मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५०

3
नागरखण्डः · 150

केलीश्वरीमाहात्म्यवर्णनम्

सूत उवाच

शुक्रस्तस्य वचः श्रुत्वा चित्ते कृत्वा दयां ततः ॥

हाटकेश्वरजं क्षेत्रं गत्वा सिद्धिप्रदायकम्

॥१॥

चकार विधिवद्धोमं स्वमांसेन हुताशने ॥

मंत्रैराथर्वणै रौद्रैः कुण्डं कृत्वा त्रिकोणकम्

॥२॥

एवं संजुह्वतस्तस्य तेन वै विधिना तदा ॥

यथा रुद्रेण संतुष्टा देवी केलीश्वरी तदा

॥३॥

तं प्रोवाच समेत्याशु शुक्रं दैत्यपुरोहितम् ॥

मा त्वं भार्गवशार्दूल कुरु मांसपरिक्षयम्

॥४॥

भाविताऽहं त्रिनेत्रेण तत्किं ब्रूहि करोमि ते

॥५॥

शुक्र उवाच

यथा रुद्रस्य साहाय्यं त्वयात्र विहितं शुभे ॥

अंधकस्याऽपि कर्तव्यं तथैवैष वरो मम

॥६॥

ये केचिद्दानवा युद्धे भक्षिताश्च विनाशिताः ॥

अस्य सैन्यस्य ते सर्वे पुनर्जीवंतु सत्वरम्

॥७॥

देव्युवाच

जीवयिष्यामि तान्सर्वान्दानवान्निहतान्रणे ॥

नवसंभक्षितान्विप्र प्रविष्टान्योगिनीमुखे

॥८॥

एवमुक्त्वा ददौ तस्मै सा देवी हर्षितानना ॥

नाम्नाऽमृतवतीं विद्यां यया जीवंति ते मृताः

॥९॥

ततः शुक्रः प्रहृष्टात्मा गत्वांधकमुवाच ह ॥

सिद्धा केलीश्वरी देवी यथा शम्भोस्तथा मम

॥१०॥

तया दत्ता शुभा विद्या मम दैत्या मृताश्च ये ॥

तान्सर्वांस्तत्प्रभावेन योजयिष्यामि जीविते

॥११॥

त्वयाऽस्याः सततं भक्तिः कार्या दानव सत्तम ॥

अष्टम्यां च विशेषेण चतुर्दश्यां च सर्वदा

॥१२॥

एषा सा परमा शक्तिर्यया व्याप्तमिदं जगत् ॥

केवलं भक्तिसाध्या सा न दण्डेन कथंचन

॥१३॥

एवमुक्तस्तु शुक्रेण स तदा दानवाधिपः ॥

तां देवीं पूजयामास भावभक्तिसमन्वितः

॥१४॥

स्तुत्वा च विविधैः स्तोत्रैस्ततः प्रोवाच सादरम् ॥

तथान्या मातरः सर्वा यथाज्येष्ठं यथाक्रमम्

॥१५॥

अज्ञानाद्यन्मया देवि कृतः कोपस्तवोपरि ॥

मर्षणीयस्तथा सोऽद्य दीनस्य प्रणतस्य च

॥१६॥

श्रीदेव्युवाच

परितुष्टाऽस्मि ते वत्स प्रभावाद्भार्गवस्य च ॥

वरं वरय तस्मात्त्वं न वृथा दर्शनं मम

॥१७॥

अन्धक उवाच

अनेनैव तु रूपेण ये त्वां ध्यायंति देहिनः ॥

पूजयंति च सद्भक्त्या संस्थाप्य प्रतिमां तव ॥

तेषां सिद्धिः प्रदातव्या त्वया हृदयवांछिता

॥१८॥

देव्युवाच

यो मामनेन रूपेण स्थापयिष्यति मानवः ॥

तस्य मोक्षं प्रदास्यामि पापस्यापि न संशयः

॥१९॥

योऽष्टम्यां च चतुर्दश्यां मम पूजां करिष्यति ॥

तस्मै स्वर्गं प्रदास्यामि पापस्यापि दनूत्तम

॥२०॥

केवलं दर्शनं यश्च ध्यानं वा मे करिष्यति ॥

तस्य राज्यं प्रदास्यामि भोगान्मानुषसंभवान्

॥२१॥

एवमुक्त्वाऽथ सा देवी ततश्चादर्शनं गता ॥

तैश्च मातृगणैः सार्धं पश्यतस्तस्य तत्क्षणात्

॥२२॥

शक्रोऽपि दानवान्सर्वांस्तया संसिद्धया ततः ॥

मृतान्संजीवयामास दैतेयान्नवभक्षितान्

॥२३॥

तैः समेत्य स दैत्येन्द्रः प्रहृष्टेनांतरात्मना ॥

तां पुरीं प्राप्य शक्रस्य राज्यं चक्रे दिवानिशम्

॥२४॥

तां देवीं ध्यायमानस्तु पूजयानो दिवानिशम् ॥

अष्टम्यां च चतुर्दश्यां विशेषेण महाबलः ॥

२५ अथ तस्याः प्रभावं तं ज्ञात्वा व्याससमुद्भवः ॥

स्थानेऽत्र स्थापयामास संसिद्धिं प परां गतः

॥२६॥

सूत उवाच

एवं केलीश्वर देवी संजाता परमेश्वरी ॥

तस्मात्स्थाप्या च पूज्या च ध्येया चैव विशेषतः

॥२७॥

एवं देव्या नरो यश्च पठते वा शृणोति वा ॥

वाच्यमानं स मुच्येत व्यसनेन गरीयसा

॥२८॥

भ्रष्टराज्योऽथवा राजा यः शृणोत्यष्टमीदिने ॥

स राज्यं लभते भूयो निखिलं हतकंटकम्

॥२९॥

युद्धकाले च संप्राप्ते यश्चैतच्छृणुयान्नरः ॥

स हत्वा शत्रुसंघातं विजयं च समाप्नुयात्

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये केलीश्वरीमाहात्म्यवर्णनंनाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० । ॥ ।