मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १८४

3
नागरखण्डः · 184

पिंगलोपाख्यानवर्णनम्

सूत उवाच

तृतीये च दिने प्राप्ते त्रयोदश्यां द्विजोत्तमाः ॥

प्रातःसवनमादाय ऋत्विजः सर्व एव ते ॥

स्वेस्वे कर्मणि संलग्ना यज्ञकृत्यसमुद्भवे

॥१॥

ततः प्रवर्तते यज्ञस्तदा पैतामहो महान् ॥

सर्वकामसमृद्धस्तु सर्वैः समुदितो गुणैः

॥२॥

दीयतां दीयतां तत्र भुज्यतां भुज्यतामिति ॥

एकः संश्रूयते शब्दो द्वितीयो द्विजसंभवः

॥३॥

नान्यस्तत्र तृतीयस्तु यज्ञे पैतामहे शुभे ॥

यो यं कामयते कामं हेमरत्नसमुद्भवम्

॥४॥

स तत्प्राप्नोत्यसंदिग्धं वांछिताच्च चतुर्गुणम् ॥

पक्वान्नस्य कृतास्तत्र दृश्यंते पर्वताः शुभाः

॥५॥

घृतक्षीर महानद्यो दानार्थं वित्तराशयः ॥

एतस्मिन्नंतरे प्राप्तः कश्चिज्ज्ञानी द्विजोत्तमाः

॥६॥

अतीतानागतान्वेत्ति वर्तमानं च यः सदा ॥

स ब्रह्माणं नमस्कृत्य निविष्टश्च तदग्रतः

॥७॥

कर्मांतरेषु विप्राणां स सर्वेषां द्विजोत्तमाः ॥

कथयामास यद्वृत्तं बाल्यात्प्रभृति कृत्स्नशः

॥८॥

ततस्त ऋत्विजः सर्वे कौतुकाविष्टचेतसः ॥

पप्रच्छुर्ज्ञानिनं तं च विस्मयोत्फुल्ललोचनाः

॥९॥

विस्मृतानि स्मरंतस्ते निजकृत्यानि वै ततः ॥

प्रोक्तानि गर्हणीयानि ह्यसंख्यातानि सर्वशः

॥१०॥

ततस्ते पुनरेवाथ पप्रच्छुर्ज्ञानिनं च तम् ॥

लोकोत्तरमिदं ज्ञानं कथं ते संस्थितं द्विज

॥११॥

को गुरुस्ते समाचक्ष्व परं कौतूहलं हि नः ॥

अहोज्ञानमहो ज्ञानं नैतद्दृष्टं श्रुतं च न

॥१२॥

यादृशं ते द्विजश्रेष्ठ दृश्यते पार्थसंस्थितम् ॥

किं ब्रह्मणा स्वयं विप्र त्वमेवं प्रतिबोधितः

॥१३॥

किं वा हरेण तुष्टेन किं वा देवेन चक्रिणा ॥

नान्यप्रबोधितस्यैवं ज्ञानं संजायते स्फुटम्

॥१४॥

अतिथिरुवाच

पिंगला कुररः सर्पः सारंगश्चैव यो वने ॥

इषुकारः कुमारी च षडेते गुरवो मम

॥१५॥

एतेषां चेष्टितं दृष्ट्वा ज्ञानं मे समुपस्थितम्

॥१६॥

ब्राह्मणा ऊचुः

कथयस्व महाभाग कथं ते गुरवः स्थिताः ॥

कीदृशं च त्वया दृष्टं तेषां चैव विचेष्टितम्

॥१७॥

कस्मिन्देशे त्वमुत्पन्नः कस्मिन्स्थाने वदस्व नः ॥

किंनामा किं नु गोत्रश्च सर्वं विस्तरतो वद

॥१८॥

अतिथिरुवाच

आसन्नव पुरे विप्राश्चत्वारो ये विवासिताः ॥

शुनःशेपोऽथ शाक्रेयो बौद्धो दांतश्चतुर्थकः

॥१९॥

तेषां मध्ये तु यो बौद्धः शांतो दांत इति स्मृतः ॥

छन्दोगगोत्रविख्यातो वेदवेदांगपारगः

॥२०॥

नागरेषु समुत्पन्नः पश्चिमेवयसि स्थितः ॥

तस्याहं प्रथमः पुत्रः प्राणेभ्योऽपि सुहृत्प्रियः

॥२१॥

ततोऽहं यौवनं प्राप्तो यदा द्विजवरोत्तम।

तदा मे दयितस्तातः पंचत्वं समुपागतः

॥२२॥

एतस्मिन्नंतरे राजा ह्यानर्ताधिपतिर्द्विजाः ॥

सुतपास्तेन निर्दिष्टोऽहं तु कंचुकिकर्मणि

॥२३॥

शांतं दांतं समालोक्य विश्वस्तेन महात्मना ॥

तस्य चांतःपुरे ह्यासीत्पिंगलानाम नायिका

॥२४॥

दौर्भाग्येण समोपेता रूपेणापि समन्विता ॥

अथान्याः शतशस्तस्य भार्याश्चांतःपुरे स्थिताः

॥२५॥

ताः सर्वा रजनीवक्त्रे व्याकुलत्वं प्रयांति च ॥

आहरंति परान्गन्धान्धूपांश्च कुसुमानि च

॥२६॥

विलेपनानि मुख्यानि सुरभीणि तथा पुरः ॥

पुष्पाणि च विचित्राणि ह्यन्याः सूक्ष्मांबराणि च

॥२७॥

तावद्यावत्स्थितः कालः शयनीयसमुद्भवः ॥

मन्मथोत्साहसं युक्ताः पुलकेन समन्विताः

॥२८॥

एका जानाति मां सुप्तां नूनमाकारयिष्यति ॥

अन्या जानाति मां चैव परस्परममर्षतः

॥२९॥

स्पर्धयन्ति प्रयुध्यन्ति विरूपाणि वदन्ति च ॥

तासां मध्यात्ततश्चैका प्रयाति नृपसंनिधौ

॥३०॥

शेषा वै लक्ष्यमासाद्य निःश्वस्य प्रस्वपन्ति च ॥

दुःखार्ता न लभन्ति स्म ताश्च निद्रां पराभवात्

॥३१॥

कामेन पीडितांगाश्च बाष्पपूर्णेक्षणाः स्थिताः

॥३२॥

आशा हि परमं दुःखं निराशा परमं सुखम् ॥

आशानिराशां कृत्वा च सुखं स्वपिति पिंगला

॥३३॥

न करोति च शृंगारं न स्पर्धां च कदाचन ॥

न व्याकुलत्वमापेदे सुखं स्वपिति पिंगला

॥३४॥

ततो मयापि तद्दृष्ट्वा तस्याश्चेष्टितमुत्तमम् ॥

आशाः सर्वाः परित्यक्ताः स्वपिमीह ततः सुखी

॥३५॥

ये स्वपंति सुखं रात्रौ तेषां कायाग्निरिध्यते।

आहारं प्रतिगृह्णाति ततः पुष्टिकरं परम्

॥३६॥

तदेत्कारणं जातं मम तेजो भिवृद्धये ॥

गुरुत्वे पिंगला जाता तेन सा मे द्विजोत्तमाः

॥३७॥

आशापाशैः परीतांगा ये भवन्ति नरो र्दिताः ॥

ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया

॥३८॥

नैवाग्निर्दीप्यते तेषां जाठरश्च ततः परम् ॥

आहारं वांछते नैव तन्न तेजोभिवर्धनम्

॥३९॥

सर्वस्य विद्यते प्रांतो न वांछायाः कथंचन

॥४०॥

यथायथा भवेल्लाभो वांचितस्य नृणामिह ॥

हविषा कृष्णवर्त्मेव वृद्धिं याति तथातथा

॥४१॥

यथा शृंगं रुरोः काये वर्धमानस्य वर्धते ॥

एवं तृष्णापि यत्नेन वर्धमानेन वर्धते

॥४२॥

एवं ज्ञात्वा महाभागः पुरुषेण विजानता ॥

दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मयज्ञे तृतीयदिवसे पिंगलोपाख्यानवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ १८४ ॥