प्रयास्यति

॥४२॥

तत्रोपवासयुक्तस्य सम्यक्स्नातस्य तत्क्षणात् ॥

स्यातां हस्तौ सुरूपाढ्यौ यथा पूर्वं तथा हि तौ

॥४३॥

एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥

शंखोऽपि कुतपे काले तत्र स्नानमथाकरोत्

॥४४॥

ततश्च तत्क्षणाज्जातौ हस्तौ तस्य यथा पुरा ॥

रक्तोत्पलनिभौ कांतौ मत्स्यचिह्नेन चिह्नितौ

॥४५॥

ब्राह्मणा ऊचुः

एवं तद्धरणीपृष्ठे तीर्थं जातं नृपोत्तम ॥

प्रभावाद्देवदेवस्य चंद्रांकस्य शुभावहम्

॥४६॥

तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥

चैत्रे शुक्लचतुर्दश्यां चित्रासंस्थे निशाकरे

॥४७॥

भविष्यसि न संदेहः सर्वरोगविवर्जितः ॥

वयं ते दर्शयिष्यामः प्राप्ते काले यथोदिते

॥४८॥

सूत उवाच

ततः कतिपयाहेन चैत्रकृष्णादिरागतः ॥

चित्रासंस्थे निशानाथे संप्राप्ता च चतुर्दशी

॥४९॥

ततस्ते ब्राह्मणा भूपं समादाय च तत्क्षणात् ॥

शंखतीर्थं समुद्दिश्य गतास्तस्य हितैषिणः

॥५०॥

ततः स मनसि ध्यात्वा कुष्ठव्याधिपरिक्षयम् ॥

स्नानं चक्रे यथान्यायं श्रद्धया परया युतः

॥५१॥

ततः कुष्ठविनिर्मुक्तो द्वादशार्कसमप्रभः ।

निष्क्रांतः सलिलात्तस्माद्धर्षेण महतान्वितः

॥५२॥

ततः प्रणम्य तान्सर्वान्ब्राह्मणान्वेदपारगान् ॥

कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह

॥५३॥

प्रसादेन हि युष्माकं मुक्तोऽहं ब्राह्मणोत्तमाः ॥

कुष्ठव्याधेर्महाकालं गर्हितोस्म्येव देहिनाम्

॥५४॥

तस्मान्नाहं करिष्यामि राज्यं ब्राह्मणसत्तमाः ॥

तीर्थेऽत्रैवाधुना नित्यं चरिष्यामि महत्तपः

॥५५॥

एतद्राज्यं च देशं च हस्त्यश्वादि तथापरम् ॥

यत्किंचिद्विद्यते मह्यं तद्गृह्णंतु द्विजोत्तमाः

॥५६॥

ममैवानुग्रहार्थाय दयां कृत्वा बृहत्तराम् ॥

दीनस्य भक्तियुक्तस्य विरक्तस्य विशेषतः

॥५७॥

ब्राह्मणा ऊचुः

न वयं रक्षितुं शक्ता राज्यं पार्थिवसत्तम ॥

तत्किं तेन गृहीतेन येन स्याद्राज्यविप्लवः

॥५८॥

जामदग्न्येन रामेण पुरा दत्ता वसुन्धरा ॥

त्रिःसप्त क्षत्रियैर्हीनां कृत्वास्माकं नृपोत्तम

॥५९॥

सा भूयोपि हृताऽस्माकं क्षत्रियैर्बलवत्तरैः ॥

तिरस्कृत्य द्विजान्सर्वाँल्लीलयापि मुहुर्मुहुः

॥६०॥

राजोवाच

अहं वः प्रकरिष्यामि रक्षां ब्राह्मणसत्तमाः ॥

तपस्थितोऽपि कार्येऽत्र न भीः कार्या कथंचन

॥६१॥

ब्राह्मणा ऊचुः

अवश्यं यदि ते श्रद्धा विद्यते दानसंभवा ।

क्षेत्रेऽत्रापि महापुण्ये कृत्वा देहि पुरोत्तमम्

॥६२॥

सर्वेषां ब्राह्मणेंद्राणां प्राकारपरिखान्वितम् ॥

सुखेन येन तिष्ठामः स्नात्वा तीर्थैः पृथग्विधैः ॥

गृहस्थधर्मिणः सर्वे स्वाध्यायनिरता सदा

॥६३॥

सूत उवाच

तच्छ्रुत्वा स महीपालस्तथेत्युक्त्वा प्रहर्षितः ॥

नगरं कल्पयामास स्थाने तत्र महत्तमम्

॥६४॥

प्राकारेण सुतुंगेन परिखाद्येन सर्वतः ॥

आयामव्यासतश्चैव क्रोशमात्रं मनोहरम्

॥६५॥

त्रिकचत्वरसंशुद्धं शोभितं सर्वतो ध्वजैः ॥

प्रासादैः प्रोन्नतैः कान्तैः समंतात्सुधया वृतैः

॥६६॥

मत्तवारणकोपेतैर्बहुभिर्भूभिरेव च ॥

संपूर्णं सत्यकामाद्यैः साधुलोकप्रशंसितैः

॥६७॥

ततो गृहाणि सर्वाणि पूरयित्वा स भूमिपः ॥

सुवर्णमणिमुक्तादिपदार्थैरपरैरपि

॥६८॥

ब्राह्मणेभ्यः कुलीनेभ्यो वेदविद्भ्यो विशेषतः ॥

श्रोत्रियेभ्यश्च दांतेभ्यः स तु श्रद्धासमन्वितः

॥६९॥

यथाज्येष्ठं यथाश्रेष्ठं प्रक्षाल्य चरणौ ततः ॥

शास्त्रोक्तेन विधानेन प्रददौ द्विजसत्तमाः

॥७०॥

इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थोत्पत्तिमाहात्म्यवर्णने चमत्कारभूपतिना व्राह्मणेभ्यो नगरदानवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥