तत्र निन्युः स्थिता यत्र गर्ता सा पितृसंभवा
सूत उवाच
अथ ते शबरा यत्नाद्रक्तं तद्धैहयोद्भवम् ॥
तत्र निन्युः स्थिता यत्र गर्ता सा पितृसंभवा
॥१॥भार्गवोऽपि च तं हत्वा रक्तमादाय कृत्स्नशः ॥
ततः संप्रेषयामास यत्र गर्ताऽथ पैतृकी
॥२॥न स बालं न वृद्धं च परित्यजति भार्गवः ॥
यौवनस्थं विशेषेण गर्भस्थं वाथ क्षत्रियम्
॥३॥स्वयं जघान भूपान्स तेषां पार्श्वे तथा परान् ॥
विध्वंसाययति क्रुद्धः सैनिकैश्च समन्ततः
॥४॥तथैवासृक्प्रगृह्णाति गृह्णापयति चादरात् ॥
तेषां पार्श्वैस्ततस्तूर्णं प्रेषयामास तत्र च
॥५॥एवं निःक्षत्रियां कृत्वा कृत्स्नां पृथ्वीं भृगद्वहः ॥
हाटकेश्वरजे क्षेत्रे जगाम तदनन्तरम्
॥६॥ततस्तै रुधिरैः स्नात्वा समादाय तिलान्बहून् ॥
अपसव्यं समाधाय प्रचक्रे पितृतर्पणम्
॥७॥प्रत्यक्षं सर्वविप्राणां तथान्येषां तपस्विनाम् ॥
प्रतिज्ञां पूरयित्वाऽथ विशोकः स बभूव ह
॥८॥ततो निःक्षत्रिये लोके कृत्वा हयमखं च सः ॥
प्रायच्छत्सकलामुर्वीं ब्राह्मणेभ्यश्च दक्षिणाम्
॥९॥अथ लब्धवरा विप्रास्तमूचुर्भृगुसत्तमम् ॥
नास्मद्भूमौ त्वया स्थेयमेको राजा यतः स्मृतः
॥१०॥सोऽपि बाढमिति प्रोच्य हर्षेण महतान्वितः ॥
महीपर्यंतमासाद्य प्रोवाचाथ नदीपतिम् ॥
आरोप्य सुमहच्चापमाग्नेयास्त्रं प्रयुज्य च ॥
त्रिशिखां भ्रुकुटीं कृत्वा कोपेन महतान्वितः
॥२॥राम उवाच
मया निःक्षत्रिया भूमिः कृता शैलवनान्विता ॥
ब्राह्मणेभ्यस्ततो दत्ता वाजिमेधे महामखे
॥३॥तस्मात्त्वं देहि मे स्थानं कृत्वाऽपसरणं स्वयम् ॥
न हि दत्त्वा ग्रही ष्यामि विप्रेभ्यो मेदिनीं पुनः
॥१४॥न करोष्यथवा वाक्यं ममाद्य त्वं नदीपते ॥
स्थलरूपं करिष्यामि वह्न्यस्त्रपरिशोषितम्
॥१५॥सूत उवाच
तस्य तद्वचनं श्रुत्वा समुद्रो भयसंकुलः ॥
अपसारं ततश्चक्रे यावत्तस्याभिवांछितम्
॥१६॥ततश्चकार तत्रैव वसतिं स भृगूद्वहः ॥
तपश्चर्यासमायुक्तः पितुर्वधमनुस्मरन्
॥७॥ततः सर्वान्पुलिन्दांश्च शवरान्मेदसंयुतान् ॥
भूम्यन्ते धारयामास पर्वतेषु स भार्गवः
॥८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परशुरामकृतमहीदानपूर्वकसमुद्रापसारणवृत्तान्तवर्णनंनामा ष्टाषष्टितमोऽध्यायः ॥ ६८ ॥