सोमप्रासादमाहात्म्यवर्णनम्
सूत उवाच
तथा तत्रास्ति विप्रेन्द्राः सोमस्यायतनं शुभम् ॥
यस्यापि दर्शनादेव मुच्यते पातकैर्नरः
॥१॥सोमवारे तु संप्राप्ते सोमस्य ग्रहणे नरः ॥
यस्तं पश्यति पापोऽपि नरकं न स पश्यति
॥२॥ऋषय ऊचुः
सर्वेषामेव देवानां दृश्यंतेऽत्र समाश्रयाः ॥
अत्र चंद्रस्य चैवैकः कथं जातः समाश्रयः
॥३॥एतन्नः सूतपुत्रातिचित्रं मनसि वर्तते ॥
तस्माद्वद महाभाग सर्वं त्वं वेत्स्यशेषतः
॥४॥सूत उवाच
एनज्जगद्द्विजश्रेष्ठाः सर्वं सोममयं स्मृतम् ॥
तस्मात्प्रतिष्ठिते तस्मिंस्त्रैलोक्यं स्यात्प्रतिष्ठितम्
॥५॥एताश्चौषधयः सर्वाः सस्याद्याश्चेह भूतले ॥
सर्वाः सोममयास्ताश्च याभिर्जीवंति जंतवः
॥६॥तस्माद्ब्रह्मादयो देवाः सोमं प्राप्य क्रमाद्द्विजाः ॥
तृप्तिं यांति परां हृष्टा यतस्तस्माद्वरोऽत्र सः ॥
अग्निष्टोमादयो यज्ञास्तथा सोमे प्रतिष्ठिताः ॥
तस्य पानाद्यतस्तृप्तिं तत्र यांति द्विजोत्तमाः
॥८॥एतस्मात्कारणात्सोमः सर्वेषामधिकः स्मृतः ॥
देवानां दानवानां च स हि पूज्यतमः स्मृतः
॥९॥यथान्येषां सुरेन्द्राणां हर्म्याणि धरणीतले ॥
क्रियन्ते रात्रिनाथस्य तद्वत्कुर्वंति मानवाः
॥१०॥यैर्येर्नरैर्निशेशस्य प्रासादो विहितः क्षितौ ॥
तेते मुक्तिपदं प्राप्ताः कृत्वाऽथ शुभसंचयम्
॥११॥यन्महेश्वरहर्म्याणां सहस्रेण भवेच्छुभम् ॥
तदेके नैव चंद्रस्य प्राप्नुवंति शुभं नराः
॥१२॥अथ चन्द्रोत्थहर्म्यस्य माहात्म्यं तद्द्विजोत्तमाः ॥
ज्ञात्वा ब्रह्मादयो देवा भयसंत्रस्तमानसाः ॥
तद्विघ्नार्थमिदं प्रोचुर्मेरुमूर्धानमाश्रिताः
॥१३॥सौम्यर्क्षे सोमवारेण सौम्ये मासि च संस्थिते ॥
तिथौ च सोमदेवत्ये प्राप्ते सोमग्रहे तथा ॥
सकारैः पंचभिर्युक्ते काले सोमस्य मंदिरम्
॥१४॥य एकाहेन संपाद्य प्रासादं स्थापयिष्यति ॥
चंद्रं स सर्वदेवोत्थहर्म्यस्याप्नोति सत्फलम्
॥१५॥सहस्रगुणितं सम्यक्छ्रद्धापूतेन चेतसा ॥
अन्यथा यस्तु चंद्रस्य प्रासादं प्रकरिष्यति
॥१६॥वंशोच्छेदं समासाद्य नरकं स प्रयास्यति ॥
एतस्मात्कारणाद्भीता न कुर्वंति नरा भुवि
॥१७॥प्रासादं रात्रिनाथस्य सुपुण्यमपि सद्द्विजाः ॥
य एष रात्रिनाथस्य क्षेत्रेऽत्रैव व्यवस्थितः
॥१८॥प्रासादस्त्वंबरीषेण भूभुजा स विनिर्मितः ॥
कथंचित्समयं प्राप्य यथोक्तं शास्त्रचिंतकैः
॥१९॥तस्यैवोत्तरदिग्भागे द्वितीयोऽन्यः प्रतिष्ठितः ॥
चन्द्रमा धंधुमारेण तद्वत्सोऽपि प्रतिष्ठितः
॥२०॥ततश्च तौ महीपालौ तत्प्रभावादुभौ द्विजाः ॥
गतौ च परमां सिद्धिं जन्ममृत्युविवर्जिताम्
॥२१॥प्रासादोऽन्यस्तृतीयस्तु क्षेत्रे प्राभासिके तथा ॥
इक्ष्वाकुणा नरेंद्रेण श्रद्धायुक्तेन निर्मितः
॥२२॥प्रासादत्रयमेतद्धि मुक्त्वात्र धरणीतले ॥
अपरो नास्ति चन्द्रस्य सत्यमेतन्मयोदितम् ॥
एकोऽस्ति नर्मदातीरे पुण्ये रेवोरिसंगमे
॥२३॥एतद्वः सर्वमाख्यातं चन्द्रमाहात्म्यमुत्तमम् ॥
पठतां शृण्वतां चापि सर्वपातकनाशनम्
॥२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहत्म्ये सोमप्रासादमाहात्म्यवर्णनंनाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥