हाटकेश्वरक्षेत्रगमनपुरश्चरणार्थब्राह्मणामन्त्रणवर्णनम्
सूत उवाच
अन्यस्मिन्नहनि प्राप्ते रहस्युक्तः स भार्यया ॥
रात्रौ प्रसुप्तः पार्श्वे च पादौ संस्पृश्य तत्क्षणात्
॥१॥त्वं तावन्मम भर्त्तासि यावज्जीवमसंशयम् ॥
तद्वदस्व विभोऽस्माकं त्वदर्थं स मयोज्झितः
॥२॥इन्द्रजालमिदं किं ते किं वा मंत्रप्रसाधनम् ॥
देवानां वा प्रसादोऽयं यत्त्वं चैतादृशः स्थितः
॥३॥मया त्वं हि तदा ज्ञातः प्रथमेऽपि दिने स्थिते ॥
यदा संभूषिता वस्त्रैस्तथा वस्तुविभूषणैः
॥४॥यद्यहं तव वार्तां च सर्वां कपटसंभवाम् ॥
कथयामि द्वितीयस्य तत्ते पादौ स्पृशाम्यहम्
॥५॥सूत उवाच
एवमुक्तो विहस्योच्चैः स तदा ब्राह्मणोत्तमाः ॥
तामालिंग्य ततः प्राह वचनं मधुराक्षरम्
॥६॥साधु प्रिये त्वया ज्ञातं सर्वं मम विचेष्टितम् ॥
अहं स विप्रः सुभगे मणिभद्रेण यः पुरा
॥७॥विडंबितो मुखं पश्यंस्त्वदीयं चंद्रसन्निभम् ॥
चमत्कारपुरं गत्वा मया चाराधितो रविः ॥
तेन तुष्टेन मे दत्तं तद्रूपं ज्ञानमेव च
॥८॥माहिकोवाच
त्वदीयदर्शनेनाहं कामदेववशं गता
॥९॥तस्मादाराधयिष्यामि तं गत्वा दिननायकम् ॥
येन ते तादृशं भूयः प्रतुष्टो विदधाति सः
॥१०॥किं मे चैतेन रूपेण तारुण्येनापि च प्रभो ॥
यत्ते तथाविधं रूपं संभजामि दिवानिशम्
॥११॥सूत उवाच
तच्छ्रुत्वा गुटिकां पुष्प समादाय मुखान्ततः ॥
दधार तादृशं रूपं यादृग्दृष्टं पुरा तया
॥१२॥ततः सा हर्षिता माही पुलकेन समन्विता ॥
तमालिंग्याभजद्गाढं वाक्यमेतदुवाच ह
॥१३॥अद्य मे सफलं जन्म यौवनं रूपमेव च ॥
यत्त्वं हृद्वांछितः कांतः प्रलब्धो मदनोपमः
॥१४॥एतावंति दिनान्येव न मया कामजं सुखम् ॥
अपि स्वल्पतरं लब्धं कथंचिद्वृद्धसेवया
॥१५॥भजस्व स्वेच्छया विप्र दासी तेऽहं व्यवस्थिता
॥१६॥पुष्प उवाच
प्रविशामि किमंगेषु भवन्तीं किं मिलाम्यहम् ॥
प्रिये चिरेण लब्धासि न जाने कर वाणि किम्
॥१७॥एवमुक्त्वा ततस्तौ च मैथुनाय कृतक्षणौ ॥
प्रवृत्तौ ब्राह्मणश्रेष्ठाः कामदेववशंगतौ
॥१९८॥अथ रात्र्यां व्यतीतायामुदिते सूर्यमण्डले ॥
वक्त्रे तां गुटिकां कृत्वा स पुष्पस्तादृशोऽभवत्
॥१९॥एवं तस्य स्थितस्यात्र महान्कालो व्यजायत ॥
पुत्राः पौत्रास्तथा जाताः कन्यकाश्च तथैव च
॥२०॥स वृद्धत्वं यदा प्राप्तो जराविप्लवतां गतः ॥
तदा स चिन्तयामास मया पापं महत्कृतम्
॥२१॥मणिभद्रो वराकोऽसौ मिथ्याचारेण घातितः ॥
तस्य भार्या हृता चैव प्रसूतिं च नियोजिता
॥२२॥हाटकेश्वरजं क्षेत्रं तस्माद्गत्वा करोम्य हम् ॥
पुरश्चरणसंज्ञं च येन शुद्धिः प्रजायते
॥२३॥एवं स निश्चयं कृत्वा पुष्पश्चित्ते निजे तदा ॥
असंख्यं वित्तमादाय चमत्कारपुरंगतः
॥२४॥पुत्रेभ्योऽपि यथासंख्यं दत्त्वा चैव पृथक्पृथक् ॥
प्रासादं कारयामास तस्य सूर्यस्य शोभनम्
॥२५॥यस्मिन्सिद्धिं गतः सोऽत्र याज्ञवल्क्यप्रतिष्ठिते ॥
ततो मध्यममाहूय प्रणिपत्याभिवाद्य च ॥
सोऽब्रवीद्ब्राह्मणानां मे चातुश्चरणमानय
॥२६॥येनाहमग्रतो भूत्वा प्रायश्चित्तं विशुद्धये ॥
पुरश्चरणसंज्ञं तु प्रार्थयामि यथाविधि
॥२७॥इति स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाट केश्वरक्षेत्रमाहात्म्ये पुष्पस्य पापक्षालनार्थं हाटकेश्वरक्षेत्रगमनपुरश्चरणार्थब्राह्मणामन्त्रणवर्णनंनाम षष्ट्यधिकशततमोऽध्यायः ॥ १६० ॥