मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ११६

3
नागरखण्डः · 116

हाटकेश्वरक्षेत्रमाहात्म्येंऽबारेवतीतीर्थमाहात्म्यवर्णनम्

सूतउवाच

तथान्यापि च तत्रास्ति सुविख्याताम्बरेवती ॥

देवी कामप्रदा पुंसां बालकानां सुखप्रदा

॥१॥

यां दृष्ट्वा पूजयित्वाऽथ चैत्राष्टम्यां विशेषतः ॥

शुक्लायां नाप्नुयान्मर्त्यः कुटुम्बव्यसनं क्वचित्

॥२॥

ऋषय ऊचुः

केन वा स्थापिता तत्र सा देवी चाम्बरेवती ॥

किंप्रभावा किंस्वरूपा सूतपुत्र वदस्व नः

॥३॥

सूत उवाच

यदा शेषेण संदिष्टा नानानागा विषोल्बणाः ॥

पुरस्यास्य विनाशाय क्रोधसंरक्तलोचनाः ॥

तदा तस्य प्रिया सा च पुत्रशोकेनपीडिता

॥४॥

स्वयमेवाग्रतो गत्वा भक्षयामास तं द्विजम् ॥

कुटुम्बेन समायुक्तं येन पुत्रो निपातितः

॥५॥

अथ तस्य द्विजेन्द्रस्य बालवैधव्यसंयुता ॥

अनुजाऽऽसीत्तपोयुक्ता ब्रह्मचर्यकृतक्षणा

॥६॥

सा दृष्ट्वा भक्षितं सर्वं भट्टिकाख्या कुटुम्बकम् ॥

नाग पत्न्या ततः प्राह जलमादाय पाणिना

॥७॥

यस्मात्त्वया कुटुम्बं मे नाशं नीतं द्विजिह्वके ॥

दर्शितं च महद्दुःखं मम बन्धुजनोद्भवम्

॥८॥

तथा त्वमपि संप्राप्य मानुषत्वं सुगर्हितम् ॥

मानुषं पतिमासाद्य पुत्रपौत्रानवाप्य च

॥९॥

तेषां विनाशजं दुःखं मा नुषे त्वमवाप्स्यसि ॥

नागत्वे वर्तमानायाः शापं तेऽमुं ददाम्यहम्

॥१०॥

साऽपि श्रुत्वाऽथ तं शापं रेवती भट्टिकोद्भवम् ॥

क्रोधेन महताविष्टा ह्यदशत्तां द्रुतं ततः

॥११॥

अथ तस्यास्तनुं प्राप्य नागीदंष्ट्रा विषोल्बणा ॥

जगाम शतधा नाशं बिभिदे न त्वचं क्वचित्

॥१२॥

ततः सा लज्जयाविष्टा स्वरक्तप्लावितानना ॥

विषण्णा निषसादाथ संनिविष्टा धरातले

॥१३॥

एतस्मिन्नंतरे नागास्तथान्ये ये समागताः ॥

रेवतीं ते समालोक्य तथारूपां भयान्विताम् ॥

प्रोचुश्च किमिदं देवि तव वक्त्रे रुजास्पदम्

॥१४॥

अथवा किं प्रभावोऽयं कस्यचिद्रक्तसंपदः

॥१५॥

रेवत्युवाच

येयं दुष्टतमा काचिद्दृश्यते दुष्टतापसी ॥

अस्या जातो विकारोऽयं ममास्ये नागसत्तमाः

॥१६॥

तस्मादेनां महा दुष्टां भगिनीं तस्य दुर्मतेः ॥

येन मे निहतः पुत्रो द्विजपुत्रेण सांप्रतम्

॥१७॥

भक्ष्यतां भक्ष्यतां शीघ्रं मम नाशाय संस्थिताम् ॥

सांप्रतं मन्मुखे तेनं रुधिरं पन्नगोत्तमाः

॥१८॥

अथ ते पन्नगाः क्रुद्धा ददंशुस्तां तपस्विनीम् ॥

समं सर्वेषु गात्रेषु यथान्या प्राकृता स्त्रियम्

॥१९॥

ततस्तेषामपि तथा मुखाद्दंष्ट्रा विनिर्गताः ॥

रुधिरं च ततो जज्ञे शेषपत्न्या यथा तथा

॥२०॥

अथ तस्याः प्रभावं तं दृष्ट्वा ते नागसत्तमाः ॥

शेषा भय परित्रस्ताः प्रजग्मुश्च दिशो दश

॥२१॥

भट्टिकापि जगामाशु स्वाश्रमं प्रति दुःखिता ॥

भयत्रस्तैः समंताच्च वीक्ष्यमाणा महोरगैः

॥२२॥

ततः सर्वं समालोक्य ताप्यमानं महोरगैः ॥

तत्स्थानं स्वजनैर्मुक्तं दुःखेन महतान्वितैः ॥

जगामान्यत्र सा साध्वी सम्यग्व्रतपरायणा ॥

तीर्थ यात्रां प्रकुर्वाणा परिबभ्राम मेदिनीम्

॥२४॥

एवमुद्वासिते स्थाने तस्मिन्सा रेवती तदा ॥

स्मृत्वा तं भट्टिकाशापं दुःखेन महताऽन्विता

॥२५॥

कथं मे मानुषीगर्भे शापाद्वासो भविष्यति ॥

मानुष्येण च कांतेन प्रभविष्यति संगमः

॥२६॥

नैतत्पुत्रोद्भवं दुःखं तथा मां बाधते ह्रदि ॥

यथेदं मानुषे गर्भे संवासो मानुषं प्रति

॥२७॥

तथा दशनसंत्यक्ता कथं भर्तुः स्वमाननम् ॥

दर्शयिष्यामि भूयोऽपि क्षते क्षारोऽत्र मे स्थितः

॥२८॥

तस्मात्परिचरिष्यामि क्षेत्रेऽत्रैव व्यवस्थिता ।

किं करिष्यामि संप्राप्य गृहं पुत्रं विनाकृता

॥२९॥

ततश्चाराधयामास सम्यक्छ्रद्धासमन्विता ॥

अंबिकां सा तदा देवीं स्थापयित्वा सुरेश्वरीम्

॥३०॥

गन्धपुष्पोपहारेण नैवेद्यैर्विविधैरपि ॥

गीतनृत्यैस्तथा वाद्यैर्मनोहारिभिरेव च

॥३१॥

ततः कतिपयाहस्य तस्तास्तुष्टा सुरेश्वरी ॥

प्रोवाच वरदाऽस्मीति प्रार्थयस्व हृदि स्थितम्

॥३२॥

रेवत्युवाच

अहं शप्ता पुरा देवि ब्राह्मण्या कारणांतरे ॥

यत्त्वं मानुषमासाद्य स्वयं भूत्वा च मानुषी

॥३३॥

ततः संप्राप्स्यसि फलं तेषां नाशसमुद्रवम् ॥

महद्दुःखं स्वपुत्रोत्थं मम शापेन पीडिता

॥३४॥

तथा मम मुखाद्दंष्ट्रा संनीताश्च सुरेश्वरि ॥

तेषां च संभवस्तावत्कथं स्यात्त्वत्प्रभावतः

॥३५॥

भवंतु तनया नश्च तथा वंशविवर्धनाः ॥

एतन्मे वांछितं देवि नान्यत्संप्रार्थयाम्यहम्

॥३६॥

देव्युवाच

नात्र वासस्त्वया कार्यः कथंचिदपि शोभने ॥

मनुष्यगर्भसंवासो भर्त्ता च भविता नरः ।

तस्माच्छृणुष्व मे वाक्यं यत्त्वां वक्ष्यामि सांप्रतम् ॥

दुःखनाशकरं तुभ्यं सत्यं च वरवर्णिनि

॥३८॥

उत्पत्स्यति न संदेहो देवकार्यप्रसिद्धये ॥

तव भर्त्ता त्रिलोकेऽस्मिन्कृत्वा मानुषविग्रहम्

॥३९॥

तक्षकाख्यस्तथा नागो द्विजशाप वशाच्छुभे ॥

सौराष्ट्रविषये राजा रैवताख्यो भविष्यति

॥४॥

तस्य क्षेमकरी भार्या नामवंशसमुद्भवा ॥

भविष्यति न संदेहो विशिष्टा विप्रशापतः

॥४॥

तस्या गर्भं समासाद्य त्वं जन्म समवाप्स्यसि ॥

रामरूपस्य शेषस्य पुनर्भार्या भविष्यसि

॥४२॥

तस्मात्त्वं देवि मा शोकं कार्येऽस्मिन्कुरु शोभने ॥

तेन मानुषजे गर्भे संभूतिः संभविष्यति

॥४३॥

तत्र पश्यसि यन्नाशं स्वकुटुम्बसमुद्भवम् ॥

हिताय तदवस्थायास्तद्भविष्यत्यसंशयम्

॥४४॥

ततः परं युगं पापं यतो भीरु भविष्यति ॥

तदूर्ध्वं मर्त्यधर्माणो म्लेच्छाः स्थास्यंति सर्वतः

॥४५॥

ततः स्वर्गनिवासार्थं भगवान्देवकीसुतः ॥

संहर्ता स्वकुलं सर्वं स्वयमेव न संशयः

॥४६॥

भविष्यंति पुनर्दंष्ट्रास्तव वक्त्रे मनोरमाः ॥

तस्मात्त्वं गच्छ पातालं स्वभर्त्ता यत्र तिष्ठति

॥४७॥

अन्यच्चापि यदिष्टं ते किंचिच्चित्ते व्यवस्थितम् ॥

तत्कीर्तयस्व कल्याणि महांस्तोषो मम स्थितः ॥

रेवत्यु वाच ॥

स्थाने स्थेयं सदाऽत्रैव मम नाम्ना सुरेश्वरि ॥

येन मे जायते कीर्तिस्त्रैलोक्ये सचराचरे

॥४९॥

तथाऽहं नागलोकाच्च चतुर्दश्यष्टमीषु च ॥

सदा त्वां पूजयिष्यामि विशेषान्नवमीदिने

॥५०॥

आश्विनस्य सिते पक्षे सर्वैर्नागैः समन्विता ॥

प्रपूजां ते विधास्यामि श्रद्धया परया युता

॥५१॥

तस्मिन्नहनि येऽन्येऽपि पूजां दास्यंति ते नराः ॥

मा पश्यंतु प्रसादात्ते नरास्ते वल्लभक्षयम् ।

देव्युवाच ॥

एवं भद्रे करिष्यामि वासो मेऽत्र भविष्यति ॥

त्वन्नाम्ना पूजकानां च श्रेयो दास्यामि ते सदा ॥

महानवमिजे चाह्नि विशेषेण शुचिस्मिते

॥५३॥

सूत उवाच

एवमुक्ता तया साऽथ रेवती शेषवल्लभा ॥

जगाम स्वगृहं पश्चाद्धर्षेण महतान्विता ५४ ॥

ततःप्रभृति सा देवी तस्मिन्क्षेत्रे व्यवस्थिता ॥

तन्नाम्ना कामदा नृणां सर्वव्यसननाशिनी

॥५५॥

अंबा सा कीर्त्यते दुर्गा रेवती सोरगप्रिया ॥

ततः संकीर्त्यते लोके भूतले चांबरेवती

॥५६॥

यस्तां श्रद्धासमोपेतः शुचिर्भूत्वा प्रपूजयेत् ॥

नवम्यामाश्विने मासि शुक्लपक्षे समाहितः ॥

न स संवत्सरं यावद्व्यसनं स्वकुलो द्भवम्

॥५७॥

दृष्ट्वाग्रे छिद्रकं व्यालयुक्तं दोषैर्विमुच्यते ॥

ग्रहभूतपिशाचोत्थैस्तथान्यैरपि चापदैः

॥५८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबारेवतीतीर्थमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥ ११६ ॥