मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १८२

3
नागरखण्डः · 182

रूपतीर्थोत्पत्तिपूर्वकप्रथमयज्ञदिवसवृत्तान्तवर्णनम्

सूत उवाच

एवं पत्नीं समासाद्य गायत्रीं चतुराननः ॥

संप्रहृष्टमना भूत्वा प्रस्थितो यज्ञमण्डपम्

॥१॥

गायत्र्यपि समादाय मूर्ध्नि तामरणिं मुदा ॥

प्रतस्थे संपरित्यज्य गोपभावं विगर्हितम्

॥२॥

वाद्यमानेषु वाद्येषु ब्रह्मघोषे दिवंगते ॥

कलं प्रगायमानेषु गन्धर्वेषु समंततः

॥३॥

सर्वदेवद्विजोपेतः संप्राप्तो यज्ञमण्डपे ॥

गायत्र्या सहितो ब्रह्मा मानुषं भावमाश्रितः

॥४॥

एतस्मिन्नंतरे चक्रे केशनिर्वपणं विधेः ॥

विश्वकर्मा नखानां च गायत्र्यास्तदनंतरम्

॥५॥

औदुम्बरं ततो दण्डं पुलस्त्योऽस्मै समाददे ॥

एणशृंगान्वितं चर्म मन्त्रवद्विजसत्तमाः

॥६॥

पत्नीशालां गृहीत्वा च गायत्रीं मौनधारिणीम् ॥

मेखलां निदधे चान्यां कट्यां मौंजीमयीं शुभाम्

॥७॥

ततश्चक्रे परं कर्म यदुक्तं यज्ञमंडपे ॥

ऋत्विग्भिः सहितो वेधा वेदवाक्यसमादृतः

॥८॥

प्रवर्ग्ये जायमाने च तत्राश्चर्यमभून्महत् ॥

जाल्मरूपधरः कश्चिद्दिग्वासा विकृताननः

॥९॥

कपालपाणिरायातो भोजनं दीयतामिति ॥

निषेध्यमानोऽपि च तैः प्रविष्टो याज्ञिकं सदः ॥

स कृत्वाऽटनमन्याय्यं तर्ज्यमानोऽपि तापसैः

॥१०॥

सदस्या ऊचुः

कस्मात्पापसमेतस्त्वं प्रविष्टो यज्ञमण्डपे ॥

कपाली नग्नरूपो यो यज्ञकर्मविवर्जितः

॥११॥

तस्माद्गच्छ द्रुतं मूढ यावद्ब्रह्मा न कुप्यति ॥

तथाऽन्ये ब्राह्मणश्रेष्ठास्तथा देवाः सवासवाः

॥१२॥

जाल्म उवाच

ब्रह्मयज्ञमिमं श्रुत्वा दूरादत्र समागतः ॥

बुभुक्षितो द्विजश्रेष्ठास्तत्किमर्थं विगर्हथ

॥१३॥

दीनांधैः कृपणैः सवैर्स्तर्पितैः क्रतुरुच्यते ॥

अन्यथाऽसौ विनाशाय यदुक्तं ब्राह्मणैर्वचः

॥१४॥

अन्नहीनो दहेद्राष्टं मन्त्रहीनस्तु ऋत्विजः ॥

याज्ञिकं दक्षिणा हीनो नास्ति यज्ञसमो रिपुः

॥१५॥

ब्राह्मणा ऊचुः

यदि त्वं भोक्तुकामस्तु समायातो व्रज द्रुतम् ॥

एतस्यां सत्रशालायां भुञ्जते यत्र तापसाः ॥

दीनान्धाः कृपणाश्चैव ततः क्षुत्क्षामकंठिताः

॥१६॥

अथवा धनकामस्त्वं वस्त्रकामोऽथ तापस ॥

व्रज वित्तपतिर्यत्र दानशालां समाश्रितः

॥१७॥

अनिंद्योऽयं महामूर्ख यज्ञः पैतामहो यतः ॥

अर्चितः सर्वतः पुण्यं तत्किं निन्दसि दुर्मते

॥१८॥

सूत उवाच

एवमुक्तः कपालं स परिक्षिप्य धरातले ॥

जगामादर्शनं सद्यो दीपवद्द्विजसत्तमाः

॥१९॥

ऋत्विज ऊचुः

कथं यज्ञक्रिया कार्या कपाले सदसि स्थिते ॥

परिक्षिपथ तस्मात्तु एवमूचुर्द्विजोत्तमाः

॥२०॥

अथैको बहुधा प्रोक्तः सदस्यैश्च द्विजोत्तमैः ॥

दण्डकाष्ठं समुद्यम्य प्रचिक्षेप बहिस्तथा

॥२१॥

अथान्यत्तत्र संजातं कपालं तादृशं पुनः ॥

तस्मिन्नपि तथा क्षिप्ते भूयोऽन्यत्समपद्यत

॥२२॥

एवं शतसहस्राणि ह्ययुतान्यर्बुदानि च ॥

तत्र जातानि तैर्व्याप्तो यज्ञवाटः समंततः

॥२३॥

हाहाकारस्ततौ जज्ञे समस्ते यज्ञमण्डपे ॥

दृष्ट्वा कपालसंघांस्तान्यज्ञ कर्मप्रदूषकान्

॥२४॥

अथ संचिंतयामास ध्यानं कृत्वा पितामहः ॥

हरारिष्टं समाज्ञाय तत्सर्वं हृष्टरूपधृक्

॥२५॥

कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम् ॥

महेश्वरं समासाद्य यज्ञवाटसमाश्रितम्

॥२६॥

किमिदं युज्यते देव यज्ञेऽस्मिन्कर्मणः क्षतिः ॥

तस्मात्संहर सर्वाणि कपालानि सुरेश्वर

॥२७॥

यज्ञकर्मविलोपोऽयं मा भूत्त्वयि समागते

॥२८॥

ततः प्रोवाच संक्रुद्धो भगवाञ्छशिशेखरः ॥

तन्ममेष्टतमं पात्रं भोजनाय सदा स्थितम्

॥२९॥

एते द्विजाधमाः कस्माद्विद्विषंतिपितामह ॥

तथा न मां समुद्दिश्य जुहुवुर्जातवेदसि

॥३०॥

यथान्यादेवता स्तद्वन्मन्त्रपूतं हविर्विधे ॥

तस्माद्यदि विधे कार्या समाप्तिर्यज्ञकर्मणि

॥३१॥

तत्कपालाश्रितं हव्यं कर्तव्यं सकलं त्विदम् ॥

तथा च मां समु द्दिश्य विशषाज्जातवेदसि

॥३२॥

होतव्यं हविरेवात्र समाप्तिं यास्यति क्रतुः ॥

नान्यथा सत्यमेवोक्तं तवाग्रे चतुरानन

॥३३॥

पितामह उवाच

रूपाणि तव देवेश पृथग्भूतान्यनेकशः ॥

संख्यया परिहीनानि ध्येयानि सकलानि च

॥३४॥

एतन्महाव्रतं रूपमाख्यातं ते त्रिलोचन ॥

नैवं च मखकर्म स्यात्तत्रैव च न युज्यते

॥३५॥

अद्यैतत्कर्म कर्तुं च श्रुतिबाह्यं कथंचन ॥

तव वाक्यमपि त्र्यक्ष नान्यथा कर्तुमुत्सहे

॥३६॥

मृन्मयेषु कपालेषु हविः श्राप्यं सुरेश्वर ॥

अद्यप्रभृति यज्ञेषु पुरोडाशात्मिकं द्विजैः ॥

तवोद्देशेन देवेश होतव्यं शतरुद्रियम्

॥३७॥

विशेषात्सर्वयज्ञेषु जप्यं चैव विशेषतः ॥

कपालानां तु द्वारेण त्वया रूपं निजं कृतम्

॥३८॥

प्रकटं च सुरश्रेष्ठ कपालेश्वरसंज्ञितः ॥

तस्मात्त्वं भविता रुद्र क्षेत्रेऽस्मिन्द्वादशोऽपरः

॥३९॥

अत्र यज्ञं समारभ्य यस्त्वां प्राक्पूजयिष्यति ॥

अविघ्नेन मखस्तस्य समाप्तिं प्रव्रजिष्यति

॥४०॥

एवमुक्ते ततस्तेन कपालानि द्विजोत्तमाः ॥

तानि सर्वाणि नष्टानि संख्यया रहितानि च

॥४१॥

ततो हृष्टश्चतुर्वक्त्रः स्थापयामास तत्क्षणात् ॥

लिगं माहेश्वरं तत्र कपालेश्वरसंज्ञितम्

॥४२॥

अब्रवीच्च ततो वाक्यं यश्चैतत्पूजयिष्यति ॥

मम कुण्डत्रये स्नात्वा स यास्यति परां गतिम्

॥४३॥

शुक्लपक्षे चतुर्दश्यां कार्तिके जागरं तु यः ॥

करिष्यति पुनश्चास्य लिंगस्य सुसमाहितः ॥

आजन्मप्रभवात्पापात्स विमुक्तिमवाप्स्यति

॥४४॥

एवमुक्तेऽथ विधिना प्रहृष्टस्त्रिपुरांतकः ॥

यज्ञमण्डपमासाद्य प्रस्थितो वेदिसंनिधौ

॥४५॥

ब्राह्मणैश्च ततः कर्म प्रारब्धं यज्ञसम्भवम् ॥

विस्मयोत्फुल्लनयनैर्नमस्कृत्य महेश्वरम्

॥४६॥

सूत उवाच

एवं च यज तस्तस्य चतुर्वक्त्रस्य तत्र च ॥

ऋषीणां कोटिरायाता दक्षिणापथवासिनाम्

॥४७॥

श्रुत्वा पैतामहं यज्ञं कौतुकेन समन्विताः ॥

कीदृशो भविता यज्ञो दीक्षितो यत्र पद्मजः

॥४८८॥

कीदृक्क्षेत्रं च तत्पुण्यं हाटकेश्वरसंज्ञितम् ॥

कीदृशास्ते च विप्रेन्द्रा ऋत्विजस्तत्र ये स्थिताः

॥४९॥

अथ ते सुपरिश्रांता मध्यंदिनगते रवौ ॥

रविवारेण संप्राप्ते नक्षत्रे चाश्विसंस्थिते

॥५०॥

वैवस्वत्यां तिथौ चैव प्राप्ता घर्मपीडिताः ॥

कंचिज्जलाशयं प्राप्य प्रविष्टाः सलिलं शुभम्

॥५१॥

शंकुकर्णा महाकर्णा वकनासास्तथापरे ॥

महोदरा बृहद्दन्ता दीर्घोष्ठाः स्थूलमस्तकाः

॥५२॥

चिपिटाक्षास्तथा चान्ये दीर्घग्रीवास्तथा परे ॥

कृष्णांगाः स्फुटितैः पादैर्नखैर्दीर्घैः समुत्थितैः

॥५३॥

ततो यावद्विनिष्क्रांताः प्रपश्यन्ति परस्परम् ॥

तावद्वैरूपस्यनिर्मुक्ताः संजाताः कामसन्निभाः

॥५४॥

ततो विस्मयमापन्ना मिथः प्रोचुः प्रहर्षिताः ॥

रूपव्यत्ययमालोक्य ज्ञात्वा तीर्थं तदुत्तमम् ॥

अत्र स्नानादिदं रूपमस्माभिः प्राप्तमुत्तमम्

॥५५॥

यस्मात्तस्मादिदं तीर्थं रूपतीर्थं भविष्यति ॥

त्रैलोक्ये सकले ख्यातं सर्वपातकनाशनम्

॥५६॥

येऽत्र स्नानं करिष्यन्ति श्रद्धया परया युताः ॥

सुरूपास्ते भविष्यंति सदा जन्मनि जन्मनि

॥५७॥

पितॄंश्च तर्पयिष्यन्ति य त्र श्रद्धासमन्विताः ॥

जलेनापि गयाश्राद्धात्ते लप्स्यन्ते धिकं फलम्

॥५८॥

येऽत्र रत्नप्रदानं च प्रकरिष्यन्ति मानवाः ॥

भविष्यंति न संदेहो राजानस्ते भवेभवे

॥५९॥

स्थास्यामो वयमत्रैव सांप्रतं कृतनिश्चयाः ॥

न यास्यामो वयं तीर्थं यद्यपि स्यात्सुशोभनम्

॥६०॥

एवमुक्त्वाऽथ व्यभजंस्तत्सर्वं मुनयश्च ते ॥

यज्ञोपवीतमात्राणि स्वानि तीर्थानि चक्रिरे

॥६१॥

सूत उवाच

अद्यापि च द्विजश्रेष्ठास्तत्र तीर्थे जगद्गुरुः ॥

प्रथमं स्पृशते तोयं नित्यं स्याद्दयितं शुभम्

॥६२॥

निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र श्रद्धया।

. कुरुते स परं श्रेयः प्राप्नुयात्सिद्धिलक्षणम्

॥६३॥

एवं ते मुनयः सर्वे विभज्य तन्महत्सरः ॥

सायंतनं च तत्रैव कृत्वा कर्म सुविस्तरम् ॥

ततो निशामुखे प्राप्ता यत्र देवः पितामहः ॥

दीक्षितस्त्वथ मौनी च यज्ञमण्डपसंश्रितः

॥६५॥

तं प्रणम्य ततः सर्वे गता यत्रर्त्विजः स्थिताः ॥

उपविष्टाः परिश्रान्ता दिवा यज्ञियकर्मणा

॥६६॥

इन्द्रादिकैः सुरैर्भक्त्या मृद्यमानाङ्घ्रयः स्थिताः ॥

अभिवाद्याथ तान्सर्वानुपविष्टास्ततो ग्रतः

॥६७॥

चक्रुश्चाथ कथाश्चित्रा यज्ञकर्मसमुद्भवाः ॥

सोमपानस्य संबन्धो व्यत्ययं च समुद्भवम्

॥६८॥

उद्गातुः प्रभवं चैव तथाध्वर्योः परस्परम् ॥

प्रोचुस्ते तत्त्वमाश्रित्य तथान्ये दूषयन्ति तत्

॥६९॥

अन्ये मीमांसकास्तत्र कोपसंरक्तलोचनाः।

. हन्युस्तेषां मतं वादमाश्रिता वाग्विचक्षणाः

॥७०॥

परिशिष्टविदश्चान्ये मध्यस्था द्विजसत्तमाः ॥

प्रोचुर्वादं परित्यज्य साभिप्रायं यथोदितम्

॥७१॥

महावीरपुरोडाशचयनप्रमुखांस्तथा ॥

विवादांश्चक्रिरे चान्ये स्वंस्वं पक्षं समाश्रिताः

॥७२॥

एवं सा रजनी तेषामतिक्रान्ता द्विजन्मनाम्

॥७३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रूपतीर्थोत्पत्तिपूर्वकप्रथमयज्ञदिवसवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ १८२ ॥