मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३

3
नागरखण्डः · 13

एवं निवेद्य पुत्राणां स राज्यं पृथिवीपतिः

सूत उवाच

एवं निवेद्य पुत्राणां स राज्यं पृथिवीपतिः ॥

पुरं च तद्द्विजातिभ्यः प्रदाय स्वयमेव हि

॥१॥

तत आराधयामास देवदेवं महेश्वरम् ॥

कृत्वा तदाऽऽश्रमं तत्र श्रद्धया परया युतः

॥२॥

स बभूव फलाहारो यावद्वर्षशतं नृपः ॥

शीर्णपर्णाशनः पश्चात्तावत्कालं समाहितः

॥३॥

ततः परं जलाहारो जातो वर्षशतं हि सः ॥

वायुभक्षस्ततोऽभूत्स यावद्वर्षशतं परम्

॥४॥

ततस्तुष्टो महादेवस्तस्य वर्षशते गते ॥

चतुर्थे वायुभक्षस्य दर्शने समुपस्थितः

॥५॥

प्रोवाच परितुष्टोऽस्मि मत्तः प्रार्थय वांछितम् ॥

अहं ते संप्रदास्यामि दुर्लभं त्रिदशैरपि

॥६॥

राजोवाच

एतत्पुण्यतमं क्षेत्रं नानातीर्थसमाश्रयम् ॥

हाटकेश्वरमाहात्म्यात्सर्वपापक्षयापहम्

॥७॥

तस्मात्तव निवासेन भूयान्मेध्यतमं पुनः ॥

एतन्मे वांछितं देव देहि तुष्टिं गतो यदि

॥८॥

मयैतदग्र्यं निर्माय ब्राह्मणेभ्यो निवेदितम् ॥

पुरं शर्वाऽमराधीश श्रद्धापूतेन चेतसा

॥९॥

तस्मिंस्त्वया सदा वासः कर्तव्यो मम वाक्यतः ॥

निश्चलत्वेन येन स्याद्गणैः सर्वैः समन्वितम्

॥१०॥

भगवानुवाच

अचलोऽहं भविष्यामि स्थानेऽत्र तव भूमिप ॥

अचलेश्वर इत्येव नाम्ना ख्यातो जगत्त्रये

॥११॥

यो मामत्र स्थितं मर्त्यो वीक्षयिष्यति भक्तितः ॥

भविष्यंत्यचलास्तस्य सर्वदैव विभूतयः

॥१२॥

माघशुक्लचतुर्दश्यां मम लिंगस्य यो नरः ॥

श्रद्धया परया युक्तः कर्ता यो घृतकंबलम्

॥१३॥

बाल्ये वयसि यत्पापं वार्धके यौवनेऽपि वा ॥

तद्यास्यति क्षयं तस्य तमः सूर्योदये यथा

॥१४॥

तस्मात्स्थापय मे लिंगं त्वमत्रैव महीपते ॥

अहं येन करोम्येव तत्र वासं सदाचलः

॥१५॥

सूत उवाच

एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥

सोऽपि राजा चकाराशु प्रासादं सुमनोहरम्

॥१६॥

तत्र संस्थापयामास लिंगं देवस्य शूलिनः ॥

श्रद्धया परया युक्तः सर्वलक्षणलक्षितम्

॥७॥

यस्मिन्दृष्टेऽथवा स्पृष्टे ध्याते वा पूजितेऽपि वा ॥

नरो विमुच्यते पापादाजन्ममरणांतिकात्

॥८॥

ततः संचिंतयामास भूपालः किं महेश्वरः ॥

सांनिध्यं निश्चलो भूत्वा लिंगेऽत्रैव करिष्यति

॥१९॥

एतस्मिन्नंतरे जाता वाणी गगनगोचरा ॥

हर्षयन्ती महीपालं चमत्कारं सुनिस्वना

॥२०॥

मा त्वं भूमिपशार्दूल कार्यचिन्तां करिष्यसि ॥

अस्मिन्वासं सदात्रैव लिंगे कर्तास्मि नित्यशः

॥२१॥

तथान्यदपि ते वच्मि प्रत्ययार्थं वचो नृप ॥

तच्छ्रुत्वा निर्वृतिं गच्छ वीक्षस्वैव च यत्नतः

॥२२॥

सदा मे निश्चला छाया लिंगस्यास्य भविष्यति ॥

एकैव पृष्ठदेशस्था न दिक्संस्था भविष्यति

॥२३॥

सूत उवाच

ततः स वीक्षयामास तां छायां लिंगसंभवाम् ॥

तद्रूपां निश्चलां नित्यं तद्दिक्संस्थे दिवाकरे

॥२४॥

ततो हर्षं परं गत्वा प्रणिपत्य च तं भुवि ॥

कृतकृत्यमिवात्मानं स मेने पार्थिवोत्तमः

॥२५॥

अद्यापि दृश्यते छाया तादृग्रूपा सदा हि सा ॥

तस्य लिंगस्य विप्रेन्द्रा जाता विस्मयकारिणी

॥२६॥

षण्मासाभ्यंतरे मृत्युर्यस्य स्याद्भुवि भो द्विजाः ॥

न स पश्यति तां छायामेषोऽन्यः प्रत्ययः परः

॥२७॥

सूत उवाच

एवं स भगवांस्तत्र सर्वदैव व्यवस्थितः ॥

अचलेश्वररूपेण चमत्कारपुरांतिके

॥२८॥

निश्चलत्वेन देवेशोह्यष्टषष्टिषु मध्यमः ॥

क्षेत्राणां वसते तत्र तस्य वाक्यान्महेश्वरः

॥२९॥

तेन तत्पावनं क्षेत्रं सर्वेषामिह कीर्तितम् ॥

कामदं मुक्तिदं चैव जायते सर्वदेहिनाम्

॥३०॥

तथान्यदपि यद्वृत्तं वृत्तांतं तत्प्रभावजम् ॥

तदहं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः

॥३१॥

अचलेश्वरमाहात्म्यात्तस्मिन्क्षेत्रे नरा द्रुतम् ॥

वांछितं मनसः सर्वे लभंते सकलं फलम्

॥३२॥

स्वर्गमेके परे मोक्षं धनधान्यसुतांस्तथा ॥

यो यं काममभिध्याय पूजयेदचलेश्वरम् ॥

तंतं स लभते मर्त्यः स्वल्पायासेन च द्रुतम्

॥३३॥

अथ दृष्ट्वा सहस्राक्षः सर्वे पापनरा भुवि ॥

स्वर्गं यांति तथा मोक्षं प्राप्नुवन्ति च सम्मुखम्

॥३४॥

ततः क्रोधं च कामं च लोभं द्वेषं भयं रतिम् ॥

मोहं च व्यसनं दुर्गं मत्सरं रागमेव च

॥३५॥

सर्वान्मूर्तान्समाहूय ततः प्रोवाच सादरम् ॥

स्वयमेव सहस्राक्षो रहस्ये द्विजसत्तमाः ॥

नरो वा यदि वा नारी चमत्कारपुरं प्रति ॥

यो गच्छति धरापृष्ठे युष्माभिर्वार्य एव सः

॥३७॥

तत्रैव वसमानोऽपि यो गच्छेदचलेश्वरम् ॥

मद्वाक्यात्स विशेषेण सर्वैर्वार्यः प्रयत्नतः

॥३८॥

ते तथेति प्रतिज्ञाय गत्वा शक्रस्य शासनात् ॥

चक्रुस्ततः समुच्छिन्नं तन्माहात्म्यं गतं भुवि

॥३९॥

एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ॥

अचलेश्वरदेवस्य तस्मिन्क्षेत्रे निवासिनः

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽचलेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोध्यायः ॥ १३ ॥