मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९२

3
नागरखण्डः · 192

सावित्रीमाहात्म्यवर्णनम्

सूत उवाच

अथ श्रुत्वा महानादं वाद्यानां समुपस्थितम् ॥

नारदः सम्मुखः प्रायाज्ज्ञात्वा च जननीं निजाम्

॥१॥

प्रणिपत्य स दीनात्मा भूत्वा चाश्रुपरिप्लुतः ॥

प्राह गद्गदया वाचा कण्ठे बाष्पसमावृतः

॥२॥

आत्मनः शापरक्षार्थं तस्याः कोपविवृद्धये ॥

कलिप्रियस्तदा विप्रो देवस्त्रीणां पुरः स्थितः

॥३॥

मेघगम्भीरया वाचा प्रस्खलंत्या पदेपदे ॥

मया त्वं देवि चाहूता पुलस्त्येन ततः परम्

॥४॥

स्त्रीस्वभावं समाश्रित्य दीक्षाकालेऽपि नागता

॥५॥

ततो विधेः समादेशाच्छक्रेणान्या समाहृता ॥

काचिद्गोपसमुद्भूता कुमारी देव रूपिणी

॥६॥

गोवक्त्रेण प्रवेश्याथ गुह्यमार्गेण तत्क्षणात् ॥

आकर्षिता महाभागे समानीताथ तत्क्षणात्

॥७॥

सा विष्णुना विवाहार्थं ततश्चैवानुमोदिता ॥

ईश्वरेण कृतं नाम गायत्री च तवानुगम्

॥८॥

ब्राह्मणैः सकलैः प्रोक्तं ब्राह्मणीति भवत्वियम् ॥

अस्माकं वचनाद्ब्रह्मन्कुरु हस्तग्रहं विभो

॥९॥

देवैः सर्वैः स सम्प्रोक्तस्ततस्तां च वराननाम् ॥

ततः पत्न्युत्थधर्मेण योजयामास सत्वरम्

॥१०॥

किं वा ते बहुनोक्तेन पत्नीशालां समागता ॥

रशना योजिता तस्या गोप्याः कट्यां सुरेश्वरि

॥११॥

तद्दृष्ट्वा गर्हितं कर्म निष्क्रांतो यज्ञमण्डपात् ॥

अमर्ष वशमापन्नो न शक्तो वीक्षितुं च ताम्

॥१२॥

एतज्ज्ञात्वा महाभागे यत्क्षमं तत्समाचर ॥

गच्छ वा तिष्ठ वा तत्र मण्डपे धर्मवर्जिते

॥१३॥

तच्छ्रुत्वा सा तदा देवी सावित्री द्विजसत्तमाः ॥

प्रम्लानवदना जाता पद्मिनीव हिमागमे

॥१४॥

लतेव च्छिन्नमूला सा चक्रीव प्रियविच्युता ॥

शुचिशुक्लागमे काले सरसीव गतोदका

॥१५॥

प्रक्षीणचन्द्रलेखेव मृगीव मृगवर्जिता ॥

सेनेव हतभूपाला सतीव गतभर्तृका

॥१६॥

संशुष्का पुष्पमालेव मृतवत्सैव सौरभी ॥

वैमनस्यं परं गत्वा निश्चलत्वमुपस्थिताम् ॥

तां दृष्ट्वा देवपत्न्यस्ता जगदुर्नारदं तदा

॥१७॥

धिग्धिक्कलिप्रिय त्वां च रागे वैराग्यकारकम् ॥

त्वया कृतं सर्वमेतद्विधेस्तस्य तथान्तरम्

॥१८॥

गौर्युवाच

अयं कलिप्रियो देवि ब्रूते सत्यानृतं वचः ॥

अनेन कर्मणा प्राणान्बिभर्त्येष सदा मुनिः

॥१९॥

अहं त्र्यक्षेण सावित्रि पुरा प्रोक्ता मुहुर्मुहुः ॥

नारदस्य मुनेर्वाक्यं न श्रद्धेयं त्वया प्रिये ॥

यदि वांछसि सौख्यानि मम जातानि पार्वति

॥२०॥

ततःप्रभृति नैवाहं श्रद्दधेऽस्य वचः क्वचित् ॥

तस्माद्गच्छामहे तत्र यत्र तिष्ठति ते पतिः

॥२१॥

स्वयं दृष्ट्वैव वृत्तांतं कर्तव्यं यत्क्षमं ततः ॥

नात्रास्य वचनादद्य स्थातव्यं तत्र गम्यताम्

॥२२॥

सूत उवाच

गौर्या स्तद्वचनं श्रुत्वा सावित्री हर्षवर्जिता ॥

मखमण्डपमुद्दिश्य प्रस्खलन्ती पदेपदे

॥२३॥

प्रजगाम द्विजश्रेष्ठाः शून्येन मनसा तदा ॥

प्रतिभाति तदा गीतं तस्या मधुरमप्यहो

॥२४॥

कर्णशूलं यथाऽऽयातमसकृद्द्विजसत्तमाः ॥

वन्ध्यवाद्यं यथा वाद्यं मृदंगानकपूर्वकम्

॥२५॥

प्रेतसंदर्शनं यद्वन्मर्त्यं तत्सा महासती ॥

वीक्षितुं न च शक्रोति गच्छमाना तदा मखे

॥२६॥

शृंगारं च तथांगारं मन्यते सा तनुस्थितम् ॥

वाष्पपूर्णेक्षणा दीना प्रजगाम महासती

॥२७॥

ततः कृच्छ्रात्समासाद्य सैवं तं यज्ञमंडपम् ॥

कृच्छ्रात्कारागृहं तद्वद्दुष्प्रेक्ष्यं दृक्पथं गतम्

॥२८॥

अथ दृष्ट्वा तु संप्राप्तां सावित्रीं यज्ञमण्डपम् ॥

तत्क्षणाच्च चतुर्वक्त्रः संस्थितोऽधोमुखो ह्रिया

॥२९॥

तथा शम्भुश्च शक्रश्च वासुदेवस्तथैव च ॥

ये चान्ये विबुधास्तत्र संस्थिता यज्ञमंडपे

॥३०॥

ते च ब्राह्मणशार्दूलास्त्यक्त्वा वेदध्वनिं ततः ॥

मूकीभावं गताः सर्वे भयसंत्रस्तमानसाः

॥३१॥

अथ संवीक्ष्य सावित्री सपत्न्या सहितं पतिम् ॥

कोपसंरक्तनयना परुषं वाक्यमब्रवीत्

॥३२॥

सावित्र्युवाच

किमेतद्युज्यते कर्तुं तव वृद्ध तमाकृते ॥

ऊढवानसि यत्पत्नीमेतां गोपसमुद्भवाम्

॥३३॥

उभयोः पक्षयोर्यस्याः स्त्रीणां कांता यथेप्सिताः ॥

शौचाचारपरित्यक्ता धर्मकृत्यपराङ्मुखाः

॥३४॥

यदन्वये जनाः सर्वे पशुधर्मरतोत्सवाः ॥

सोदर्यां भगिनीं त्यक्त्वा जननीं च तथा पराम्

॥३५॥

तस्याः कुले प्रसेवंते सर्वां नारीं जनाः पराम् ॥

यथा हि पशवोऽश्नंति तृणानि जलपानगाः

॥३६॥

विण्मूत्रं केवलं चक्रुर्भारोद्वहनमेव च ॥

९ तद्वदस्याः कुलं सर्वं तक्रमश्राति केवलम्

॥३७॥

कृत्वा मूत्रपुरीषं च जन्मभोगविवर्जितम् ॥

नान्यज्जानाति कर्तव्यं धर्मं स्वोदरसं श्रयात्

॥३८॥

अन्त्यजा अपि नो कर्म यत्कुर्वन्ति विगर्हितम् ॥

आभीरास्तच्च कुर्वंति तत्किमेतत्त्वया कृतम्

॥३९॥

अवश्यं यदि ते कार्यं भार्यया परया मखे ॥

त्वया वा ब्राह्मणी कापि प्रख्याता भुवनत्रये

॥४०॥

नोढा विधे वृथा मुण्ड नूनं धूर्तोऽसि मे मतः ॥

यत्त्वया शौचसंत्यक्ता कन्याभावप्रदूषिता

॥४१॥

प्रभुक्ता बहुभिः पूर्वं तथा गोपकुमारिका ॥

एषा प्राप्ता सुपापाढ्या वेश्याजनशताधिका

॥४२॥

अन्त्यजाता तथा कन्या क्षतयोनिः प्रजायते ॥

तथा गोपकुमारी च काचित्तादृक्प्रजायते

॥४३॥

मातृकं पैतृकं वंशं श्वाशुरं च प्रपातयेत्।

तस्मादेतेन कृत्येन गर्हितेन धरातले

॥४४॥

न त्वं प्राप्स्यसि तां पूजां तथा न्ये विबुधोत्तमाः ॥

अनेन कर्मणा चैव यदि मे स्ति ऋतं क्वचित्

॥४४॥

पूजां ये च करिष्यंति भविष्यंति च निर्धनाः ॥

कथं न लज्जितोसि त्वमेतत्कुर्वन्विगर्हितम्

॥४६॥

पुत्राणामथ पौत्राणामन्येषां च दिवौकसाम् ॥

अयोग्यं चैव विप्राणां यदेतत्कृतवानसि

॥४७॥

अथ वा नैष दोषस्ते न कामवशगा नराः ॥

लज्जंति च विजानंति कृत्याकृत्यं शुभाशुभम्

॥४८॥

अकृत्यं मन्यते कृत्यं मित्रं शत्रुं च मन्यते ॥

शत्रुं च मन्यते मित्रं जनः कामवशं गतः

॥४९॥

द्यूतकारे यथा सत्यं यथा चौरं च सौहृदम् ॥

यथा नृपस्य नो मित्रं तथा लज्जा न कामिनाम्

॥५०॥

अपि स्याच्छीतलो वह्निश्चंद्रमा दहनात्मकः।

क्षाराब्दिरपि मिष्टः स्यान्न कामी लज्जते ध्रुवम्

॥५१॥

न मे स्याद्दुखमेतद्धि यत्सापत्न्यमुपस्थितम् ॥

सहस्रमपि नारीणां पुरुषाणां यथा भवेत्

॥५२॥

कुलीनानां च शुद्धानां स्वजात्यानां विशेषतः ॥

त्वं कुरुष्व पराणां च यदि कामवशं गतः

॥५३॥

एतत्पुनर्महद्दुःखं यदाभीरी विगर्हिता ॥

वेश्येव नष्टचारित्रा त्वयोढा बहुभर्तृका

॥५४॥

तस्मादहं प्रयास्यामि यत्र नाम न ते विधे ॥

श्रूयते कामलुब्धस्य ह्रिया परिहृतस्य च

॥५५॥

अहं विडंबिता यस्मादत्रानीय त्वया विधे ॥

पुरतो देवपत्नीनां देवानां च द्विजन्मनाम् ॥

तस्मात्पूजां न ते कश्चित्सांप्रतं प्रकरिष्यति

॥५६॥

अद्य प्रभृति यः पूजां मंत्रपूजां करिष्यति ॥

तव मर्त्यो धरापृष्ठे यथान्येषां दिवौकसाम्

॥५७॥

भविष्यति च तद्वंशो दरिद्रो दुःखसंयुतः ॥

ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोपि चालये

॥५८॥

एषाऽभीरसुता यस्मान्मम स्थाने विगर्हिता ॥

भविष्यति न संतानस्तस्माद्वाक्यान्ममैव हि

॥५९॥

न पूजां लप्स्यते लोके यथान्या देवयोषितः

॥६०॥

करिष्यति च या नारी पूजा यस्या अपि क्वचित् ॥

सा भविष्यति दुःखाढ्या वंध्या दौर्भाग्यसंयुता

॥६१॥

पापिष्ठा नष्टचारित्रा यथैषा पंचभर्तृका ॥

विख्यातिं यास्यते लोके यथा चासौ तथैव सा

॥६२॥

एतस्या अन्वयः पापो भविष्यति निशाचर ॥

सत्यशौचपरित्यक्ताः शिष्टसंगविवर्जिताः

॥६३॥

अनिकेता भविष्यंति वंशेऽस्या गोप्रजीविनः ॥

एवं शप्त्वा विधिं साध्वी गायत्रीं च ततः परम्

॥६४॥

ततो देवगणान्सर्वाञ्छशाप च तदा सती ॥

भोभोः शक्र त्वयानीता यदेषा पंचभर्तृका

॥६५॥

तदाप्नुहि फलं सम्यक्छुभं कृत्वा गुरोरिदम् ॥

त्वं शत्रुभिर्जितो युद्धे बंधनं समवाप्स्यसि

॥६६॥

कारागारे चिरं कालं संगमिष्यत्यसंशयम् ॥

वासुदेव त्वया यस्मादेषा वै पंचभर्तृका

॥६७॥

अनुमोदिता विधेः पूर्वं तस्माच्छप्स्याम्यसंशयम् ॥

त्वं चापि परभृत्यत्वं संप्राप्स्यसि सुदुर्मते

॥६८॥

समीपस्थोऽपि रुद्र त्वं कर्मैतद्यदुपेक्षसे ॥

निषेधयसि नो मूढ तस्माच्शृणु वचो मम

॥६९॥

जीवमानस्य कांतस्य मया तद्विरहोद्भवम् ॥

संसेवितं मृतायां ते दयितायां भविष्यति

॥७०॥

यत्र यज्ञे प्रविष्टेयं गर्हिता पंचभर्तृका ॥

भवानपि हविर्वह्ने यत्त्वं गृह्णासि लौल्यतः

॥७१॥

तथान्येषु च यज्ञेषु सम्यक्छंकाविवर्जितः ॥

तस्माद्दुष्टसमाचार सर्वभक्षो भविष्यसि

॥७२॥

स्वधया स्वाहया सार्धं सदा दुःखसमन्वितः ॥

नैवाप्स्यसि परं सौख्यं सर्वकालं यथा पुरा

॥७३॥

एते च ब्राह्मणाः सर्वे लोभोपहतचेतसः ॥

होमं प्रकुर्वते ये च मखे चापि विगर्हिते

॥७४॥

वित्तलोभेन यत्रैषा निविष्टा पञ्चभर्तृका ॥

तथा च वचनं प्रोक्तं ब्राह्मणीयं भविष्यति

॥७५॥

दरिद्रोपहतास्तस्माद्वृषलीपतयस्तथा ॥

वेदविक्रयकर्तारो भविष्यथ न संशयः

॥७६॥

भोभो वित्तपते वित्तं ददासि मखविप्लवे ॥

तस्माद्यत्तेऽखिलं वित्तमभोग्यं संभविष्यति

॥७७॥

तथा देवगणाः सर्वे साहाय्यं ये समाश्रिताः ॥

अत्र कुर्वंति दोषाढ्ये यज्ञे वै पांचभर्तृके

॥७८॥

संतानेन परित्यक्तास्ते भविष्यंति सांप्रतम् ॥

दानवैश्च पराभूता दुःखं प्राप्स्यति केवलम्

॥७९॥

एतस्याः पार्श्वतश्चान्याश्चतस्रो या व्यवस्थिताः ॥

आभीरीति सप त्नीति प्रोक्ता ध्यानप्रहर्षिताः

॥८०॥

मम द्वेषपरा नित्यं शिवदूतीपुरस्सराः ॥

तासां परस्परं संगः कदाचिच्च भविष्यति

॥८१॥

नान्येनात्र नरेणापि दृष्टिमात्रमपि क्षितौ ॥

पर्वताग्रेषु दुर्गेषु चागम्येषु च देहिनाम् ॥

वासः संपत्स्यते नित्यं सर्वभोगविवर्जितः

॥८२॥

सूत उवाच

एवमुक्त्वाऽथ सावित्रीकोपोपहतचेतसा ॥

विसृज्य देवपत्नीस्ताः सर्वा याः पार्श्वतः स्थिताः

॥८३॥

उदङ्मुखी प्रतस्थे च वार्यमाणापि सर्वतः ॥

सर्वाभिर्देवपत्नीभिर्लक्ष्मीपूर्वाभिरेवच

॥८४॥

तत्र यास्यामि नो यत्र नामापि किल वै यतः ॥

श्रूयते कामुकस्यास्य तत्र यास्याम्यहं द्रुतम्

॥८५॥

एकश्चरणयोर्न्यस्तो वामः पर्वतरोधसि ॥

द्वितीयेन समारूढा तस्यागस्य तथोपरि

॥८६॥

अद्यापि तत्पदं वामं तस्यास्तत्र प्रदृश्यते ॥

सर्वपापहरं पुण्यं स्थितं पर्वतरोधसि

॥८७॥

अपि पापसमाचारो यस्तं पूजयते नरः ॥

सर्वपातकनिर्मुक्तः स याति परमं पदम्

॥८८॥

यो यं काममभि ध्याय तमर्चयति मानवः ॥

अवश्यं समवाप्नोति यद्यपि स्यात्सुदुर्लभम्

॥८९॥

सूत उवाच

एवं तत्र स्थिता देवी सावित्री पर्वता श्रया ॥

अपमानं महत्प्राप्य सकाशात्स्वपतेस्तदा

॥९०॥

यस्तामर्चयते सम्यक्पौर्णमास्यां विशेषतः ॥

सर्वान्कामानवाप्नोति स मनोवांछितां स्तदा

॥९१॥

या नारी कुरुते भक्त्या दीपदानं तदग्रतः ॥

रक्ततंतुभिराज्येन श्रूयतां तस्य यत्फलम्

॥९२॥

यावन्तस्तंतवस्तस्य दह्यंते दीप संभवाः ॥

मुहूर्तानि च यावंति घृतदीपश्च तिष्ठति ॥

तावज्जन्मसहस्राणि सा स्यात्सौभाग्यभांगिनी

॥९३॥

पुत्रपौत्रसमोपेता धनिनी शील मंडना।

न दुर्भगा न वन्ध्या च न च काणा विरूपिका

॥९४॥

या नृत्यं कुरुते नारी विधवापि तदग्रतः ॥

गीतं वा कुरुते तत्र तस्याः शृणुत यत्फलम्

॥९५॥

यथायथा नृत्यमाना स्वगात्रं विधुनोति च ॥

तथातथा धुनोत्येव यत्पापं प्रकृतं पुरा

॥९६॥

यावन्तो जन्तवो गीतं तस्याः शृण्वंति तत्र च ॥

तावंति दिवि वर्षाणि सहस्राणि वसेच्च सा

॥९७॥

सावित्रीं या समुद्दिश्य फलदानं करोति सा ॥

फलसंख्याप्रमाणानि युगानि दिवि मोदते

॥९८॥

मिष्टान्नं यच्छते यश्च नारीणां च विशेषतः ॥

तस्या दक्षिणमूर्तौ च भर्त्राढ्यानां द्विजोत्तमाः ॥

स च सिक्थप्रमाणानि युगा नि दिवि मोदते

॥९९॥

यः श्राद्धं कुरुते तत्र सम्यक्छ्रद्धासमन्वितः ॥

रसेनैकेन सस्येन तथैकेन द्विजोत्तमाः ॥

तस्यापि जायते पुण्यं गयाश्राद्धेन यद्भवेत्

॥१००॥

यः करोति द्विजस्तस्या दक्षिणां दिशमाश्रितः ॥

सन्ध्योपासनमेकं तु स्वपत्न्या क्षिपितैर्जलैः

॥१०१॥

सायंतने च संप्राप्ते काले ब्राह्मणसत्तमाः ॥

तेन स्याद्वंदिता संध्या सम्यग्द्वादशवार्षिकी

॥१०२॥

यो जपेद्ब्राह्मणस्तस्याः सावित्रीं पुरतः स्थितः ॥

तस्य यत्स्यात्फलं विप्राः श्रूयतां तद्वदामि वः

॥१०३॥

दशभिर्ज्जन्मजनितं शतेन च पुरा कृतम् ॥

त्रियुगे तु सहस्रेण तस्य नश्यति पातकम्

॥१०४॥

तस्मात्सर्वप्रयत्नेन चमत्कारपुरं प्रति ॥

गत्वा तां पूजयेद्देवीं स्तोतव्या च विशेषतः

॥१०५॥

सावित्र्या इदमाख्यानं यः पठेच्छृणुयाच्च वा ॥

सर्वपापविनिर्मुक्तः सुखभागत्र जायते

॥१०६॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं द्विजोत्तमाः ॥

सावित्र्याः कृत्स्नं माहात्म्यं किं भूयः प्रवदाम्यहम्

॥१०७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सावित्रीमाहात्म्यवर्णनंनाम द्विनवत्युत्तरशततमोऽध्यायः ॥ १९२ ॥